________________
१४८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे __ अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च । तन्मात्रहवनार्थत्वाद् घृतादिवद् हवनस्य विधायकता, अनुवादता च घृतादेः कारणमात्रवृत्तित्वाद् हवनवत् । एवं चावाक्यत्वम् , अननुवादत्वादविधायकत्वात्, विच्छिन्नार्थपदवत् काकरुतवत् । ज्ञाताज्ञाताविशेषाच्चैवं घटज्ञानवज्ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्वि5 किञ्चान्यत् , अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च । तत्र तावत् 'घृतेन जुहुयात् पयसा जुहुयात्' इत्यादिवाक्येषु घृतादेविधेयत्वाभिमतस्य कारणमात्रस्य हवनकार्यस्यान्यस्य तन्मात्रेतिकर्तव्यतामात्रहवनार्थत्वात् 'अग्निहोत्रं जुहुयात्' इत्यत्र श्रुतहवनानुवादावोऽपि, हवनस्य घृतादिव्यतिरिक्तस्याभावात् । ततश्च घृतादिविधानवज्ज्ञातार्थाभिमतस्य हवनवाक्यस्य विधायकतैव स्यात् , नानुवादता। अनुवादता
च घृतादेरज्ञातार्थविधायकाभिमतस्यापि, कारणमात्रवृत्तित्वादू हवनवदिति, कारणमात्रे वृत्तिरस्य तत् 10 कारणमात्रवृत्ति घृतादि हवनं च, उक्तविधिना कार्याभावस्य प्रतिपादितत्वात् । तस्मात् कारणमात्रवृत्तित्वाद् हेवनवद् घृतादेरनुवादता घृतादिवद्धवनस्य विधायकतेति । एवं चेति, विध्यनुवादयोरन्योन्यस्वभावसङ्कराव्यवस्थितात्मस्वभावत्वान्न विधिर्नानुवादोऽस्ति, अत एवमुक्तप्रकारेणावाक्यत्वम् , अननुवादत्वादविधायकत्वात् , विच्छिन्नार्थपदवत् । यथा विच्छिन्नार्थमेकं पदमधिकृतपदार्थान्तरसम्बन्धं 'गाम्' इत्येतन्न वाक्यमत एव विध्यनुवादत्वाकाङ्ख्यार्थाभावात् तथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः, घृतेन पयसा जुहुयात' 15 ईत्यादीनि । यस्यापि पदार्थो नास्त्येव तं प्रति काकरतवदिति दृष्टान्तः । यथा काकरुतमर्थान्तराकाङ्क्षारहितमवाक्यमविध्यनुवादत्वात् तथेदमपि ।
ज्ञाताज्ञाताविशेषाच्चैवं घटज्ञानवत् । एवमिति कारणमात्रकार्यत्वाभ्युपगमे साधुतासाधुतयोः १०५१ साधुता तावत् ‘गौः' इत्यादेः पदस्य 'अग्निहोत्रं जुहुयात्' इत्यादेर्वाक्यस्य विधित्वमनुवादत्वं च नोपपद्यते ।
शब्दो हि ज्ञातार्थोऽज्ञातार्थो वा प्रयुज्यते, ज्ञातार्थोऽनूद्याज्ञातार्थविधानार्थं प्रयुज्यते, स पुनर्शातार्थः स्वत 20 एव प्रत्यक्षादिना प्रमाणेन ज्ञातेऽर्थे प्रयुज्येत वाक्यान्तरेण वा परेण ज्ञापितेऽर्थे, यथा 'अयं देवदत्तः' इति
अयंशब्दस्य प्रत्यक्षदृष्टार्थवाचित्वादनूद्य देवदत्तत्यं विधीयते, वाक्यान्तरवेदितार्थानि वा पदान्यनूद्य अभ्याजनं विधीयते 'देवदत्त ! गामभ्याज शुक्लाम्' इति ज्ञाताज्ञातार्थता पदानां वाक्यानां च साधुत्वाभिमतानां प्रत्येकं सर्वेषां द्वयर्थता दृष्टा । को दृष्टान्तः ? घटज्ञानवत् । यथा घंटेस्यारातीया भागाश्चक्षुराद्युपलभ्या ज्ञाताः परान्तर्बुध्नादिभागा न ज्ञाताः। सैषा लोकप्रसिद्धा साधुता पदवाक्यशब्दानां कारणात्मकार्यवादेऽ25 स्मिन्न घटेत, सर्वस्यैकात्मकत्वे ज्ञाताज्ञातभेदानुपपत्तेः, एकस्यैव वा तदुभयाभावाद्विध्यनुवादत्वाभावस्योक्त
त्वात् काकरुतादिवदिति । नाप्यसाधुता वाक्यभेदानर्थक्यादिदोषसम्बद्धा घटते, यस्मात् कारणात्मककार्यवादेऽर्थान्तराभावाज्ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्विवक्षावृत्तिवाक्यभेददोषपरिकल्पनापरि
१ दृश्यतां पृ० १४२ टि० ९॥ २त्वादिमतस्य प्र० ॥ ३°कार्यश्चान्यस्य तन्मा भा० । कार्यस्वातन्मा डे० लीं ॥ ४ भावो हवनस्य भा०॥ ५ हवनघृतादे प्र०॥ ६ वादकता य० ॥ ७ अनुवाद प्र०॥ ८रसंबंधं प्र०॥ ९ अत्र इत्यादीति इत्यपि पाठः स्यात् ॥ १० तथा प्र०॥ ११ ज्ञातावि भा० । ज्ञाताज्ञातवियः॥ १२ विधत्व भा० । विधेयत्व य० ॥ १३ ण पिते भा० पा० डे० ली । °णापिते वि० २० ही० ॥ १४ घटज्ञानस्या य० ॥ १५ शैषा भा० ॥ १६ पत्तिः य० ॥ १७ स्योक्तेः य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org