________________
कर्तव्यतायाः कारणात्मकत्वेऽपि दोषाः] द्वादशारं नयचक्रम्
१४७ पूर्वत्वाद् विधायकत्वात्, मातृवद् वचनवत् । अथ जन्या सा, एवं तर्हि न जनिका. जन्यत्वादिभ्यः, पुत्रादिवत् ।
प्रतीतिकर्तव्यतं च कर्तव्यतासमातेरितिकर्तव्यतान्तरानारम्भः । प्रत्येक त्वसमाप्तावकारणभावादतथाता च । समुदायस्यापि च तन्मात्रत्वात् , उक्तवत् ।
कारणेतिकर्तव्यताव्यतिरिक्ता काचिदस्ति ततः सा तज्जन्या न भवति क्रिया, नात्मनैवात्मानं जनयती-5 त्यर्थः । कस्मात् ? जनकत्वात् कारणत्वात् पूर्वत्वाद् विधायकत्वाद् मातृवत्, यथा माता नात्मानं जनयति, किं तर्हि ? ततोऽन्यां दुहितरं जनयति, एवमियमितिकर्तव्यता जनिका सती । तथा कारणत्वात् पूर्वत्वाद् विधायकत्वादिति व्याख्येयानि । वचनवदित्यत्र यथा वचनमपि नात्मानं जनयति बुद्धिं तु ततोऽन्यां वाच्यविषयां जनयति तथा इतिकर्तव्यतेति । अथ मा भूदेष दोष इति जनकत्वमसिद्धं तस्या जन्यत्वात् , जन्या हि सेत्यत्रोच्यते - अथ जन्या सा एवं तर्हि न जनिका न कारणम् , 10 जन्यत्वादिभ्यः, जन्यत्वात् कार्यत्वादपूर्वत्वाद् विधेयत्वात्, पुत्रादिवत् । आदिग्रहणाद् वाच्यार्थज्ञानवत् । तस्मात् स्वविहितदोषत्वाजन्यत्वे जनकत्वे वा दोषानतिवृत्तेरयुक्तमुक्तम् - इतिकर्तव्यतैव कर्त- १०४-१ व्यता तदनुबन्धादिति ।
किञ्चान्यत् , कारणमात्रत्वे सति कर्तव्यता प्रतीतिकर्तव्यतं परिसमाप्ता वा स्यात् , अपरिसमाप्ता वा ? तत्र तावद् यदि प्रत्येकमितिकर्तव्यतासु कर्तव्यता परिसमाप्ता ततः प्रतीतिकर्तव्यतं च कर्तव्यता-15 समाप्तेरितिकर्तव्यतान्तरानारम्भः, एकया 'घृतेन॑ जुहुयात्' इत्यनयैव इतिकर्तव्यतया तन्मात्रपरिसमाप्तायाः कर्तव्यतायाः कृतत्वात् ‘पयसा दध्ना' इत्यादीनामितिकर्तव्यतान्तराणामारम्भो निरर्थकः प्राप्तः । अनारम्भ एव वा तस्या अपि कारणमात्रत्वात् 'इतिकर्तव्यतैव कर्तव्यता' इति त्वयैवाभ्युपगतत्वात् न्यायतश्च घृतादिकारणद्रव्यमानत्वस्य क्रियायाः प्रतिपादितत्वात् सिद्धौदनपचनवदनारम्भ एव प्राप्तः । एवं तावत् प्रत्येकपरिसमाप्तौ दोषः । प्रत्येकं त्वसमाप्तावकारणभावादतथाता च, यदि शिबिकावाहकैकारणत्ववत् 20 प्रत्येकमसमाप्तौ च कर्तव्यता इतिकर्तव्यतासु तथाप्यकारणता, प्रत्येकमकारणत्वात् , सिकतातैलवत् । 'इति'शब्दस्य एवमर्थत्वात् ‘एवं'शब्दस्य च प्रकारार्थत्वादेवं कर्तव्यमितिकर्तव्यम् , घृतादिप्रक्षेपस्वरूपकर्तव्यता तथाता, न तथाता अतथाता, तत्तथात्वं न प्राप्नोति प्रत्येकमकारणत्वादित्र्यंतथाता च । ननूक्तं शिबिकावाहकवहनशक्तिवत् समुदाये "सेतिकर्तव्यताशक्तिरिति, अत्रोच्यते - समुदायस्यापि च तन्मात्रत्वादवयवमात्रत्वादुक्तवदिति, उक्तं हि तत्व एवातथाभूतेस्तथाभूतेर्वेति, अवयवा एव हि समुदायीभवन्तो 25 दृश्यन्ते, नो चेत् सिकतातैलवदेव न स्यात् तिलसमुदायतैलमपि ।
१०४-२ १त्वादित्य जन्यत्वात् य० ॥ २ वाक्यार्थ य० ॥ ३ युक्तम् य०॥ ४ दृश्यतां पृ० १४२ पं० १॥ ५ कर्तव्यंता पा० । कर्तव्यता वि० डे० लीं० २० ही० ॥ ६ व्यतासमाप्ते य० ॥ ७ दृश्यतां पृ० १४२ टि० ९॥ ८ इतिकर्तव्यतेति त्वयैवा य० ॥ ९°णभावातथाता च यदि भा० । णाभावातथाताव. द्यदि वि० । णाभावात्तथातावद्यदि भा० वि० विना ॥ १०°काकारणत्ववत् प्र०॥ ११°ता कर्त भा० ॥ १२ यथाता भा०॥ १३ अतथात् प्र०॥ १४ त्यतथातावन्ननूक्तं प्र०॥ १५ सति य० ॥ १६ दृश्यतां पृ० १४५ पं० १, १९॥ १७ भवन्तो नो चेत् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org