________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे एकान्तवादखाभाव्यादितिकर्तव्यताकर्तव्यताभ्युपगमात्तु पूर्वोत्तरावस्थानुबन्धात् सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवद् यज्ञोपवीतसूत्रतन्तुत्वपटत्ववद्वा संस्थानमात्रभिन्नकारणकार्यत्वाभ्युपगम आपद्यत इति कार्यत्याग इति खशब्दार्थापत्तिविषयविपरीतार्थत्वाद् विवक्षाभेदव्याघातः।
यदीतिकर्तव्यता जनयति ततः सा तजन्या न, जनकत्वात् कारणत्वात्
तत्त्व एवातथाभूतेस्तथाभूतेति तद्वत् । तस्मात् कारणमेव क्रिया क्रियाफलं च । एवं तावदेप्रतिपूर्णस्तर्कः 'प्राग् नासीत् क्रिया कार्यत्वेन परिगृहीतत्वात्' इति, असिद्धहेतुत्वात् प्रतितर्केण वाध्यत्वाञ्चेति
सुष्ठच्यते ।
१०३-१ किश्चान्यत् , स्वयमेव त्वया परित्यक्तत्वाच्चाप्रतिपूर्ण एव , कस्मात् ? एकान्तवादस्वाभाव्यात् , 10 एवंस्वभावा ह्येकान्तवादाः सर्वोक्तमृषात्ववादवत् , यथोक्तं त्वया 'तदनुबन्धाच्चेतिकर्तव्यतैव कर्तव्यता' इति ब्रुवता कारणे कार्यस्य सत्त्वमभ्युपगम्यासत्त्वं चं त्यक्तं भवति , अतो ब्रूमः - इतिकर्तव्यताकर्तव्यताभ्युपगमात्त्वित्यादि । इतिशब्दस्य प्रकारार्थवाचित्वादित्थमित्थं च कर्तव्यं 'घृतेन जुहुयात् पयसा जुहुयात्' इत्यादिप्रकारा कर्तव्यता इतिकर्तव्यता, सैव कर्तव्यता कारणभूतास्ता एव प्रोक्षणादिक्रियाः 'अग्निहोत्रम्' इत्यभ्युपगमात् , पूर्वोत्तरावस्थानुबन्धादू विच्छिन्नपूर्वोत्तरावस्थस्य कस्यचिदभावात् कारणमेव 15 कार्य सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवद यज्ञोपवीतसूत्रतन्तुत्वपटत्ववद्वा, सूत्रमेव
यथा यज्ञोपवीताख्यां लभते तथासमवस्थानात् तथा तन्तव एव पटस्तद्वत् संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्ययमभ्युपगम आपद्यते इति, इतिशब्दो हेत्वर्थे , एतस्मात् संस्थानमात्रभिन्नकारणकार्यत्वाभ्युपगमापत्तेहेतोः कार्यस्य त्यागः कार्यत्यागः, 'कुर्यात्' इत्ययं हि शब्दः कार्यार्थे सति अर्थवान्
भवति, नान्यथा । पुनरितिशब्दो हेत्वर्थे, ततश्च कुर्यादर्थत्यागात् स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद् 20 विवक्षाभेदव्याघातः, 'अग्निहोत्रं जुहुयात्' इत्यनेन स्वशब्देनैवासत्कार्यवादोऽभ्युपगतः, 'तदनुबन्धाच्चेति
कर्तव्यतैव कर्तव्यता' इत्यर्थापत्त्या कारणात्मककार्यवादोऽभ्युपगतः, तयोरन्योन्यविपरीतार्थत्वाद्विरुद्धत्वाद् १०३-२ विवक्षाभेदो व्याघातश्च । विवक्षाभेदस्तावदसत्कार्यवाचिनः शब्दस्य कारणात्मककार्याभिधानाभ्युपगमात्
कारणात्मककार्यवाचिनश्चासत्कार्याभिधानाभ्युपगमात् । अत एव च परस्परतो विरोधाद् व्याघातोऽनयोः ।
अथवार्थद्वयस्य स्वशब्दार्थापत्तिविषयस्याभ्युपगमाद् विवक्षाभेदोऽयं पुरुषबुद्धिवशाद् वेदवादप्रामाण्यमपौरुषेयं 25 व्याहन्तीति विवक्षाभेदव्याघातः, स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते वस्तुतत्त्वविचारप्रद्वेषिणा यः कार्यकारणस्वरूपानपेक्षिणोऽपि बलादयं कारणकार्यतत्त्ववाद आपद्यतेऽनेकान्तरूपो वस्तुनस्तादात्म्यादनपेक्ष्यमाणोऽपि स्वमतव्याघातीति ।
एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीति इष्यते ततो न सा कर्तव्यता घृतादि
१ दृश्यतां पृ० १४४ पं० ३, ४ ॥ २ कर्तव्यतैव प्रतिषु नास्ति । दृश्यतां पृ० १४२ पं० १॥ ३ म्य सत्वं प्र० ॥ ४ च तत्यक्तं भा० ॥ ५ कर्तव्यत्वाभ्युपगमास्त्वित्यादि प्र०॥ ६ दृश्यतां पृ० १४२ टि. ९॥ ७ कार्यत्यागः य० प्रतिषु नास्ति ॥ ८°षिणये कार्य प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org