________________
असत्कार्यवादनिराकरणम्] द्वादशारं नयचक्रम् एवातथाभूतेर्घटखात्मवत् । अत एव च कारणमात्रमसौ सह फलेनापि, तदात्मत्वात् तन्निवृत्तत्वात्, घटमृत्त्ववत् ।।
वा देवदत्तस्तदवस्थाविशेषान्तरत्वे सति उत्तरकालमुपलभ्यत्वात् , कार्यत्यादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव करणाख्यत्वात् । इतरथा बन्ध्यापुत्रोऽपि 'क्रियताम् , असत्कार्यत्वात् , घटवत् । एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवद् व्यक्ताव्यक्तता एककारणत्वस्य बाधिका स्यादिति चेत्, नेत्युच्यते, कुतः ? तत्त्व एवातथाभूतेः, न ह्यव्यक्तावस्था नाम काचिदस्ति , किं तर्हि ? तत्त्व एवान्यथाभावोऽस्ति , तस्य भावस्तत्त्वम् , तस्मिंस्तत्त्व एव तद्भावावस्थायामेवान्यथाभवनात् , तदेव हि वस्तु स्वरूपावस्थायामेवान्यथा भवति, यद्यन्यदन्यथा भवेद् मृत्पिण्डोऽपि पटो भवेत् , न तु भवति । साधर्म्यदृष्टान्तश्च घटस्वात्मवत् । यथा घटो घटस्वात्मन्येव स्थितो नवः पुराणतयोत्पद्यते तथा स एव मृत्पिण्डोऽन्यो घटो भवति, न तु साङ्ख्या भिमताऽव्यक्तता नाम काचिदस्ति , यदि स एव घटो नवः पुराणतयाऽन्यो न भवेद् न पुराणः 10 स्यात् , नव एव स्यात् , ततोऽन्यो वा पटादिः पुराणघटः स्यात् , नैव वा कश्चिदपि भवेत् , तस्मात् तत्त्व एवातथाभूतेनीव्यक्तावस्था नाम काचिदस्ति । अत्राह - 'घटस्वात्मवत्' इत्ययं दृष्टान्त उपपद्यते नवत्वावस्थानन्तरं पुराणत्वावस्थानुभवात् , 'मृत्पिण्डकालघटवत्' इति न युज्यते तत्त्व एवान्यथाभावाभावात् , पिण्डानन्तरं हि शिवको भवति न घटो न स्तूपकच्छत्रकस्थालककोशककुशूलका इति । अत्रोच्यते - तुल्यप्रत्यासत्तित्वाद् यथा घटो भवति कुशूलकात् तथा कुशूलकः कोशकात्, 15 कोशकः स्थालकात्, स्थालकरछत्रकात्, छत्रकः स्तूपकात् , स्तूपकः शिवकात् , शिवकः पिण्डात् , पिण्डो १०२-२ मृदः, इति मृद एघ तथा तथा भूतेः । अथवा किमनया साङ्ख्यसृष्टिक्रमांकनुमत्या ? तस्यामेव मृत्पिण्डावस्थायां घटो भवतीति प्रतिपद्यस्व स्तिमितसरःसलिलवत्तरङ्गवत् तत्त्व एवान्यथाभवनान्नास्त्यत्रापि क्रम इत्यतस्तदुपदर्शनार्थमाह - मृत्पिण्ड[काल]घटवदिति । अथवा तत्त्व एव तथाभूतेरिति पाठः, तत्त्व एव तद्भाव एव सैति तेन तेन प्रकारेण भवनात् , पिण्ड एव मूर्तिस्वभावरूपाद्यात्मके शिवकाद्यात्मना 20 नीलरक्ताद्यात्मना च भवनादिति ।
। अत एव च कारणमात्रमसौ, तत्त्व एवातथाभूतेस्तथाभूते; कारणप्रमाणमसौ हवनक्रिया घृतादिकारणेभ्यो न व्यतिरिक्ता, उक्तहेतोरसत्कार्याभावात् 'कारणमात्रमसौ क्रिया' इति प्रतिपत्तव्यमवश्यम् । न केवलं क्रियैव कारणमात्रम् , सह फलेनापि सा कारणमात्रम् , फलमप्यस्याः स्वर्गाख्यं सुखादि घृतादिकारणान्यथाभवनमात्रम् । अत्रोपचयहेतू प्रतिपादितार्थावेव तदात्मत्वात् तन्निवृत्तत्वादिति, तस्यात्मा स 25 आत्मास्येति वा तदात्मा, तेन तस्मिंस्तस्य स एव वा निवृत्तः, तद्भावस्तन्निर्वृत्तत्वं तदात्मत्वं च, तस्मात् तदात्मत्वात् तन्निर्वृत्तत्वाद् घटमृत्त्ववत् , घटस्य मृत्त्वं घटमृत्त्वं 'मृदेव घटः, घट एव मृद्' यथा प्रतिपादितं
-------
१क्रियतांमसत्का २० ही । क्रियतां सत्का पा० वि० । क्रिय(ये?)तासत्का भा० । क्रियसत्का डे० ली० ॥ २ एवतथा य० ॥ ३ भवनात् भा० ॥४ न्यथाभावात् प्र० ॥ ५ कोशकशूलका भा० । कोशकुशूलका य० ॥ ६°कात्कनु य० । कात्कनु भा० ॥ ७°लववत्त पा० डे० ली० ॥ ८°दुपप्रद य० ॥ ९ दृश्यतां पृ० १४४ पं० ५॥ १० सति तेन प्रकारेण भा० ॥
नय० १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org