________________
१४४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे भेदविधिनिर्विषयत्वात् सर्ववस्तुसन्निधिसद्भूतैव सा भेदसाधनसम्बन्धाभिनिर्वत्येति विधीयते, तदनु यथाभागकारकविन्यासात्मिकयेतिकर्तव्यतयानुष्ठीयते । अतोऽसौ प्राग् नासीत्, कार्यत्वेन परिगृहीतत्वात्, विशेषैकान्तिवस्तुवत् । स चाप्रतिपूर्णस्तकः, असिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च । । न तु तत्त्वमेवं वस्तुनोऽसत्कार्यत्वम् व्यङ्ग्यत्वात् , पिण्डकालघटवत्, तत्त्व
सर्वगतं च तत् सत्कार्यकारणं च तदिति विग्रहात्, वक्ष्यमाणविधिविधिनयदर्शनेन तद्वत्तित्वे 'अग्निहोत्रं कुर्यात्' इति भेदंविधिनिर्विषयत्वमन्याद्यभावात् । यथोक्तम् -
नै कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः। १०१-२
परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति ॥ [ कैवल्योप० ३]
10
तथा
पुरुष एवेदं सर्वं यद् भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [ शुक्लयजुःसं० अ० ३१।२] इत्यादि, एतद्दर्शनं प्रतिपादयिष्यते । अतः सर्ववस्तुसन्निधीत्यादि, सर्ववस्तूनां सन्निधौ सद्भव सा हवनक्रिया तथापि भेदाः साधनान्यस्याः, 'घृतेनै पयसा जुहुयात्' इत्यादिभेद क्रिया एवाग्निहवनक्रियायाः 15 साधनानि तान्यन्तरेण तदभावात् साधनसम्बन्धाभिनिर्व]ति विधीयते, '*केन ? उपदेष्ट्रा स्वर्गकामं
पुरुषं प्रति वचनेन त्वया कर्तव्येति विधीयते* । तदनु अनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्येत्यभ्युपगम्य यो यो भागो यथाभागं कारकाणां विन्यास आत्मा यस्या इतिकर्तव्यतायाः सा यथाभागकारकविन्यासात्मिका, तया इतिकर्तव्यतया गवालम्भनाज्यप्रक्षेपादिप्रकाररूपयानुष्ठीयते, सामर्थ्यादतोऽसौ प्राग नासीदित्याश्रिता । कस्मात् ? कार्यत्वेन परिगृहीतत्वात् , 'कुर्याजुहुयात्' इत्यादिवचनात् कार्य20 त्वेन निवर्त्यत्वेन परिगृहीतैव सा । दृष्टान्तो विशेषकॉन्तिवस्तुवदिति, यथा विशेषैकान्तवादिना 'कार्यमेव,
न कारणम्' इति प्रतिक्षणोत्पत्तिविनाशात्मकत्वात् प्रतिपन्नं वस्तु तत् प्राग् नास्ति , तच्च त्वयाभ्युपगतं क्रियाभ्युपगमादिति त्वां प्रति साध्यसाधनधर्मान्वितो दृष्टान्तः, मयापि च तदभ्युपगम्योक्तत्वादिति साध्यसाधनम् । एवमनेन तर्केणासत्कार्यवादोऽभ्युपगतस्त्वया भवति । स चाप्रतिपूर्णस्तर्कः, असिद्धहेतुकत्वात्
प्रतितर्केण बाध्यत्वाच्च । 25 न तु तत्त्वमेवं वस्तुनोऽसत्कार्यत्वम् , किं कारणम् ? व्यङ्ग्यत्वात् , व्यङ्गया हि सा क्रिया न
कार्या, अविवक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तः । को दृष्टान्तः ? पिण्डकालघटवत् , यथा १०२., मृत्पिण्डकाल एव घटो विद्यमानोऽपि साधनान्तरापेक्षा भिव्यक्तित्वान्नोपलभ्यते, शुक्रशोणितावस्थायामिव
१ तदृत्तित्वेनाग्निहोत्रं य० ॥ २ विधिनिर्वि भा० वि० विना ॥ ३ न कर्मणा प्रजायन धनेन त्यागेनैकेन अमृतत्वमानसः प्र०॥ ४ दृश्यतां पृ० १४२ टि०९॥ ५* * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ६°नाजप्रक्षे भा० पा० । 'नातप्रक्षे भा० पा० विना ॥ ७°कान्तव य० ॥ ८ त्वदभ्यु' प्र०॥ ९ व्यक्तत्वा य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org