________________
पुरुषप्रमाणकवादापादनम् ] द्वादशारं नयचक्रम् आश्रितो भवति सामान्याद्यर्थैकान्तवदेव । स चानिष्ठः, पौनरुक्तयादेरसत्कार्यवादाभ्युपगमात् पुनस्तत्त्यागात् ।
एकावस्थामात्रविच्छिन्नपूर्वापरतत्त्वाग्न्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच कुर्यादिति कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् सर्वगतसत्कार्यकारणवृत्तित्वे
परिहारविचारप्राप्यार्थपरिग्रहात्, अग्निहोत्रहवनयोः पौनरुक्त्यादिदोषाद्विरोध इत्युक्ते 'अनुवाद-5 विधित्वे न' इति परिहारः, पुनरप्रसिद्धत्वाद्विरोध इत्युक्ते 'कुर्यादर्थो जुहुयाच्छब्दः' इत्येवमादिविचारैः प्राप्योऽर्थस्त्वया परिगृहीतः, अतः स्वबुद्धिप्रामाण्यावलम्बनात् पुरुषप्रमाणकस्तर्क आश्रितो भवति, तर्कलक्षणं च अविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तकः [न्या० सू० १॥१॥४० ] इति । किमिव ? सामान्याद्यर्थैकान्तवदेव, यथा 'सामान्यमेव, विशेषा एव, सामान्यं विशेषाश्च' इत्येकान्तार्थपरिग्रहे प्रागुक्तविधिना पूर्वोत्तरविरोधपरिहारप्राप्योऽर्थोऽशक्यप्राप्तिरफलः पुरुषप्रमाणत्वात् तथाऽ-10 यमपि तर्कः । स चीनिष्ठ इति, अपि च तर्कोऽप्रतिपूर्णो यदि न भवेदाश्रीयेत, किन्तु न प्रतिपूर्णः । कस्मात् ? दोषत्रयात् । कतमस्माद्दोषत्रयात् ? पौनरुक्त्यादेरसत्कार्यवादाभ्युपगमात् पुनस्तत्त्यागात् । जुहुयादुक्तेः पौनरुक्त्यादिदोषाः प्रागुक्तवत् ।
असत्कार्याभ्युपगमप्रदर्शनार्थमाह - एकावस्थामात्रविच्छिन्नेत्यादि यावत् कुर्यादिति कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् । एकावस्थामात्रविच्छिन्नपूर्वापरतत्त्वाग्यादिभिन्नवस्तुत्वाभिनि-15 वेशविधानाच्चेति, चशब्दाज्जुहुयादुक्तेश्च, एकस्यैवावस्था एका च सावस्था च एकावस्था, तत्परिमाणमेकावस्थामात्रं 'तिमितसरःसलिलबदविच्छिन्नम् , तस्यैव पुनस्तत्त्वं विच्छिन्नं पूर्वस्यापरस्य चेन्धनादेरम्यादे-१०१-१ भस्मादेर्घटपटादेश्च परविषयसामान्यवादिमतवत् , सर्वैक्यापन्नस्य सतोऽन्यादेर्भिन्नवस्तुत्वेनाभिनिवेशस्तदभ्युपगमोऽग्निरिति परमाणुद्वयणुकादि म्यबादिसंयोगसम्भूतवनस्पतीभूताग्निभस्मत्रुटिपरमाण्वादिविच्छिन्नावस्थामात्रत्वे सति अग्निरिति भवति क्रमेण परिणामभेदाभ्युपगमात्, तस्य विधानात् , 'अग्निहोत्रं जुहुयात्' इति 20 च हवनक्रियानुष्ठानं तत्फलाभिमतः स्वर्गस्तयोश्च सम्बन्ध इति परस्परं विघटितत्वान्नोपद्येत पूर्वापराभ्युपगमयोः । किं कारणं विघटितत्वमिति चेत्, उच्यते - कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमादिति विघटनप्रदर्शनम् । एवं हि कारणे घृतादौ कार्यस्याग्निहवनकर्मणस्तत्कार्यस्य च स्वर्गादेरसत्त्वे सति करणमुपपद्यते, तच्च सति नोपपद्यते सिद्धौदनपचनवत् , विशिष्टैकाग्न्याद्यवस्थाभ्युपगमे च पुरुषादिकारणात्मकसवैक्याभ्युपगमविरोधिनि सत्युपपद्यते नान्यथेत्यत आह - सर्वगतसत्कार्यकारणवृत्तित्वे भेदविधिनिर्विषय-25 त्वात् , सुप्तसुषुप्त जागरिततुरीयावस्थाक्रमेणैकमेव युगपद्वा सर्वगतं पुरुषाख्यं कारणम् , तञ्च सत्कार्यम् ,
१ दृश्यता पृ० १२४ पं० २॥ २ पूनप्रसि वि. विना । पुनः प्रसि वि०॥ ३ दृश्यतां पृ० १२६ पं० २॥ ४ चानिष्ट प्र० ॥ न विद्यते निष्ठा प्रतिपूर्णताऽस्येत्यनिष्ठोऽप्रतिपूर्ण इत्यर्थः ॥ ५ किन्तु र प्रतिपूर्णः प्र० ॥ ६ परत्वाम्यादि प्र०॥ ७ तशब्दा भा० । तत्शब्दा पा० डे० लीं० २० ही० । तच्छब्दा वि० ॥ ८ "तिम ष्टिम टीम आभावे" पा० धा०॥ ९ बंधनादे' य० ॥ १० गमे य० ॥ ११ भूम्यत्वादि प्र० ॥ १२ °त्रुटितपर' य० ॥ १३ पपद्यत भा० ॥ १४ विघटितमिति प्र० । अत्र 'विघटनमिति' इत्यपि पाठः स्यात् ।। १५ °रितत्वदीयावस्थंक्रमेणै य० । रितत्वदीया वस्थाक्रमेणै भा० । दृश्यतां पृ० १३२-२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org