________________
१४२
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे _अथोच्येत-अस्यास्तावत् प्राप्तेः प्रसिद्धिर्भविष्यति, तदनुवन्धाचेतिकर्तव्यतैव कर्तव्यता । न तर्हि पुनः 'जुहुयात्' इति वाच्यं स्यात् ।
अपि चैवमुत्तरोत्तरविरोधपरिहारविचारप्राप्यार्थपरिग्रहात् पुरुषप्रमाणकस्तर्क
निर्वर्तते तत् त्वयानुष्ठातव्यं हवनम् , यथा मृदानयनादिक्रिया घटनिर्वर्तनार्थमिति । तेत्तु न युज्यते, 5 अत्यन्तमदृष्टकारणकार्यसम्बन्धत्वादनयोः ।
सम्भावनयैतदपि कृत्वा कल्पनात्मिकयोक्तमपि न सम्भवतीति येऽभिहिता दोषास्तत्परिहारमनादृत्य परेण प्रसिद्धमात्रप्रतिपादनार्थमथोच्येत - अस्यास्तावत् प्राप्तेः प्रसिद्धिर्भविष्यतीति ततो दोषपरिहारो भविष्यतीति । प्रॉप्तेरिति, स्त्रियां क्तिन् [पा० ३॥ ३॥ ९४ ] इत्यत्र 'आबादीनां च' इति वक्तव्यं गुरोश्व हलः [ पा० ३। ३। १०३] इति 'अ'प्रत्ययेनापवादेन मा भूद् बाधेति प्रापणात् प्राप्तेर्वाक्यान्तर10 प्रापिता प्रसिद्धिर्भविष्यति । अग्नये होत्रमग्निहोत्रमिति चतुर्थीसमासः, योगविभागाश्वघासाद्युपसङ्ख्यानाद्वा रूपसिद्धिस्तदर्थप्रसिद्धिश्च, ततः करणं तत्फलसम्बन्धश्च कर्तुरिति सर्वमुपपन्नम् । कतमस्माद्वाक्यात् प्रापिता प्रसिद्धिरिति चेत्, वक्ष्यमाणे वाक्यान्तरे यदग्नये च प्रजापतये च सायं जुहोति [ मै० सं० १८७ ] इति, घृतेनं पयसा दना जुहुयात् [ ] इति । तदनुबन्धाच्च इतिकर्तव्यतैव कर्तव्यता, तस्याः प्राप्तेर्वाक्यान्तरप्रापिताया अनुबन्धात् सम्बन्धादनुपरताकासगदुत्तराः सर्वा इतिकर्तव्यता एव कर्त15 व्यताः । तासां चेतिकर्तव्यतानां प्रसिद्धिरग्निहोत्रस्य प्रसिद्धिस्तदात्मकस्येति । अत्रोच्यते -न तर्हि पुनः १००-२ 'जुहुयात्' इति वाच्यं स्यात् , अग्निहोत्रशब्देनैव अग्निप्रजापत्यादिसम्प्रदानजुहोत्यादीतिकर्तव्यतेनोक्तार्थ
त्वात् पुनरपि प्रागभिहितो यो ने हि कश्चिजुहोतिपुनर्वचनेन इत्यादिग्रन्थार्थः स एव दोषप्रपञ्चोऽस्मिन्नपि व्याख्याध्वन्युपस्थितः ।
अपि चैवमित्यादि । किञ्चान्यत् , अत्रापि पुरुषप्रमाणकवादापत्तिः । किं कारणम् ? उत्तरोत्तरविरोध
१ दृश्यतां पृ० १५२ पं० १५॥ २ तत्र न प्र० । अत्र 'तच्च न' इत्यपि पाठः स्यात् ॥ ३ अत्र प्रसिद्धिमात्र इत्यपि पाठः स्यात् ॥ ४ प्राप्तिरिति प्र०॥ ५क्तिरित्यत्र अपादीनां प्र० । “स्त्रियां क्ति नित्यत्र आबादिभ्यश्चेति वकव्यम्" इति पातञ्जलमहाभाष्ये ३।३।९४ ॥ ६°दस्वमाद्यप० प्र० । "विकृतिः प्रकृत्येति चेत् , अश्वघासादीनामुपसङ्ख्यानं कर्तव्यम्” इति पातजलमहाभाष्ये २।१।३६ ॥ ७ यदग्नये र प्रजा प्र० । “शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत् , 'यदग्नये च प्रजापतये च सायं जुहोति' इति केचित्" इति अर्थसङ्कहे पञ्चमपरिच्छेदे ॥ ८ "प्रेयमेधा वै सर्वे सह ब्रह्माविदुः, तेऽग्निहोत्रेण समराधयस्तेषां त्रिरेकोऽजुहोद् द्विरेकः सकृदेकर स्तेषां यस्त्रिरजुहोत् तमपृच्छन् कस्मै त्वमहौषीरिति, सोऽब्रवीत् - त्रेधा वा इदम् अग्नये प्रजापतये सूर्यायेति । अथ यो द्विरजुहोत् तमपृच्छन् कस्मै त्वमहौषीरिति, सोऽब्रवीद् द्वेधा वा इदम् अग्नये च प्रजापतये च सायं सूर्याय च प्रजापतये च प्रातरिति । अथ यः सकृदजुहोत् तमपृच्छन् कस्मै त्वमहौषीरिति, सोऽब्रवीद् एकधा वा इदं प्रजापतय एवेति । तेषां यो द्विरजुहोत् स आर्नोत् तस्येतरे साजात्यमुपायन् ऋनोति य एवं विद्वानग्निहोत्रं जुहोति उपास्य समानाः साजात्य यन्ति ।" इति कृष्णयजुर्वेदस्य मैत्रायणीसंहितायां पाठः॥ ९ “आज्येन जुयात् तेजस्कामस्य, तेजो वा आज्यम्, तेजस्वी एव भवति । पयसा पशुकामस्य, एतद्वै पशूनां रूपम् , रूपेणेवास्मै पशूनवरुन्धे, पशुमानेव भवति । दनेन्द्रियकामस्य, इन्द्रियं वै दधि, इन्द्रियाव्येव भवति ।” इति तैत्तिरीयब्राह्मणे २।२।५।३८ ॥ १० दृश्यतां पृ० १३२ पं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org