________________
१४१
अग्निहोत्रस्यापूर्वार्थकत्वे दोषाः] द्वादशारं नयचक्रम् कृतः स्यात् , किमूनीकृतमर्थाविद्यायाः ? यावदेव स्वर्गकामो जुहुयादित्युक्तं भवति तावदेव अपूर्व जुहुयात् खर्गकाम इत्युक्तं भवति, ततो भावनस्य गतार्थत्वात् । न च स प्रत्यक्षोऽपूर्वो यतस्तेन निरूपणमारभ्येत-येन हवनेनापूर्वो निर्वर्तते तदनुष्ठातव्यम् ।
मत्रदेवतादिविशिष्टाभिः । मा भूद् यज्ञसंज्ञायाः क्रियाया एव धर्मत्वं यथा कैश्चिन्मीमांसकैरेवं व्याख्या-5 यते – यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् [ ऋग्वेद० १०।१०।१५] इति, किं कारणम् ? तस्मिन्नर्थे प्रत्यक्षत एवानित्यायाः क्रियाया अनन्तरं फलसम्बन्धादर्शनात् क्रियावैफल्यदोषप्रैसङ्गाच्च ‘अग्निहोत्रम्' इति धर्मः क्रियाभिव्यङ्गय उच्यते कार्ये कारणोपचारादग्निहोत्राभिव्यङ्गयोऽग्निहोत्रमिति । ततः 'अग्निहोत्रं धर्मं जुहुयाद् भावयेत् स्वर्गकामः' इत्येष वाक्यार्थो निर्दोष इत्येतमर्थं स्पष्टीकारयितुं विधिविधिनयः पृच्छति-तथा सति अपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? अर्थशब्दस्य प्रयोजनाभिधेययोईष्टत्वात् 10 कोऽर्थः साधितः, किं प्रयोजनं कृतं स्यात् ? कोऽभिधेयः समर्थितः स्यात् ? 'विधिनयो ब्रवीति - यः ९९-२ स्वर्गकामः स हेवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदित्ययमर्थः कृतः साधितः समर्थितः स्यादित्यर्थः । विधिविधिनय आह - विद्यापर्यायतत्त्वज्ञानोत्पादनार्थवादविद्यानिराकरणार्थत्वाच्च शब्दप्रयोगस्य किमूनीकृतमाविद्याया इति, न किञ्चिदूनीकृतमित्यभिप्रायः । तत् समर्थयति- यावदेवेत्यादि, यदुक्तं भवति यः स्वर्ग कामयते स जुहुयादिति तदुक्तं भवति अपूर्व जुहुयात् स्वर्गकाम इति, 15 नापूर्वोऽर्थोऽधिकोऽग्निहोत्रशब्देन लभ्यते, हवनेनैव तस्याभिव्यङ्ग्यत्वात् 'जुहुयात् स्वर्गकामः' इत्येतावतैव गतार्थत्वात् 'जुहुयाद् धर्मं भावयेत् स्वर्गकामः' इत्येतस्यां वाक्यार्थव्यक्तौ कोऽग्निशब्देन होत्रशब्देन चार्थः ? इत्यत आह - ततो भावनस्य गतार्थत्वात् , भवन्तं धर्मं भावयतो हेतुकर्तृसाधनसाध्यस्य धात्वर्थस्य भावनस्य जुहुयाच्छब्दप्रयोगादेव गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन ।
____ एवं तावदग्निहोत्रशब्दस्य प्रयोगो निरर्थकः । प्रसिद्धिविरुद्धा चेयं कल्पना, लोके वेदे वा तस्य 20 तदर्थाभावात् । अभ्युपेत्यापि अपूर्वविशेषाभिधानमप्रत्यक्षत्वात् तन्निरूपणं हवनेन नोपपद्यत इति ब्रूमः, निरूपणवैधात् । इह हि यद् घटादि वस्तु मृदानयनमर्दनादिक्रियया निरूपणार्थं प्रत्यक्षत उपलब्धचरं [तद्] व्यपदिश्यते 'अनया क्रियया घटो निर्वर्तते, अस्यास्तत् कार्यम् , इदं कारणम्' इति, दृष्टकारणकार्यसम्बन्धत्वात् । न तु जात्वदृष्टपूर्वस्य संधिHदृष्टान्ताभावेऽनुमानाभावात् । अत आह - न च स प्रत्यक्षोऽ- १००-१ पूर्वो यतस्तेन निरूपणमारभ्येत हवनस्य कार्य स इदं चास्य कारणमिति । निरूपणं व्याख्येत्यर्थः । 25 सा कथं व्याख्येति चेत्, उच्यते - येन हवनेन दृष्टापूर्वनिर्वर्तनशक्तिना निर्वोऽग्निहोत्राख्योऽपूर्वो
१ कैरेव भा० ॥ २ °न्यासंति प्र० ॥ ३ प्रसंणत्व भा० । 'प्रसंगत्व य० ॥ ४ °व्यंग्य इत्युच्यते य० ॥५ इत्येवमर्थ प्र०॥६ अत्र 'अपूर्वाभिधानेन' इत्यपि पाठः स्यात् । दृश्यतां पृ० १५२ पं० १४ ॥ स्यात् प्र०॥ ८विधेः नयो प्र० ॥ ९ हवनेनं वेतिकर्त भा० ॥ १० विशेषणेन प्र०॥ ११ साधितः साधितः स्यादित्यर्थः य० ॥ १२ त्वादिविद्या प्र० ॥ १३ योगसाकिमनी भा० । योगेः स किमनी य० ॥ १४ कामयति प्र०॥ १५ °त्वातन्निरू' भा० । “त्वान्निरू य० ॥ १६ °लब्धिचरं प्र० ॥ १७ निरूपणमिति शेषः ॥ १८ साधा(यं ?)दृष्टान्ता य० । साधादष्टान्ता' भा० ॥ १९ वास्य भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org