________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् द्वितीये विधिविध्यरे गृह्यमाणे' इत्याद्युक्तदर्शनवत् । नैव सा तथाभूतार्था हवनक्रिया, तदाभत्वात् । प्रधानादिवादसाधुता च, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात् , वेदवादवत् । वेदवादासाधुता वा तद्वत् ।
अथ 'अग्निहोत्रम्' इत्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्येत तथा सति 5 अपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? यः स्वर्गकामः स हवनेन स्वर्ग भावयेदित्ययमर्थः मग्निहोत्रस्य । लोके ह्यनुग्रहार्थं स्वस्यातिसर्गो दानम् , सङ्गत्य प्रीत्या दानमस्मिंस्तत् सम्प्रदानम् , तस्मै दानं यत्र स्वपरानुग्रहो विद्यते तादृशस्त्यागो दानम् , न तु यत्र कचन मूत्रपुरीषादिविसर्गवद् द्रव्यविसर्गो भस्मनि वा सपिःप्रक्षेपवत् । तस्मात् स्वपरोपकारकमेव अग्नौ सर्पिरादिविसर्जनं सर्वं स्यात् , न चैतदिष्टं
दृष्टं वा । किं कारणम् ? अग्निसम्प्रदानविरोधात , तस्याग्नेर्दहनात्मकस्य सर्वद्रव्याणां विनाशकस्य 10 सम्प्रदानत्वविरोधात् , छिन्नपाणेर्मत्स्याभयदानवत् मुषितस्य वा चौराभयप्रदानदानवत् , 'अग्नये' इति
सम्प्रदा विशेषोक्तेर्लोकयज्ञतुल्यत्वाल्लौकिक एव गृह्यमाणेऽर्थे इदमेवं नैवं चेति विचारोऽर्थवान्न भवति, यदि भवेच्चतुष्पात्त्वे सत्युत्प्लुत्य गमनाल्लोमशो हरिणवद् मण्डूकस्तत एव निर्लोमा हरिणो मण्डूकवत् स्यादिति प्रसिद्धिविपरीतं सिध्येल्लोकांप्रमाणीकरणे इति तत् प्रसक्तमिहापीत्यत आह - न तु लौकिक एव गृह्यमाणे इत्याधुक्तदर्शनवदिति । 15 नै सेत्यादि अत्राप्यनिष्टापादनसाधनम् , नैव सा तथाभूतार्था हवनक्रिया तदाभत्वात् ,
तदाभत्वमस्याः परमार्थेन अदानात्मिकाया दानत्वेनादानात् , तच्च सिद्धम् । यथा बालरमणकादि क्रियायां
स्वाद्वन्नादिसंज्ञा दिक्रियायामन्योन्यदानभोजनादि क्रियास्तदोभा एव एवमिदमपि दोनमग्नौ प्रक्षेप इति । ९९-१ इदं चात्रानिष्टापादनम् -प्रधानादिवादसाधुता च प्रसिद्धिविपरीतेत्यादि, प्रसिद्धेविपरीतं तत्त्वम् ,
तद्भावस्तत्त्वम् , प्रसिद्धिविपरीते तत्त्वे स्थितोऽर्थोऽस्य वादस्य, तद्भावात् प्रसिद्धिविपरीततत्त्वस्थितार्थ20 त्वाद् वेदवौंदवत् साधुता स्यात् प्रधानसंसर्गक्षणभङ्गाद्यात्मकादिवादानाम् । प्रधानादिवादानां वा असाधुताभ्युपगमवदुक्तहेतोर्वेदवादासाधुता वा स्यादित्युभयथाप्यनिष्टापादनम् ।
अथाग्निहोत्रमित्यादि । अथेत्यधिकारान्तरे, अथैतेषु विकल्पेष्वग्निहोत्रशब्दस्य क्रियावाचि वे सर्वथा दोषोत्पादभीतेन परेण 'अग्निहोत्रम्' इत्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्येत । न पूर्वोs
"पूर्वोऽदृष्टो धर्मविशेषः, तदभिधानमर्थः प्रयोजनं व्यापारः, तद्भावोऽपूर्वविशेषाभिधानार्थतैव कल्प्येत । 25 विशेषशब्दात् परस्परविशिष्टाभिर्यज्ञसंस्थाभिरग्निष्टोमादिभिरिष्टिभिश्चाभिव्यक्तव्यापूर्वा अपि “विशेष्यन्ते द्रव्य
१ सर्पिःनिक्षेप भा० ॥ २ चौरभय य० । चौरभऽय भा० । अत्र 'चौराभयप्रदानवत्' इत्यपि पाठः स्यात् ॥ ३°विशेषोर्लोक य० ॥ ४ त्वादलौकिक प्र० । दृश्यतां पृ० ४.५ पं० २॥ ५ °लोममो य० । ल्लोमनो भा० ॥ ६°काप्रामाण्यक प्र० । तुलना पृ० ४६ पं० ४॥ ७ नैव स्वेत्यादि प्र०॥ ८ नैवं सा य० ॥ ९°दाभाव एवमिदमपि प्र०॥ १० दानमन्यै प्रेक्षे इति य० । दानमन्यैः प्रेक्षे इति भा० ॥ ११ तथे भा० । तथैव य० ॥ १२ रीतत्वस्थि प्र०॥ १३ वादत् भा० । वादात् य० ॥ १४ दृश्यतां पृ० १०९-१॥ १५ पूर्वः दृष्टो प्र० ॥ १६ शब्दः पर प्र० ॥ १७ 'श्चाभिर्व्यक्तव्याऽपूर्वापि प्र० ॥ १८ विशेष्यते डे० ली। विशिष्यते वि०२० ही.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org