________________
___ १३९
विध्यन्तरविधानशैल्या साधने दोषाः] द्वादशारं नयचक्रम्
ननु सेवादिवत् क्रियामात्रत्व इतिकर्तव्यताभ्यः प्रतिपत्तिः, न, भजनार्थसेवाज्ञातत्वे तासां सेवार्थत्वात् । इतरथा प्रतिक्रियं पृथक्त्वापत्तेः।
नात्रापि दानाद्यर्थत्वाद्वैषम्यमुत्तरक्रियामात्रत्वाच । एतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तेरग्निसम्प्रदानविरोधात् 'न तु लौकिक एव
अयाथार्थ्यात् कथङ्कारं विधिविध्यन्तरशैल्योस्तुल्या प्रसिद्धिः, अलौकिकत्वादनुमानानुपपत्तः ? लोके हि , दृष्टमनुमीयते, न तु यूपकरणमष्टाश्यादिरूपमग्निहोत्रकर्मधर्मस्वरूपपृथग्भूतं प्रसिद्धमस्ति यतस्तच्छैल्याग्निहवनशैल्यनुमीयेत । तस्माच्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् तत्सिद्धिरयुक्तैव । हवनाग्निहोत्रयोर्भेदेऽपि हवनानुवादविशिष्टाग्निहोत्रविधित्वे 'चोक्तन्यायेन दृष्टान्तवैषम्यान्न शैल्यनुमानमिति ।
आह - ननु सेवादिवत् क्रियामात्रत्व इतिकर्तव्यताभ्यः प्रतिपत्तिः । यद्यप्यग्निहोत्रक्रियामात्रत्वे यूपच्छेदादिशैलीवैषम्यं तथापि सेवादिक्रियावदेव तद्भविष्यति । यथा हि सेवेत्युपस्थानाञ्जलिकरणादि-10 स्वाम्याज्ञानुवृत्तिभजनार्था विशेषेण] मनोवाकायपरिस्पन्दभेदात्मिका एकैव स्वामिचित्तानुरोधलक्षणा सेवा एवमग्निहोत्राख्यैका क्रिया, न सा स्वावयवकलापव्यतिरिक्ता काचिदस्ति । तस्मात्ता एव पश्वालम्भन-२८-१ प्रोक्षणादिक्रियाः 'अग्निहोत्रम्' इत्यभेदेनोच्यन्ते । आदिग्रहणात् कृषिवाणिज्यादिक्रियामात्रत्वे स्वाभ्य एव इतिकर्तव्यताभ्यः प्रतिपत्ति स्तथेहापीति ।
अत्रोच्यते – तन्न, भजनार्थसेवाज्ञातत्वे तासां सेवार्थत्वात् , अत्रापि दृष्टान्तदा न्तिकयो-15 वैषम्यादित्यभिसम्बन्धः। तद्दर्शयति – भजनं भक्तिः, सैवार्थः सेवाया इति भजनार्था सेवा, तस्याः सेवाया ज्ञातत्वे तासां तदवयवाभिमतानामुपस्थानाञ्जलिकरणादीनां सेवार्थत्वात् , अज्ञातत्वे तदर्थाप्रतिपादनात्, ज्ञाता एव हि ताः 'सेवा' इति प्रतिपत्तिं जनयन्ति, नान्यथा । न त्वेवमग्निहोत्रावयवक्रिया ज्ञाताः, तस्माद्वैषम्यम् । अवश्यं चैतदेवम् , इतरथा प्रतिक्रियं पृथक्त्वापत्तेः, यथा कृषिसेवयोः परस्परं तदङ्गक्रियाणां च पृथक्त्वं तदङ्गत्वेनाज्ञातत्वादेवमग्निहोत्रस्य तदङ्गक्रियाणां च स्यात् , न तु भवति तदङ्गभावेना- 20 ज्ञातत्वादग्निष्टोमादीनामिति ।
आह- नात्रापि दानाद्यर्थत्वाद्वैषम्यम् । किं कारणम् ? अत्रापि हु दानादनयोः [पा० धा० १०८३] इति दानाद्यर्थत्वाद्धवनादीनां ज्ञातत्वम् , अतोऽग्निहोत्रस्यापि ज्ञातदानाद्यङ्गक्रियत्वात् साम्यमेव सेवादिभिः । किश्चान्यत् - उत्तरक्रियामात्रत्वाच्च, यथा सेवाया उत्तरक्रियामात्रत्वमुपस्थानादीनामेवमग्निहोत्रस्याग्निष्टोमादीतिकर्तव्यतानामिति । एतदपि न, लोकविदितदानाद्यर्थानुबद्धतिकर्तव्यता-25 मात्रार्थतापत्तेः । एवमपि लोकविदितैर्दानाद्यर्थैरनुबद्धाया इतिकर्तव्यताया योऽर्थस्तन्मात्रार्थत्वमापन्न- ९८-२
१ स्तुल्या प्रसिद्धरलौकि भा० । स्तुल्यार्थी प्रसिद्धौरलौकि य० ॥ २ °ष्टाचादि वि० विना । 'टाश्रादि वि० ॥ ३ यूपक्रियायायाथार्थ्यात् य० । यूपक्रियायायार्थ्यात् भा० । दृश्यतां पृ० १०८-२॥ ४ वोक्त भा० ॥ ५ दृश्यतां पृ० १०९-१॥ ६°मात्रत्व प्र० ॥ ७ स्ताभ्य य० ॥ ८ दृश्यतां पृ० १३७ पं० १॥ ९प्रतिक्रियां प्र०॥ १० त्रार्थापत्तेः भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org