________________
१३८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे स्याद् यूपं छिनत्ति स्वीकरोतीति यावत् , अदृष्टार्थो वा। ___अवधारणवैषम्यमप्यतः। इयं भावना-या तत्र भावना यूपं छिनत्ति च्छेदनेन यूपं स्वीकरोतीति, न च च्छेदनमेवेत्यवधार्यतेऽष्टाश्रिकरणादीनामसंस्कारत्वप्रसङ्गात्, किन्तु करोत्येवेत्यवधार्यते, सेह न शक्याश्रयितुमवधारणासम्भवात्, हवनेन 5 ह्यग्निहोत्रं करोति न प्रव्रज्यादिना, न च करोत्येवेत्यवधार्यते स्वर्गादिकामाभावे करणाभावात्।
अत एव प्रसिद्धिवैषम्यमपि, तस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थनामधेयमात्रत्वात् । शैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथायोत् ।
___अवधारणवैषम्यमप्यत इयमित्यादि । अनन्तरोक्ता येयं भावना, अनयैव भावनयावधारणवैषम्य10 मपि भावयिष्यामि, अत आह – या तत्र भावना यूपं छिनत्ति च्छेदनेन यूपं स्वीकरोतीति छिदेः संस्काराभावे यूपस्वीकरणार्थताया उक्तत्वात् । तत्र च कथमवधार्यम् ? उच्यते-न च च्छेदनमेवेत्यवधार्यते, करोतीति वर्तते । कस्तत्र दोष इति चेत्, यत एवकारस्ततोऽन्यत्रावधारणम् , अष्टाश्रिकरणादीनामसंस्कारत्वप्रसङ्गः, तदत्र प्रसक्तम् , तत् तु नेष्यते। किन्तु करोत्येवेत्यवधार्यते स्वत्वेनापरिग्रहमात्रप्रतिषेधार्थम् । एषावधारणभावना यूपे । सेह हवनविधिवाक्ये न शक्या15 श्रयितुम् । किं कारणमशक्येति चेत् , अवधारणासम्भवाद्धवनेनाग्निहोत्रं करोतीति । कथं पुनरसम्भवः ? यस्माद्धवनेनाग्निहोत्रं करोति न प्रव्रज्यादिना, न च करोत्येवेत्यवधार्यते स्वर्गादिकामाभावे करणाभावादित्यवधारणवैषम्यम् ।
हवनेनाग्निहोत्रं करोतीति हवाँदन्यस्याग्निहोत्रस्याभावादत एव प्रसिद्धिवैषम्यमपि, तस्या20 ग्निहोत्रस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थनामधेयमात्रत्वात् प्रसिद्धयूपद्रव्यच्छेदनादिवैषम्यम् । ९७-२ मात्रग्रहणं नामधेयत्वसामान्यमेवानुमीयेत नार्थविशेषः 'इदं तदग्निहोत्रं नौम वस्तु' इति । तस्मात्
प्रसिद्ध्यप्रसिद्धिभ्यामपि वैषम्यमिति ।
___ अतस्तदर्थत्रयमुपसंहृत्य हेतुहेयनिगमनार्थमाह -शैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् । शैलीग्रामाण्ये चावलम्ब्यमानेऽस्याग्निहोत्रस्य शैल्या यूपक्रियाया उक्तविधिनैवायाथार्थ्यात् ,
यथार्थभावो याथार्थ्यम् , न याथार्थ्यमयाथार्थ्यम् , तस्मादयाथार्थ्याद् यूपक्रियया अग्निहोत्रक्रियायाः 25 शैलीसाम्यं नास्ति । अतो न युक्तम् - विध्येन्तरविधानशैल्या तत्सिद्धि!पच्छित्यादिवदिति । अथवा १३*शैलीप्रमाणं शैल्यनुमानम् , तस्मिंश्च* शैलीप्रामाण्येऽभ्युपगम्यमाने चाग्निहोत्रस्य शैल्या यूपक्रियाया
१ म्यप्यत भा० । म्येप्यत य० ॥ २ म्यपि य० ॥ ३ नमवेध्यवधार्य य० । 'नमवेध्यर्यते भा० ॥ ४ अत्र 'अतोऽष्टाश्रिकरणादीनामसंस्कारत्वप्रसङ्गः' इत्यपि पाठः स्यात् ॥ ५ स्वत्वेन परि प्र०॥ ६ नाद्यन्य प्र०॥ ७°मवेयत्रत्वात् प्र० ॥ ८ नामस्त्विति य० ॥ ९हि गतौ [पा० धा० १२५८ ], सर्वेषां गत्यर्थाना ज्ञानार्थत्वाद् हिनोति गमयतीति हेतुर्लिङ्गमित्यर्थः, तथा च हेयं गम्यं साध्यमित्यर्थः ॥ १० प्रमाण्यं य० ॥ ११ °मानस्याग्निहोत्रस्य यूपक्रियाया प्र० ॥ १२ दृश्यतां पृ० १३६ पं० ५॥ १३ भा० प्रतौ *** एतचिह्नान्तर्गतः पाठो नास्त्येव ॥ १४ प्रमाण्ये भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org