________________
१३७
विध्यन्तरविधानशैल्या साधने दोषाः] द्वादशारं नयचक्रम् ........ पालाशमष्टाश्रिमित्यादि । एतदपि न, वैषम्यात् । कालतस्तावन्न हि स छेदनक्रियाकाल एव यूपः, छेदनादिभिः संस्कृतः सन् भविष्यति यूपः, तस्य तदा यूपत्वेनासतो युक्तं यूपखरूपं कालान्तरभाव्युपेक्षितुं न पुनरग्निहोत्रस्य तदैव सतः।
ननु तच्छन्दता तादात्, यथेन्द्रार्था स्थूणा इन्द्रः। छेदनस्य संस्कारता न विहिता स्यात् , यूपस्य निर्वृत्तत्वात् । असत्यां च संस्कारतायां छिदिरविवक्षितार्थः ।
कर्तव्यताभिर्निरूपणम् , शैली स्वभावः, शैल्या दृष्टया 'विधित्वादस्यापि विधेरेषा शैली' इत्यनुमानात ९६-२ सिद्धिर्भवति। कस्य पुनर्विधेर्विध्यन्तरविधानशैल्या सिद्धिदृष्टा ? यथा यूपं छिनत्तीत्यादि यावत् पालाशमष्टाश्रिमित्यादीति शैल्यनुमान दृष्टान्तमाह । यथात्र पूर्वमविवक्षितनिश्चयावधारणात्मिका कर्तव्यता चोदिता पश्चात् 'अष्टाभिं पालाशं वैल्वं वा' इत्यादीतिकर्तव्यताचोदनया स्वरूपे व्यवस्थाप्यते तथेहापि। आचार्य आह-एतदपि न, वैषम्यात् , दृष्टान्तदार्टान्तिकयोः शैलीवैषम्यात् । तद्वैषम्यं कालतः 10 प्रसिद्धितोऽवधारणतश्च । तत्र कालतस्तावन्न हि स च्छेदनक्रियाकाल एव यूपः, भवतीति वाक्यशेषः, छेदनाद्यानर्थक्यप्रसङ्गात् । किं तर्हि ? छेदनादिक्रियाभिः संस्कृतः सन् भविष्यति यूपः । इत्थंवरूपस्य तस्य काष्ठस्य तदा यूपत्वेनासतो युक्तं यूपस्वरूपं कालान्तरे भाव्युपेक्षितुम् , न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य कालान्तराभाव्यर्थोपेक्षणमिति वैषम्यम् ।
___ इतर आह -ननु तच्छब्दतेत्यादि यावत् स्थूणेन्द्र इति । यथात्र तादात् ताच्छब्द्यमेवं 15 यूपार्थं दारु यूप इति तत्कालत्वात् । अत्रोच्यते - छेदनस्य संस्कारता न विहिता स्याद् यूपस्य निवृत्तत्वात् , तन्निर्वर्तनार्थो हि च्छेदनसंस्कारः, तस्यामसत्यां च संस्कारतायां छिदिरविवक्षितार्थः स्यात् , असंस्कारार्थत्वेऽनर्थक एवं च्छिदिः स्यादित्यर्थः । तस्माद् यावदेव यूपं स्वीकरोति स्वत्वेन परिगृह्णातीत्युक्तं भवति तावदेव छिनत्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात् । मा भूदयं दोषो दृष्टविरुद्धत्वात् , अदृष्टार्थो वा स्यात्' इति वर्तते । न चादृष्टार्थस्तत्फलत्वात् । एवं तावत् 20 कालतः शैलीवैषम्यादयुक्तमुक्तम् - विध्यन्तरविधानशैल्या तत्सिद्धिः, यूपं छिनत्ति पालाशमष्टाश्रिमि. ९७-१ त्यादिवदिति ।
१'यथा यूपं छिनत्ति इति अविवक्षितनिरूपणं पूर्व पश्चादितिकर्तव्यताभिर्निरूपणं बैल्वं पालाशमष्टाश्रिमित्यादि' इत्येवं मूलमत्र सम्भाव्यते ॥ २विधेरेपा भा० । विषेरया पा०॥ ३“आज्यशेषमादाय सतक्षा गच्छति यूपम् ।।१।५। पालाशं बहुलपर्णमशुष्काग्रमूर्ध्वशकलशाख मध्याग्रोपनतमवणम् ।६।।८। अभावे खदिरबिल्वरोहितकान् ।६।१।९। अष्टात्रिं करोत्युपरवर्जम् ।६।१।२६।" इति कात्यायनश्रौतसूत्रे "यूप्या वृक्षाः पलाशखदिरबिल्वरोहितकाः ।।१।१६। अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान् प्रज्ञाताग्निष्ठाश्रिरस्थूलोऽनणुः ।८।३।२।” इति आपस्तम्बश्रौतसूत्रे च विस्तरेण वर्णितं यूपखरूपम् ॥ ४°माने य०॥ ५ ताचोदितापिश्चात् पा० डे० लीं. रं० ही० । ता पश्चात् भा० ॥ ६ पलाशं य० ॥ ७ दृश्यतां पृ० १०८-२॥ ८ यूपत्वेनामतो य० । यूपत्वनामतो भा० ॥ ९न्तरो प्र०॥ १० ननु वत्सद्वत्तेत्यादि भा० । ननु वत
दि य०। "तादर्थ्यात् ताच्छब्धं भविष्यति, यथा इन्द्रार्था स्थूणा इन्द्र इति" इति पातञ्जलमहाभाष्ये ६।१।३७ ॥ ११ तन्निवतेथी प्र०॥ १२ सत्वेन य० ॥ १३थस्ततफलत्वात् पा २० ही। र्थस्तफलत्वात डे० ली०॥ १४ दृश्यतां पृ० १३६ पं० ५॥
नय०१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org