________________
१३६
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [द्वितीये विधिविध्यरे हेतुर्वाच्यः। युक्ततरी तु तदविवक्षा वक्ष्यमाणन्यायदर्शनादर्थतत्त्वतत्रत्वात्तस्याः ।
एवं तावदप्रत्यायकत्वमस्य, अप्रत्यवेक्षितार्थयाथातथ्योक्तेः, बालप्रलापवत् ।
त्वदभिप्रायवत्तु हवनानुवादविशिष्टाग्निहोत्राभ्युपगमेऽपि चाग्निहोत्रस्य आत्मादिवस्तुतत्त्ववदप्रसिद्धखरूपत्वात् करणासिद्धिः। 5 अथोच्येत-विध्यन्तरविधानशैल्या तत्सिद्धिः, यथा यूपं छिनत्ति.........
इत्येतद्वाक्यं साधीयः 'अग्निहोत्रं जुहुयात्' इत्येतत् साधीय इति केन हेतुना परिच्छेद्यम् ? किश्चान्यत् , युक्ततरी तु तदविवक्षा अग्न्याद्यविवक्षा । किं कारणम् ? वक्ष्यमाणन्यायदर्शनात्, वक्ष्यमाणो हि विधिविधिनयेऽयं न्यायो द्रक्ष्यते भवता पुरुष एवेदं सर्वम् [ ऋग्वेद० १०।८।९० ] इत्यादि, तदर्श
नाच्चेदमग्नयादिविकल्पासत्त्वान्नाग्निहोत्रं न होतेत्यर्थाभावादेवाऽविवक्षा न्याय्या, किं कारणम् ? अर्थ10 तत्त्वतत्रत्वात् तस्याः, अर्थवैशाद्धि विवक्षाऽविवक्षा वा भवितुमर्हति, नान्यथेति ।
तदुपसंहृत्याह -एवं तावदित्यादि । एवमनन्तरोत्तोपपत्तिविधिना 'अग्निहवनं कुर्यात्' इत्येतस्मिन्नर्थे प्रदर्शितदोषत्वादथवा 'अग्निहोत्रं कुर्यात् , अग्निहोत्रं जुहुयात् , हवनं कुर्यात्, अग्निहोत्रं
हवनं कुर्यात् , जुहुयात्' इत्येवमाद्यर्थेषु प्रदर्शितदोषत्वात् । तावच्छब्दः क्रमार्थः, दोषान्तराभिधानमपि ९६१ भविष्यति, एष तावद्दोष इति । अप्रत्यायकत्वमस्य वाक्यस्य, कुतः ? अप्रत्यवेक्षितार्थयाथातथ्योक्ते15 बोलप्रलापवत् , यथातथाभावो याथातथ्यम् , अर्थस्य याथातथ्यमर्थयाथातथ्यम् , तस्मादर्थयाथातथ्यात् तस्याप्रत्यवेक्षितार्थस्याविचारितस्य 'किंस्वरूपोऽयमर्थः ? प्रमाणम् ? प्रमेयः ? केन वा रूपेण पँमाणं प्रमेयो वा ?' इत्यप्रत्यवेक्षितस्यार्थस्योक्तः शब्दस्यार्थस्य वा प्रत्यायकस्वरूपमप्रत्यवेक्ष्योक्तत्वात् तदप्रत्यायकत्वम् । अर्थत्वाच्च शब्दस्तदंभिवेयो वा प्रत्यवेक्षितयाथातथ्योक्तरे प्रत्यायकः प्रधानादिवदिति वैधhण ।
तस्मादप्रत्यवेक्षितार्थयाथातथ्योक्तर्यदि शब्दद्वारेण यद्यर्थद्वारेणोभयथाप्यप्रत्यायकत्वं सिद्धम् , अतश्चाप्रत्याय20 कत्वादनुपदेशत्वं बालप्रलापवदेव ।
किश्चान्यत् - 'अग्निहोत्रं हवनं कुर्यात्' इत्यस्मिन्नेवानन्तरोक्तेऽर्थे दोषान्तरं ब्रूमः - त्वदभिप्रायवदित्यादि । त्वदभिप्रायेण तुल्यं त्वदभिप्राय इव त्वदभिप्रायवत् , यथा त्वभिप्रेते ‘अग्निहोत्रं हवनं कुर्यात्' इत्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रेऽभ्युपगम्यमानेऽग्निहोत्रस्य त्वदिष्टस्य कर्मणः साँयादिपरपरिकल्पितात्मादिवस्तुतत्त्वस्यालौकिकस्याप्रसिद्धस्य दुर्ज्ञानत्ववदलौकिकत्वादप्रसिद्धस्वरूप25 त्वाद् दुर्ज्ञानत्वम् , अविज्ञातस्य च करणासिद्धिः, सा हवनक्रिया न सिध्यतीत्यर्थः ।
- अत्र परेणाथोच्येत परिहारः-विध्यन्तरविधानशैल्या तत्सिद्धिरिति । अग्निहोत्रं जुहुयादित्येतस्माद्विधेरन्यो विधिर्विध्यन्तरं 'यूपं छिनत्ति' इत्यादि । तस्य विधानमविवक्षितनिरूपणं पूर्व पश्चादिति
१°च्छेद्यां य० । 'च्छिद्यां भा० ॥ २°माणे हि भा०॥ ३ वशाद्विविक्षा अवितुमर्हति भा० ॥ 'वशाद्वा विवक्षा वा भवितुमर्हति य० ॥ ४ तावमित्यादि प्र० ॥ ५ त्यावेक्षितार्थयथा प्र०॥ ६ स्यावस्या प्र० ॥ ७ प्रमाणप्रमेयो प्र० ॥ ८°त्यपेक्ष्यों प्र०॥ ९भिधेयोऽवा भा०॥ १० रेर्वा भा० । रेवा य० ॥११ दृश्यता पृ० १०८-१ ॥ १२ प्राये भा०॥ १३°भिप्रेताग्निहोत्रं प्र० । 'भिप्रेतऽग्निहोत्रं भा० ॥ १४ सांख्यादिपरिकल्पि भा० ॥ १५ °नविव य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org