________________
जुहोत्यर्थाविवक्षायां दोषाः] द्वादशारं नयचक्रम् आदिवक्तृवच्चोत्तरवक्तर्यपि वातिकमन्त्रादिवज्ज्ञवचनानाश्चासतुल्यता।
कचिचार्थे सत्येव अर्थाविवक्षा न्याय्या दृष्टा, तयोः कार्थवत्त्वेन दृष्टयोस्तदविवक्षया च सार्थकत्वं दृष्टम् ? अतोऽन्याय्यमेतदुक्तम् 'अविवक्षितार्थस्य नान्तरीयकत्वात् प्रयोगः' इति, प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् । विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्ती सत्यामप्रयोजनायां चाविवक्षायामन्याद्यविवक्षाऽभावे विशेष-5
अत्रोच्यते - आदिवक्तृवच्चोत्तरवक्तर्यपि । यथाऽऽदिवक्तारोऽप्रमाणमसर्वज्ञत्वादवीतरागत्वाच्च शास्त्राणां सर्वभावस्वभावविषयाणां यथार्थज्ञानवचनहीनास्तथाऽऽदिमदनादिप्रसिद्धीनां शास्त्राणामध्येतारो यथार्थज्ञान-९५.१ वचनहीनाः, तस्मादुभयेषां ज्ञातृत्ववक्तृत्वयोरयथार्थयोरनाश्वासस्तुल्यः । किमिव ? वोतिकमन्त्रादिवत् , यथा धातुविषयबलादिवातिकानां ज्ञानानि मत्रवचनानि च विप्रलम्भभूयिष्ठत्वादनाश्वासनानि, आदिग्रहणाद् वशीकरणमन्त्रयोगादिवत् । तत आह-आदिवक्तृवच्चोत्तरवक्तर्यपि वातिकमन्त्रादिवज्ज्ञवचना-10 नाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया ।
'किञ्च, यदुक्तम् - अविवक्षितार्थानर्थिकापि कर्तृप्रत्ययसाहायककारिणी जुहोतिप्रकृतिरुपात्तेति । एतदपि न्यायविरोधादयुक्तम् , कथम् ? क्वचिच्चेत्यादि । क्वचिच्चेति न सर्वत्र, यथा 'नक्षत्रं दृष्ट्वा वाचो विसृजन्ति' इति, 'कतरदेवदत्तस्य गृहम् ? अदो यत्रासौ काकः' इति नक्षत्रेक्षणे पक्षिणि 'चोपयुक्तार्थयोरेव [नक्षत्रं] दृष्ट्वा-काकशब्दयोः सार्थकयोः काल-गृहोपलक्षणेऽर्थे सत्येव नक्षत्रदर्शन-काकर्थािविवक्षा न्यायादन-15 पेता न्याय्या दृष्टा नानर्थकस्यैवोन्मत्तप्रलपितादेस्तथा तयोरग्निहोत्रहवनयोः कार्थवत्त्वेन दृष्टयोस्तदविवक्षया च सार्थकत्वं दृष्टम् ? अतो न्यायापेतमेतदुक्तम् - अविवक्षितार्थस्य नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येति । किं कारणम् ? प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात् , यद्येष न्यायः शब्दानां प्रयोगे नियतो न स्यान्नान्तरीयकत्वादपि प्रयोगे साधुत्वमेव स्यात् ततश्च प्रमादादप्रमादाद्वा प्रयुक्तस्य शब्दस्यानर्थकत्वाभाव एव स्यात् प्रमत्ताप्रमत्तवक्त्रविशेषश्च स्यात् , न त्वेवं भवति दृष्टशिष्टेष्टविरुद्धत्वात् । 20 स्यान्मतम् - उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनया स्वार्थाविवक्षया ? सर्वस्य शब्दप्रयोगस्य ९५-२ वक्तुर्विवक्षितपूर्वकत्वात् प्रवृत्तेरविवक्षा "विवक्षा वेति । एतदयुक्तम् , विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायां चाविवक्षायामन्याद्यविवक्षाऽभावे विशेषहेतुर्वाच्यः, अग्निशब्दस्यापि जुहोतिकृत्युपादानवन्नान्तरीयकत्वात् प्रयोगोऽर्थोऽस्याविवक्षित इति प्राप्तम् । ततश्च 'भस्महोत्रं जुहुयात्'
१चोतुरवक्तृर्यपि प्र०॥ २ भासख प्र० ॥ ३ स्तथाहिमद प्र० ॥ ४ त्वयोर्यथार्थयों प्र० ॥ ५ धातिक प्र०॥ ६ याबलादिवादिकानां य० । यावलादिवादिकानां भा० ॥ ७ नास्थासनानि वि० भा० विना ॥ ८वत् जुवचनाप्र०॥ ९ किंच दुक्तम् प्र०॥ १० ज्ञाय प्र०॥ ११ नक्षत्रेच्छाणपक्षिणि प्र० ॥ १२ वापयुक्ता भा०। वोवयुक्ता य० ॥ १३ पिवक्ष्या प्र० ॥ १४ कार्थवत्त्वेन प्र०॥ १५ क्षया त्वसार्थ २० ही० ॥ १६ न्यायोपेत य०॥ १७ तार्थस्यानन्तरी प्र० । अत्र ‘अविवक्षि. तार्थाया नान्तरीयकत्वात् प्रकृतेः' इत्यपि पाठः स्यात् ॥ १८ तवज्जवि प्र०॥ १९ प्रयोगवक्तु य० ॥ २० पूर्विकत्वात् प्र०॥ २१ विवक्षयेति य० । विवक्षचेति भा० ॥ २२ शब्दासंवृत्तौ प्र० । अत्र 'शब्दानां वृत्तौ' इत्यपि पाठः स्यात् ॥ २३ प्रत्युपादा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org