________________
१३४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् द्वितीये विधिविध्यरे दितम् ? किं वाऽनेन ज्ञातेन यदेतज्ज्ञा एवमुक्तवन्तोऽव्यक्तं यद्यज्ञानाद् यदि द्वेषादेः ?
को वाऽऽह ज्ञवचनमेतत् ? यदि संशयादियोगान्न ज्ञः प्रमाणं तहीदमज्ञोक्तत्वादुन्मत्तवाक्यवत् । अचेतनत्वात् कुतोऽस्य प्रामाण्यम् ? कुतोऽस्य वचनम् ? काष्ठशब्दवदित्थमचेतनत्वेऽपि न घटते वेदवाक्यप्रामाण्यम् । 5 भ्युपगतो वेदो वैदिकैः । अत इदमापन्नम् -को ह वैतवेद 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्येतद् वाक्यं सार्थकं निरर्थकं वेति ? । 'किमिव न ज्ञायते ? बालप्रलापवत् , यथा हि बालैरनियतक्रियाकोरकसम्बन्धमुक्तमबुद्धिपूर्वत्वाज्ज्ञातुमशक्यं 'केनार्थेनाऽर्थप्रत्यायनार्थवत् ?' इति । किं कारणम् ? व्यवस्थापेतत्वात , शब्दप्रयोगो ह्यर्थप्रत्यायनार्थः स्वनिश्चितार्थप्रतिपादनसमर्थनियतवर्णानुपूर्वीकः प्रत्यपेक्षितवाच्यवाचकसम्बन्ध इतीयं लोकशास्त्रव्यवस्था, ततोऽपेतं ब्रह्मादिसर्ववेदवादिवचनमविद्यारागाद्यवियोगात्तेषा10 मित्यशक्यप्राप्तिरग्निहवनविधानादिवाक्यार्थस्य । तस्मात् को ह वैतद् वेद बालप्रलापवद् व्यवस्थापेत
मुदितम् ? किश्चान्यत्, अफलं चैतदित्यत आह - किं वाऽनेन ज्ञातेन यदेतज्ज्ञा वेदज्ञा अग्निहोत्रकर्मज्ञा एवमुक्तवन्तः 'अग्निहोत्रं जुहुयात्' इति वाक्यमव्यक्तमव्यक्तार्थमस्फुटार्थम् , यस्मादव्यक्तज्ञाना एव ते पुरुषत्वादविद्यायोगाच्च दशदाडिमादिश्लोकवादिवत् । अविद्यायोगं दर्शयति-येद्यज्ञानादिति । रागादियोगं च दर्शयति - यदि द्वेषादेः । 15 इतर आह - विफलोऽयं प्रयासोऽनिष्टापादने ते, अभ्युपगमत्वात् । को वाऽऽह-ज्ञवचनमेतत् ,
ननु प्राणुक्तं संशयविपर्ययानध्यवसायसम्पृक्तत्वान्निर्णयस्याप्यज्ञानत्वमेवेति । अथवा को वाऽऽह ज्ञवचन९४२ मेतदिति ज्ञस्य पुरुषस्य सर्वत्र प्रमाणभूतस्याभावात् , किं तर्हि ? शब्दस्यैव च निर्दोषत्वादिति । अत्राचार्य
आह-यदि संशयादियोगान्न ज्ञः प्रमाणं तहीदमज्ञोक्तत्वादुन्मत्तवाक्यवदिति क्रियोपदेशसाफल्यवादः क गच्छतीति चिन्त्यताम् । एवं तावद् बुद्धिपूर्वकमकारादिवर्णानुपूळ शब्दोच्चारणं चेतनोदीरितं 20 काकवाशितं पुरुषवाँशितं वा तुल्यम् । अथाचक्षीथाः - काष्ठपाषाणादिसङ्घट्टजनिताचेतनशब्दवत् सर्वम
चेतनम् । तथाप्यचेतनत्वात् कुतोऽस्य प्रामाण्यम् , अचेतनत्वात् , आकाशवत् । एवं च कृत्वाऽचेतनत्वात् कुतोऽस्य वचनम् ? यच्छब्द आह तद् नः प्रमाणम् [पा० म० भा.] इतीष्टं भवता, भाषणं वचनमुक्तिः शब्दोच्चारणम् , भावसाधनत्वाद्वचनशब्दस्य, अचेतनत्वाद्वक्तृत्वमस्य नास्तीत्यर्थः । कथम् ?
अज्ञोदीरितत्वादेव च वचनत्वमस्य नास्ति, वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं हि तत् , तदभावेऽनुक्तमित्यत 25 आह - काष्ठशब्दवदित्थमचेतनत्वेऽपि न घटते वेदवाक्यप्रामाण्यम् ।
___ अत्राह- यदुक्तं प्राक् 'को वाऽऽह ज्ञवचनमेतत्' इति द्वितीयो विकल्पो न ब्रूमः सर्ववक्तृवचनाप्रामाण्यमिति, स्ववचनविरोधदोषात् । किं तर्हि ? सर्वज्ञवीतरागाद्यभावाद् ग्रन्थस्य सर्वभावस्वभावविषयस्य कर्तुरप्रामाण्यम् , न तु वक्तुरनादिनिधनस्य वक्तृपरम्परागतस्य, वक्तृवचनयोः कचित् प्रामाण्यादिति ।
१ किमिव ज्ञायते प्र० ॥ २कारकसम्बद्धमुक्त प्र० । अत्र कारकमसम्बद्धमुक्त' इत्यपि पाठः स्यात् ॥ ३ प्रत्युपे य० ॥ ४ यदेतज्ञा प्र०॥ ५ यद्यद् ज्ञाना य० ॥ ६ दृश्यतां पृ० ११३ पं० ६॥ ७ वासितं भा०॥ ८ दृश्यता पृ० १३० टि० ४॥ ९ अत्र 'भवताम्' इत्यपि पाठः स्यात् ॥ १० पूर्वकं तत् य० ॥ ११ भावेनुक्तमि भा०।भावे उक्तमि य० ॥१२ अत्र 'द्वितीये विकल्पे' इत्यपि पाठः स्यात्, दृश्यतां पं० १६-१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org