________________
जुहोत्यर्थाविवक्षायां दोषाः ]
द्वादशारं नयचक्रम्
१३३
स्थाया आवश्यके प्रकृत्युपादाने प्राप्ते वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते गतार्थत्वात् । एवं तर्हि वरतरकं प्रत्यासन्नतराऽविवक्षितार्था कृञ्प्रकृतिरुपात्ता, वचनस्योपात्तार्थप्रत्यायनार्थत्वात् । सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत् ।
अस्मिंस्तु न्यायेऽति लङ्घयमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात्, तत्रापि यच्छाभ्युपगमात् । को ह वैतद्वेद बालप्रलापवद् व्यवस्थापेतमु
हेत्वर्थे पञ्चमी, प्रकृतेः परः प्रत्ययः प्रयोक्तव्यः [ पी० म० भा० ३।११२] इतीयं व्यवस्था, तस्या व्यवस्थाया मर्यादायाः स्थितेर्हेतोरावश्यकं प्रकृत्युपादानम्, तस्मिंश्चावश्यके प्रकृत्युपादाने प्राप्ते 'कतमा प्रकृतिरुपादातुं योग्या' इत्येवं विचारयत इदं मे योग्यमिति प्रतिभाति - वरमासन्ना प्रकृतिरूपात्ता, अर्थः पुनरस्या न विवक्ष्यते गतार्थत्वात् तस्मादविवक्षितार्था सा, सत्यपि नान्तरीयकत्वे प्रत्यासन्नप्रकृत्यु - पादाने विलक्षणामन्यां परित्यज्याऽविलक्षणा जुहोतिप्रकृतिरेवोपात्तेत्यवैसेयम्, प्रयोगोऽग्निहोत्रं जुहुयादिति । 10 अत्रोच्यते - एवं तर्हि वरतरकमित्यादि । चेन्मन्यसे वरमासन्न प्रकृत्युपादानं नान्तरीयकत्वादिति, तत्राहमेव ते वरतरकं साहायकं ददामि बुद्धेः - कर्तृप्रत्ययार्थ संमार्थैव प्रत्यासन्नतरा पौनरुक्त्यपरिहारार्थमविवक्षिता- ९३-२ र्थाऽनुक्तार्था प्रकृतिरुपात्ता । किं कारणम् ? वचनस्योपात्तार्थप्रत्यायनार्थत्वात्, अर्थं प्रत्याययि - ष्यामीति हि शैब्दः, कर्तृप्रत्ययान्तया कृञ्प्रकृत्या प्रत्याय्यते स्फुटतरम्, अतोऽग्निहोत्रं कुर्यादित्येवास्तु | इतर आह. - स्वयैव समर्थितत्वादेवमेवास्तु | आचार्य आह - स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात्, 15 किन्तु सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत्, तस्यामप्यर्थस्थितौ निराकृतो वाच्योऽर्थः 'जुहोत्यर्थ - त्यागभेदाभ्याम्' इत्यादिप्रबन्धेन उक्तवद् यथाश्रुतार्थाभावादिदोषात् पौरुषेयत्वादिप्रसङ्गाच्च । एवं तावन्यापरीक्ष्यमाणमेतद्वाक्यं न युज्यते पुरुषतर्कलक्षणेन ।
यद्यपि पुरुषतर्क लक्षणं न्यायर्मेतिलङ्घया पौरुषेयो नित्यो वेदाख्यः क्रियोपदेशः पुरुषगतरागादिदोषाशङ्काहेतुविनिर्मुक्तः प्रमाणम्, पुरुषकृतानि हि वाक्यानि अविद्यारागाद्यवियुक्त पुरुषवद प्रमाणानि अफला - 20 शक्यप्रप्तिनित्यानित्यादिवस्तुतत्त्वविचारविषयाणि, सफलशक्यप्राप्ति पुरुषहितोपायै क्रियोपदेशात्तु वेदवादः श्रेयानितीष्टम्, तथापि "त्वद्वचनादेवास्मिंस्तु न्यायेऽतिलङ्घयमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात् । किं कारणम् ? तत्रापि यदृच्छाभ्युपगमात्, अविद्यारागाद्यवियोगादेव सर्वपुरुषाणां ९४०१ वक्तृश्रोतृपुरुषाधीनत्वाच्चोपदेशपरम्पराया न कश्चिद्बुद्धिपूर्व उपदेशः, अतः सुप्तमत्तादिविप्रलापवद् यदृच्छया
१ — प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः " इति पातञ्जलमहाभाष्ये पाठः ॥ २ प्रत्युपा य० ॥ ३ इत्येव प्र० ॥ ४ गतार्थात्वात् य० ॥ ५ अत्र " वसेयं प्रयोगेऽग्निहोत्रं जुहुयादिति' इत्यपि पाठः स्यात् ॥ ६ दिति चोच्यते भा० । 'दिति चोच्यते य० ॥ ७ त्वन्मन्यसे भा० । त्वनान्यसे य० ॥ ८ वरवरंक प्र० ॥ ९ समाव य० । 'समथैव भा० ॥ १० कृत्सक प्र० । ११ अत्र कश्चित् पाठस्रुटित इव प्रतिभाति । तुलना - "अर्थगत्यर्थः शब्दप्रयोगः । अर्थ संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोकत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्, उक्तार्थानामप्रयोग इति” – इति पातञ्जलमहाभाष्ये ॥ १२ त्वयैवं भा० ॥ १३ चार्यस्थि प्र० ॥ १४ वाच्यर्थ प्र० ॥ १५ दृश्यतां पृ० १२६ पं० ४ ॥ १६ मिति ० ॥ १७ षं प्र० ॥ ९८ प्रामाण्यानि प्र० ॥ १९ 'प्राप्तिनित्यादिवस्तु य० ॥ २० क्रियापदे भा० ॥ २९ तद्वचना प्र० ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org