________________
१३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे मेव त्वनूद्यते च विशेषविधानार्थम् । न चात्र कश्चिजहोतिपुनर्वचनेन विशेषो जन्यते । ततश्च प्राक्तनमेव सञ्जातम् । सर्वथा किमतिरिच्यते पौनरुत्त्यदोषव्यपेतम् ? विधिलिङ्कतों आस्ते । अतो नानुवादः, उत्तरविशेषासम्बन्धनात्, विधीयमानपण्डितत्ववत् । 5 अथोच्येत-विधिलिङ्कर्थे प्रत्ययार्थेऽवशिष्यमाणेऽवश्यवाच्ये प्रकृतिपरव्यव
भृशार्थे धनं घनं मृदु मृदु शनैः शनैरिति । विनियोगे घटं कुरु घटं कुर्विति । हेतौ कृतकत्वादनित्यो घटः, तस्मात् कृतकत्वादिति । असूयायां विपर्यस्याऽऽस्यं हसति हसतीति । ईषदीषदिति, स्तोकं स्तोकमिति । सम्भ्रमे स्वागतं स्वागतमिति । विस्मये विद्याधरो विद्याधर इति । गणने एकमेकं द्वे द्वे इति । स्मरणे आ! विदितो विदितः पाटलिपुत्रे दृष्टो दृष्टोऽसीति । एवमाद्यर्थविशेषाभावे पुनरुक्तदोषावश्यम्भावाद् न चेदनु10 वादत्वमस्य पौनरुक्त्यमेवास्य । पौनरुक्त्याभावे नानुवादत्वम् । तस्मादिदं त्वनुवादाक्षममयोग्यमित्यर्थः, ९२-२ कतमत् ? जुहुयादित्येतत् पदम् । कुतः ? विधीयमानत्वात् , योऽर्थो विधीयते न सोऽनूद्यते, आख्याय
मानपण्डितत्ववत् , यथायं पण्डितो देवदत्त इति विधीयमानपाण्डित्यो देवदत्तो नानूद्यते तथा जुहुयादित्येतदपि अपूर्वोपदेशत्वादनुवादवैधाच्चास्य तल्लक्षणाभावात् । किं तल्लक्षणमिति चेत्, विहितमेव त्वनू
घेते च विशेषविधानार्थम् , यथा-पटुर्देवदत्तः, पयसैनं भोजयेति । तल्लक्षणाभावात् किम् ? तल्लक्षणा15 भावान्नानुवादोऽपूर्वविधानात् , यत्र न विशेषो विधीयते मौलविधिरेव सः ।
एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत् , तन्न भवति, यस्माद् न चात्र कश्चिज्जुहोतिपुनर्वचनेन विशेषो जन्यते, 'जुहुयात्' इत्यनेन शब्देन अग्निहोत्रशब्दाभिहितादर्थान्न कश्चिदन्यो विशिष्टोऽर्थोऽभिधीयते यतोऽनुवादः स्यात् । ततश्च प्राक्तनमेव सञ्जातं यावदेव ‘अग्निहोत्रं कुर्यात्' इति वाक्यविकल्पेऽभिहितं तावदेव 'अग्निहोत्रं जुहुयात्' इत्यत्रापि वाक्ये, ततोऽधिकं न किञ्चिदस्ति । एवं यां 20 तां गतिं गत्वा कल्पयित्वापि सर्वथा सर्वप्रकारेण 'अग्निहोत्रं जुहुयात्' इत्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमतिरिच्यते पौनरुत्त्यदोषव्यपेतम् ? विधिलिकर्तास्ते,
विधौ विहितस्य लिङ्प्रत्ययस्य कर्तृकारकस्य तन्मात्रार्थ आस्ते न दूषितः, अन्यत् सर्वं पुनरुक्तादिदोषदुष्ट९३.६ मेवेत्यर्थः 'अग्निहोत्रं कुर्यात् , अग्निहोत्रं जुहुयात्' इत्येतयोर्वाक्यार्थविकल्पयोरुक्तदोषत्वात् । अतो नानु
वादः, उक्तदोषसम्बन्धादित्यर्थः । कथमिति चेत् , उत्तरविशेषासम्बन्धनाद् विधीयमानपण्डितत्वव25 दित्येतदनन्तरोक्तार्थसमाहारार्थं साधनं गतार्थम् । तस्मात् कर्बर्थमात्रमवशिष्यते, शेषं पुनरुक्तम् ।
अथोच्येतेति परमतमाशङ्कते । अथ त्वयोच्येत – विधिलिङ्कर्थः प्रत्ययार्थोऽनुक्तत्वादयशिष्यते, अवश्यं च वाच्योऽसौ, तस्मिन् प्रत्ययार्थेऽवशिष्यमाणेऽवश्यवाच्ये, प्रकृतिपरव्यवस्थाया इति
१ द्यूनं द्यूनं पा० डे० ली० वि० । दानं धनं भा० । द्यतथूनं २० ही० ॥ २ विपर्ययस्यास्यं य० । विप. यस्यं भा०॥ ३ तरल्लक्ष पा० २० ही० ॥ ४ ते च वि० विना ॥ ५ वादो द्यत्र न य० ॥ ६°विधे प्र०॥ ७°णाहोत्रं य० ॥ ८°च्यतेति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org