________________
१३१
अग्निहोत्रहवनविध्यनुवादयोर्दोषाः] द्वादशारं नयचक्रम्
नैव हवनं विधीयते, किं तर्हि ? अग्निहोत्रशब्देन विहितं हवनमनूद्यते । प्राप्तमनूद्यते वाक्यान्तरेण, अप्राप्तं च विधीयते । न च प्राप्तिरस्ति हवनस्य, अविहितत्वात् । यदग्निहोत्रं हवनमेव तत्, पुनरुक्तं तद्येवम्, अनयोरविशेषात् । विधिविहितस्य ह्यनुवदनमनुवादः। अग्निहोत्रहवनविधेयत्वादनुवादायोग्यता। ... अथ त्विच्छयैवानुवादो यथाकथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात् । उक्तं हि
अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु ।
ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ [ इदं त्वनुवादाक्षमम्, विधीयमानत्वात्, आख्यायमानपण्डितत्ववत् । विहित
इतर आह-नैव हवनं विधीयत इत्यादि । जुहुयाच्छदेन नैव हवनं विधीयते, किं तर्हि ? 10 अग्निहोत्रशब्देन विहितं हवनमनूद्यते, विध्यनुवादयोर्भिन्नलक्षणत्वात् । किं तयोर्लक्षणमिति चेत् , उच्यते-प्राप्तमनूद्यते वाक्यान्तरेण, यथा 'पण्डितस्तिष्ठति' इति 'शास्त्रज्ञः पण्डितः' इति वाक्यान्तरविहितपाण्डित्यस्य स्थानानुवादात् । अप्राप्तं च विधीयते, यद् वाक्यान्तराप्रापितमविज्ञातं प्रमाणान्तरेण तद् विधीयते, यथा स्वर्गकामो जुहुयादिति । अत्रोच्यते - यद्येतद्विध्यनुवादयोर्लक्षणं नानुवादो हवनस्य युज्यते, यस्मान्न च प्राप्तिरस्ति हवनस्य, अविहितत्वात् । इतर आह - अस्ति प्राप्तिहवनस्य, अग्निहोत्रस्य हवन-15 त्वात् तस्य च विहितत्वादित्यत आह - यदग्निहोत्रं हवनमेव तत्, पुनरुक्तं तद्देवमनयोरग्निहोत्रहवनविधानयोरविशेषात् । एतञ्चार्थपुनरुक्तम् , पुनरुक्तं च नानुवाद उन्मत्तवाक्यवत् । अनुवादलक्षणाभावं चास्य दर्शयति -विधिविहितस्य हि अनुवदनमनुवाद इति, हिशब्दो यस्मादर्थे, यस्माद् विधिवाक्यविहितस्यार्थस्य पश्चादर्थविशेषप्रापणार्थो वादोऽनुवादः । तदत्र लक्षणं न घटते, अग्निहोत्रहवनविधेयत्वात् , ९२१ अग्निहोत्रस्य हवनस्य चैकीभूतयोविधेयत्वात् । तन्निगमयति- अनुवादायोग्यतेति ।
20 ___ अंथ त्विच्छयैवानुवादो यथाकथञ्चित् स्यात् । स्यान्मतम् - वक्तुर्विवक्षितपूर्विका शब्दप्रतिपत्तिरित्यस्य हवनस्य विधानं न विवक्ष्यते, अनुवादो विवक्ष्यत इति। एतदपि यथाकथञ्चित् स्याद् विहितार्थाभावात्, विवक्षेच्छयोरनर्थान्तरत्वादिच्छामात्रतश्च निरुपपत्तिकस्यार्थस्यासिद्धेर्न स्यादित्यभिप्रायः । यद्यपि यथाकथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात् , इष्यते च पौनरुक्त्यं शब्दतोऽर्थतश्च, उक्तार्थः । शब्दार्थकथनमविशेषेण पुनरुक्तमन्यत्रादरादिभ्यः [ ] इति पौनरुक्त्याभावः। 25
उक्तं हीति पुनरुक्तापवादमर्थविशेषापेक्षं दर्शयति अनुवादादर । 'पण्डितमानय' इत्युक्ते पण्डितो देवदत्त इत्यनुवादो न पुनरुक्तम् । एवमादरे स्वामिन् स्वामिन्निति । वीप्सायां ग्रामो ग्रामो रमणीयः ।
१°ब्दे नैव य०॥ २ प्राप्तितमवि भा० । प्राप्तिमतवि य० ॥ ३°नमेतत् य० ॥ ४क्तं च नानुवाद य० ॥ ५ णार्थानुवादोऽनुवादः य०॥ ६°वादयों प्र०॥ ७ अर्थात्वच्छदौवानु भा० । अर्थात्वच्छब्दोवानु य० ॥ ८ विधान विव भा० । विधानं विव य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org