________________
१३०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् द्वितीये विधिविध्यरे एवं च श्रुतेर्यासौ प्रतिपत्तिस्तस्या अभावः। वप्रत्यवेक्षानुवादन्यायेन च तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थस्थापनाद् नृज्ञानमेव प्रमाणीकृतम् ।
एवं तर्हि यथाश्रुति अग्निहोत्रवद्धवनमपि ग्रहीष्यते । नन्वर्थद्वयविधानमशक्यमेकेन वाक्येन ।
5 विधिः, ज्ञातार्थोऽनुवादः, अग्निहोत्रमज्ञातत्वाद् विधीयते, 'तत् कुर्यात् , जुहुयात् , हवनं कुर्यात्' इति जुहोतिक्रियया विशेष्य प्रसिद्धस्य विहितस्यैवानुवदनादिति प्रागुदितमर्थमुपपत्तित्वेनोपदर्शयति ।
ततश्च किम् ? एवं चेत्यादि यावत् तस्या अभावः । एवं चेत्यनन्तरनिर्दिष्टक्रियानामस्ववृत्ति९१-१ त्यागोपादानाभ्यामेव श्रुतेर्यासौ प्रतिपत्तिर्जुहुयादित्यस्याः पदश्रुतेई वनक्रियाविधानमर्थो जुहुयाद् हवनं ___ कुर्यादिति तस्या अभावः, सा न भवति, अन्यथार्थाधिगतेः, यच्छब्द आह तन्नः प्रमाणम् [पा० म० 10 भा० २।१।१] इति च हीयते । नामाख्यातयोरर्थभेदत्यागोपादानदोषेभ्यश्च शब्दाव्यवस्थानात् पुरुषबुद्धिवशेन
शब्दार्थावस्थानम् , कुतः ? स्वप्रत्यवेक्षानुवादन्यायेन च तत्त्यागात् , स्वयं प्रत्यवेक्षितोऽर्थस्त्वया 'अयमस्य शब्दोऽस्यार्थ एवं भवति न वेति दोषवत्त्वादयं त्याज्योऽयं गुणवत्त्वादाश्रयणीयः' इति विचार्य स्वमतिप्रमाणीकरणेन श्रतिप्रामाण्यत्यागः कृतः । ततस्तत्त्यागात् कर्ताद्यर्थप्रतिपत्तिवशेन शब्दार्थस्थापनादू नुः पुरुषस्य ज्ञानमेव प्रमाणीकृतम् , तस्यैव विध्यर्थवदवस्थितस्यानुवदनात् । अतश्च 15 ते वादावसानं निग्रहस्थानं पुरुषज्ञानप्रामाण्याश्रयेण क्रियोपदेशवाक्याप्रमाणीकरणात् प्रतिज्ञात्यागप्रतिज्ञान्तरगमनलक्षणम् । एष च प्रतिज्ञात्यागप्रतिज्ञान्तराश्रयणदोष इतरत्राप्यर्थव्याख्याने 'हवनं कुर्यात्' इत्येतस्मिन् भवति, कस्मात् ? स्वप्रयवेक्षानुवादेन च तत्त्यागात् काद्यर्थनियतप्रतिपत्तिवशेन शब्दार्थस्थापनादेवमेव सप्रकृतिप्रत्यय एवाग्निहोत्रशब्दोऽवबोध्यते शब्दप्रामाण्यत्यागेन स्वमतिप्रामाण्यावलम्बनात् ।
एवं तर्हि यथाश्रुति अग्निहोत्रवद्धवनमपि ग्रहीष्यते । आह - न शब्दार्थं त्यजामि, उक्तदोष20 भयात्। किं तर्हि ? या या श्रुतिर्यथाश्रुति, यथाग्निहोत्रशब्दश्रवणात् तदर्थो गृह्यते तथा हवनमपि जुहुयाच्छब्द११., श्रवणाहीष्यते, ततो न दोषोऽस्तीति । तदेकत्र हवनमग्निसम्प्रदानविशिष्टकर्मकारकतयोच्यते, अन्यत्र
खविशिष्टकर्तृकतयेति । अत्रोच्यते-नन्वर्थद्वयविधानमशक्यमेकेन वाक्येन अग्निसम्प्रदानकस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्तृत्वस्य, यथा ब्राह्मणसम्प्रदानकहविर्दानवाक्येन शुक्लगवानयनमपि ।
१ तस्य प्रभावः प्र० ॥ २ तस्याभावः प्र० ॥ ३ अन्यार्थाधि य० । अर्थाधि भा० ॥ ४ “शब्द. प्रमाणका वयम् , यच्छब्द आह तदस्माकं प्रमाणम्" इति पातञ्जलमहाभाष्ये पस्पशाह्निके 'समर्थः पदविधिः' [पा० २।१।१] इति सूत्रस्य भाष्ये च पाठः ॥ ५ स्थानात् तदव्यवस्थानात् वि० । स्थात् तदव्यवस्थानात् पा० डे. ली. २० ही० ॥ ६त्यक्षानु प्र० ॥ ७ वादेन्या य० ॥ ८°त्यपेक्षि प्र० ॥ ९ शब्दो(ब्द?)स्यार्थ प्र० ॥ १० र्थास्थापनां नुः भा० । स्थापनां नु य० ॥ ११ °देशिवाक्यों भा० । °देशवाक्यों य० ॥ १२ °त्यपेक्षा प्र० ॥ १३ शब्दोवाबाध्यते य० । शब्दोवाध्यते भा० ॥ १४ कर्तृकत्वस्य य० ॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org