________________
अग्निहोत्रं कुर्यादित्यर्थे दोषाः] द्वादशारं नयचक्रम्
१२९ त्यक्तजुहोतिकर्बर्थग्रहे तु निष्क्रियकर्तृत्वात् कुर्यादर्थाभावः । जुहोतिप्रयोगासत्त्वम् , त्याज्यत्वात्, व्याधिवत् । क्रियानामखवृत्तित्यागोपादानाभ्यां धातुप्रातिपदिकप्रकृतिभेदोऽपि, न पदभेद एव पदान्तरविषयत्वात् , अज्ञातस्याग्निहोत्रस्य क्रियाविशेषणत्वेनानुवादात् ।
त्यक्तजुहोतिकर्बर्थग्रहे तु 'निष्क्रियकर्तृत्वात् कुर्यादर्थाभावः । अथाचक्षीथाः - एतदोषभयात् । त्यक्त्वा जुहोत्यर्थं निष्क्रिय कर्बर्थमात्रमेव गृह्यते 'कुर्यात्' इति कर्तव्यतामात्रचोदनार्थः । एवं च सति यक्तजुहोतिकर्बर्थग्रहे तु, तुशब्दो विशेषणे, अत्यन्तमर्थाभावेनैव विशेषयति, 'करोति, कुर्यात्' इत्येवमादिशब्दानां कृप्रकृतीनां घटादिकर्मापेक्षामन्तरेण 'किं करोतु, किं कुर्यात्' इत्यनिर्णीतार्थत्वात् कोऽर्थः स्यात् ? केअर्थाभावे कर्बर्थस्य निःसाय॑स्य वाऽकर्तृत्वं स्यात् । अतः कुर्याच्छब्दो निरर्थकः, त्यक्तस्वप्रकृत्यर्थत्वात् ताग्विधस्य भ्वादिप्रकृतिरहितस्य यादादिप्रत्ययान्तस्य प्रयोगस्यादर्शनात् । अभ्युपेत्यापि प्रयोगं जुहोति-10 प्रयोगासत्त्वं ब्रूमः, असत्त्वमप्रशस्तत्वम् , कुतः ? त्याज्यत्वात् , त्याज्यत्वं त्वया त्यक्तत्वादस्मन्मतेनाऽर्थाभावात् । अर्थाभावश्चोक्तविधिना सिद्ध एव । तस्मात् त्याज्यत्वादसत्त्वं 'जुहुयात्' इत्यस्य प्रयोगस्य । दृष्टान्तो व्याधिवत् , यथा व्याधिस्त्याज्यत्वादप्रशस्तस्तथा जुहोतिशब्दोऽपि सार्थ इति । किश्चान्यत् , ९०.२ क्रियानामस्ववृत्तीत्यादि । आख्यातस्य क्रियार्थत्वरूढस्य स्वार्थं विप्रकीर्णावयवकलापं त्यक्त्वा पिण्डितहोत्रसत्त्वार्थोपादानम् , न च तमप्युपादाय तत्रैवावतिष्ठते, किं तर्हि ? पुनरपि सत्त्वार्थं त्यक्त्वा क्रियार्थोपादानम् । 15 एवं नामशब्दस्यापि सत्त्ववृत्तिं स्वां त्यक्त्वा क्रियार्थोपादानं क्रियार्थं त्यक्त्वा सत्त्वार्थोपादानमिति । ताभ्यामेव च त्यागोपादानाभ्यां 'कुर्यात् , जुहुयात्' इत्येतयोरपि शब्दयोः सामान्यविशेषार्थयोरितरेतरार्थवृत्त्या भेदः स्वप्रकृतिबलेन पिण्डनविप्रकिरणोत् तद्भेदवत् तद्बलेनाऽस्यापि । तथा तद्वाचिन्योः प्रकृत्योरपि भेदस्ताभ्यां त्यागोपादानाभ्याम् । कयोः प्रकृत्योरिति चेत् , धातुप्रातिपदिकयोः, अत आह-धातुप्रातिपदिकंकृतिभेदोऽपि, न पदभेद एव, स कुतः पदभेद इति चेत्, पदान्तरविषयत्वात् , पदान्तरस्य 20 विषयोऽस्येति पदान्तरविषयं तत् पदमाख्यातं नाम वा, तद्भावात् पदान्तरविषयत्वात् कुर्याजहुयादिति । अथवा वाक्यार्थविचारप्रधानस्य मीमांसकस्य यदुक्तं प्राक् 'वाक्यभेदो विध्यनुवादत्वापत्तेः' इति, स तु न केवलो वाक्यभेदः पदभेद एव वा, किं तर्हि ? धातुप्रातिपदिकभेदोऽपीत्यभिसम्बध्यते, 'ने' इत्यनुवर्तनात् । तत्र को हेतुरिति चेत्, अज्ञातस्याग्निहोत्रस्य क्रियाविशेषणत्वेनानुवादात् , अज्ञातार्थो
१ निःक्रिया प्र.॥ २'त्यर्थनिःक्रियं प्र०॥ ३°न्तामर्थाभावेनैव य०। न्तमर्थाभावेन भा० ॥ ४ इत्यनिर्णिक्तार्थत्वात् कार्थः स्यात् भा० । इत्यनिर्णिकार्थत्वात् कार्यः स्यात् य० ॥ ५ कृत्सर्वाभावे प्र० ॥ ६°ध्यस्यककर्तृत्वं भा० । ध्यस्खवाकर्तृत्वं र० । ध्यस्वधाकर्तृत्वं ही० । ध्यस्वककर्तृत्वं पा० वि० । ध्यस्वकर्तृत्वं डे० ली० ॥ ७ कृद्वादि प्र० ॥ ८ क्रियार्थ च रूढस्य रं० ही० विना । क्रियार्थनरूढस्य रं० ही० ॥ ९ त्रसस्वार्थो भा० । त्रस्यस्वार्थों य० ॥ १० सत्त्वावृत्ति २० ही• विना । सत्तावृत्तिं रे० ही० ॥ ११ दानं क्रियार्थोपादानुं क्रियार्थ य० ॥ १२ प्रकरणात् प्र०॥ १३ तद्वाधिन्योः भा० । तद्वाधिन्याः य० ॥ १४ योर्निरत डे० ली० । योनिस्ता रं० ही० वि० । योनिस्तं पा० ॥ १५ प्रकृतिप्रकृति य० ॥ १६ न तदभेद रं० ही० । न लदभेद डे० ली० । न तदभेद वि० । न भेद पा० ॥ १७ धानमीमां य० ॥ १८ दृश्यतां पृ० १२५ पं० २॥ १९ नत्यनु य० ॥
नय०१७ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org