________________
१२८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे कुर्यादर्थोपादानमभेदकं तिङ्प्रत्ययार्थेकीभूतप्रकृत्यर्थत्वादग्निसमासासत्त्वात्, अपशब्दश्वायमस्मिन्नर्थे ।
८९-२ स्योपादानमभेदकम् , नास्ति भेदोऽस्येत्यभेदकमभिन्नार्थम् । कुतो भिन्नार्थं न भवतीति चेत् , 'हवनं कुर्यात्'
इत्यस्माद्वाक्यार्थात् । तस्मात् त एव दोषाः । स्यान्मतम् - मात्रग्रहणासिद्धिरग्निपदविशिष्टसमासत्वात् । 5 न हि होत्रमात्रमेव श्रूयते, किं तर्हि ? अग्नेरग्नावग्नये वा होत्रमग्निहोत्रम्, तत् कुर्यादिति भिन्नोऽर्थ इति । एतच्चायुक्तम् , 'तिप्रत्ययार्थैकीभूतप्रकृत्यर्थत्वादू होत्रमात्रवृत्तत्वं सिद्धमेवेत्यर्थः । यत्र तिङ्प्रत्ययार्थेनैकीभूतः प्रकृत्यर्थस्तत्र प्रकृत्यर्थमात्रवृत्तिर्दृष्टा, यथा प्रलम्बतेऽध्यागच्छतीति । वैधयेण कुम्भकारवत् काण्ड
लाववत् समासत्वात् । कुम्भकारवदेव विशिष्टार्थत्वमिति चेत् , तदपि नोपपद्यते, अँग्निसमासासत्त्वात् , . न ह्यस्ति अग्निशब्दस्य होत्रशब्देन 'तिप्रत्ययार्थसाकाङ्क्षण समासः, सुप् सुपा समर्थेन सह समस्यते 10 [पा० म० भा० २।१।४] इति वचनात् । तिङन्तेन अस्तिक्षीरानीतपिबतादिषु समासदर्शनाददोष इति
चेत्, न, परिगणितेभ्योऽन्यत्राभावात् तिङन्तप्रतिरूपनिपातसुबन्तत्वाच्च तेषाम् , अस्ति नास्ति दिष्टं मतिः [पा० ४।४।६०] इति प्रातिपदिकवत् । अन्यथा 'देवदत्तः पचति' इत्यत्रापि समासः स्यात्, न तु भवति । सामर्थ्याभावाच्च समासानुपपत्तिः, समर्थः पदविधिः [पा० २।१।१] इत्यधिकारात् । असामर्थ्यं च सापेक्षत्वात् , यथा शैङ्कलाखण्डप्रातिपक्ष्येण ‘पश्य शङ्कलया खण्डः' इति समासानुपपत्तिस्तद्वत् । न च प्राधान्या15 भावात् 'देवदत्तस्य गुरुकुलम्' इत्यनेन तुल्यम्, तत्र तु प्रधानत्वाद्भवति समासः । उक्तं तु- भवति हि
प्रधानशब्दस्य सापेक्षस्यापि समासः [पा० म० भा० २।।१] इति । न चात्राग्निशब्दस्य होत्रशब्दस्य वा
प्राधान्यमस्ति, कुर्याजुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् साधनानां साध्यसिद्ध्यर्थप्रवृत्तित्वात् । ९०-१ अपशब्दोहि नाम अर्थविशेषविवक्षायां तदभिधायित्वरूपातिक्रमात् । यथा गोणीशब्दो हि सास्नादिमत्यर्थेs
पशब्दः, स तु आवपने शब्द एव । तथा गावीशब्दोऽपि गव्यवंसेयेऽशक्तिः 'गावी' इत्यस्मिन्नर्थे शब्द 20 एव । तथा चोक्तम् - ..
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्वयवहारयुक्ते ।
सोऽनन्तमामोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः ॥ [पा० म० भा० १॥३॥१] तस्मादपशब्दश्चायमस्मिन्नर्थे कुर्यादर्थोपादानं चाभेदकमिति साधूक्तम् ।
. १°णात्सिद्धिः य० ॥ २ होममात्र य० ॥ ३ एवतच्या य० ॥ ४ तिप्प्रत्य भा० ॥ ५°वृत्ति दृष्टा य० ॥६म्बनेव्यागच्छ प्र० ॥ ७ समाससत्वात् भा० । समासत्वात् य०॥ ८तिटू प्र०॥ ९"सह सुपा ॥२।१।४॥योगविभागः करिष्यते-'सह' । सह सुप् समस्यते, केन ? समर्थन । अनुव्यचलत् । अनुप्रा. विशत् । ततः सुपा, सुपा च सह सुप् समस्यते ।"-इति पातञ्जलमहाभाष्ये पाठः २।१।४ ॥ १० अस्तिक्षीयस्तीतपिवता भा० । अस्तिक्षारास्तीतपिवता य० ॥ ११ निपातंत्वाच्च डे० ली०॥ १२ सुपंतत्वाच्च भा० । मपातंत्वाच्च पा० वि० । नुपातंत्वाच्च रं० ही० ॥ १३ संकुलाप्र॥ १४ पक्ष्यण परय संकुलया प्र०॥ १५ "भवति च प्रधानस्य सापेक्षस्यापि समासः” इति पातञ्जलमहाभाष्ये पाठः २।१।१ पृ० ११, ४८ ॥ १६ अपिशब्दो हि नामार्थ प्र०॥ १७ त्यर्थे सत्वधेयनो शब्द एव य० ॥ १८ वसेयंसक्तिः प्र०॥ १९ शब्दः य० ॥ २०°ब्दाश्चा रं० ही० विना ॥ २१ पदानं प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org