________________
१२७
अग्निहोत्रं कुर्यादित्यर्थे दोषाः] द्वादशारं नयचक्रम्
आसन्नश्रुताग्निहोत्रकर्तव्यत्वान्नेति चेत्, न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् । परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वाज्जुहुयादर्थमात्रमेवेति
10
जुहोत्यर्थत्यागभेदवत् सर्वधात्वर्थविशेषत्यागः, यथा जुहोतिः कर्तृप्रत्ययान्तप्रकृत्यर्थवाच्येवं पचतिपठत्यादयः सर्वे धातवो धातुत्वात् तद्वाचिनः, तस्मात् सर्वधात्वर्थविशेषास्यक्ताः, विशेषशब्दस्य भेदार्थत्वान्नामाख्यातद्वयर्थवृत्तित्वात् पूर्वोक्तकरीत्यर्थवद् भिन्नार्थता च । ततश्च सर्वधात्वर्थविशेषत्यागात् तत्त्यागा-5 पत्तिरपि, तस्य अर्थस्य सर्वधात्वर्थसामान्यभूतस्यापि त्याग आपद्यते । किं कारणम् ? विशेषाभावे निराश्रयस्य सामान्यस्याभावात् , 'करोति' इत्युक्ते 'किं करोति ? जुहोति पचति पठति' इत्यादिविशेषसंश्रयेण विना करोतेरर्थाभावात् । अपिशब्दात् सङ्कर-प्रसिद्धिविरोध-पौनरुक्त्यदोषाश्च । ____ आसन्नश्रुताग्निहोत्रकर्तव्यत्वान्नेति चेत् । स्यान्मतम् – संसर्गादिभेदभिन्नात् सामर्थ्याच्छब्दार्थ-८९-१ व्यवच्छेदो विशेषलिङ्गाद् भवति । यथाह -
संसर्गो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दस्यार्थव्यवच्छेदे विशेषस्मृतिहेतवः॥ [वाक्यप० २।३१७-३१८] इति । तत्र यच्छब्दसन्निधिसंज्ञकं सामर्थ्य तद् व्यवच्छेदकारणमिहाप्य स्ति, तद्यथा - आसन्नश्रुतोऽग्निहोत्रशब्द:, 15 तच्चोदितकर्तव्यतैवात्र सम्बध्यते । तस्मान्न जुहोत्यर्थस्यैक्तस्तत्कर्तृप्रत्ययअर्थदर्शने सत्यपि 'अग्निहोत्रं कुर्यात्' इति हवनविषयस्यैव करणस्योपादानात् । चेदित्याशङ्कायाम् , एवं चेन्मन्यसे, तदपि न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् , यद्यासन्नश्रुताग्निहोत्रसान्निध्यात् तदर्थोपादानं न्याय्यं मन्यसे ततोऽप्यासन्नतरश्रुतजुहोतिशब्दार्थोपादानं न्याय्यतरं किं न मन्यसे ? स चार्थस्त्यक्तस्त्वया, तदुपादानेऽपि चाप्रसिद्धतादिदोषास्तदवस्थाः, स्वपदार्थं त्यक्त्वा पदान्तरार्थे कथं 'वर्तेतेति चोक्तम् ।
20 ____अभ्युपेत्यापि पदान्तरार्थाभिधानं दोष उच्यते -परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वाजुहुयादर्थमात्रमेवेति कुर्यादर्थोपादानमभेदकम् । पदान्तरेऽग्निहोत्रपदे परिश्रुतं परिगतं ज्ञातम् , किं तत् ? "होत्रमात्रम्, न तद्वयतिरिक्तमर्थान्तरं गम्यते, अतो जुहुयादित्येतस्य शब्दस्य योऽर्थस्तन्मात्र एव वृत्तः कुर्याच्छब्दः, इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्जुहुयाच्छब्दार्थमात्रत्वाद्धोत्रं कुर्यादित्यस्यार्थ
१°त्यागभेदत्यागवत् प्र०॥ २ कृत्सप्र भा० । त्तत्सर्वप्रय० ॥ ३°वान्येवं प्र०॥ ४ कृत्सवस्य प्र० ॥ ५ रुक्तदों प्र० ॥ ६ श्रुतोऽग्नि पा० वि० । श्रुतिग्नि २० ही० डे० ली० ॥ ७र्गाभेद य०॥ ८°च्छपृछब्दार्थ डे० ली. । च्छन्दपृद्धब्दार्थ पा० । °च्छब्द पृच्छार्थ वि० । कृष्टब्दार्थ रे० ही० ॥ ९ व्यक्तिस्व य० ॥ १० स्यार्थस्यव्य य० ॥ ११ श्रुत्ताग्नि पा० डे० ली । श्रुताग्नि २० ही० ॥ १२ शब्दास्तच्चों य० ॥ १३ °स्त्यक्तसत्कर्तृ भा० । 'स्तक्तसात्कर्तृ डे० ली० । 'स्तक्तस्तत्कर्तृ वि० । 'स्तक्तत्कर्तृ २० ही०॥ १४ कृत्सर्वदर्शने प्र०॥ १५ यथासन्न प्र० ॥ १६ वर्तितेति प्र० । दृश्यतां पृ० १२३ पं० २॥ १७ त्यादि प्र०॥ १८ परपदान्तरपरिश्रुत भा० । अत्र 'परपदार्थाभिधानेऽपि' इत्यपि पाठः स्यात् ॥ १९ होतृमात्रं य० ॥ २० त्वाद्वो कुर्या प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org