________________
१२६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे अथ पुनरेवमनिर्वहत्युच्येत-नैव हवनं कुर्यादिति पक्षः, किं तर्हि ? अग्निहोत्रं कुर्यादिति पक्षान्तरमाश्रीयते, अग्निहोत्रशब्दे जुहोतेर्धातोर्दर्शितार्थत्वात् कर्तृप्रत्ययार्थे च कृतः।
एवमपि कर्तृप्रत्ययकृञ्दर्शनेन जुहोत्यर्थत्यागभेदाभ्यां जुहोत्यर्थत्यागभेदवत् सर्वधात्वर्थविशेषत्यागात्तत्त्यागापत्तिरपि, विशेषाभावे निराश्रयस्य सामान्यस्या भावात् । भेदापत्तेश्च द्रव्यस्य क्रियाया वा विधाने निर्योढुमशक्ये परेणोच्येत -नैव हवनं कुर्यादितीत्यादि कर्तव्यतावाक्यतात्यागेन परिहारं मन्यते । पक्षान्तरसंश्रये सोपपंत्तिकं निर्दोषं च कतमत् पुनः पक्षान्तरम् ? इत्यत
आह - किं तर्हि ? 'अग्निहोत्रं कुर्यात्' इत्येतत् पक्षान्तरमाश्रीयते । उपपत्तिश्चात्र - अग्निहोत्रशब्दे 10 जुहोतेर्धातोर्दर्शितार्थत्वात् कर्तृप्रत्ययार्थे च कृजो दर्शितार्थत्वात् । अयं हि 'जुहुयात्' इति 'हु'धातुर्लिङ्प्रत्ययान्तः, स च लिङ् कर्तरि विहितः, कर्तरि कल्लः कर्मणि च [पा० ३।४।६७,६९ ] इति, कर्तृशब्दश्च कृप्रकृतिस्तृजन्तः, कर्तरि क्रियाया निवर्तकेऽर्थेऽभिधेये कृतो लकाराश्च भवन्तीति । तथा कर्मणि विहितोऽपि कुल्लकारो वा कृत्र) नातिवर्तते । भावे विहितस्तु क्रियामात्रार्थत्वात् कृअर्थे एव । 'किं करोति ?' इति सर्वक्रियाविशेषेषु पचत्यादिषु "विशेषणप्रश्नप्रदर्शनात् 'जुहुयात्' इत्ययं कुर्यादर्थ एव, तथा 15 'भूयते देवदत्तेन सुप्यते देवदत्तेन' इत्येवमाद्यकर्मकेष्वपि स्वपिति भवतीति । अग्निहोत्रशब्देन पुनस्तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव, तस्मात् 'अग्निहोत्रं कुर्यात्' इत्ययमर्थ इति ।
अत्रोच्यते- एवमपि कर्तप्रत्ययकदर्शनेनेति परोक्तं प्रत्युच्चारयति। एवमिदानी कुर्यादग्निहोत्रमियेतत् पक्षान्तरं होत्रशब्दोक्तहवनार्थता कर्तृप्रत्ययान्तकृअर्थता च जुहोतेरित्येतत् त्वयोक्तं मया युक्त्या सहाव८८-२ धारितं तथापि जुहोत्यर्थस्य त्यागोऽर्थभेदश्च, जुहोत्यर्थत्यागस्तावत् कर्तृविशिष्टक्रियासामान्यमात्रवाचि20 त्वाभ्युपगमात् जुहोतेश्च क्रियाविशेषत्वात् सामान्यविशेषयोश्चान्योन्यतो भिन्नत्वात् 'कुर्याच्छब्दार्थं जुहुया
च्छब्दो ब्रवीति' इति वचनाद् होत्रशब्देन दर्शितार्थत्वाजुहोतिरनर्थक इति त्वयैव त्यक्तत्वात् । ततश्च जुहुयाच्छब्दोऽपि होत्रशब्दार्थ होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं द्वयर्थवृत्तित्वाद्भेदश्च होत्रशब्दः क्रियावाची नामवाची च तथा जुहुयाच्छब्दोऽपीति । "एवं सति शब्दार्थसङ्करः प्रसिद्धिविरोधश्च
जायते, यथा- पूर्वापरीभूतं भावमाख्यातेनाऽऽचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यवसानं मूर्त 25 सत्त्वं नामभिव्रज्या 'पंक्तिः [निरुक्त. १।१] इति । ततश्च जुहोत्यर्थत्यागभेदाभ्यां हेतुभ्यां
१ क्रियया य० ॥ २ पत्तिके प्र० ॥ ३ जुहोतिधातो भा०॥ ४ कुच्छो य० ॥ ५ अयं जह य० ॥ ६ लिद प्र० ॥ ७ "कर्तरि कृत् ३।४।६७१, भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ३।४।६८१, लः कर्मणि भावे चाकर्मकेभ्यः ३।४।६९।"-इति पाणिनीयव्याकरणे ॥ ८ स्त्वजन्तः प्र० । "ण्वुल्तृचौ"-पा० ३।१।१३३ ॥ ९कृत्सर्व प्र०॥ १० कर्तर्थे भा० । कत्रथै पा० । कत्रेथै वि० । कर्तर्थ २० ही० । कत्रार्थ डे० ली० ॥ ११ विशेषेण भा० । अत्र ‘अविशेषेण' इत्यपि पाठः स्यात् ॥ १२ कृद्दर्श प्र०॥ १३ जुहोते य० ॥ १४ एवं शब्दार्थ य० ॥ १५ प्रजति भा० डे० ली० पा०। प्रेजति वि० । परंजति रं० ही० ॥ १६ पत्तिः य० । पंक्तिः भा० । “पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तं मूर्तं सत्त्वभूतं सत्त्वनामभिव्रज्या पक्तिः” इति यास्कनिरुक्ते पाठः ॥ १७ ततश्च य० प्रतिषु नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org