________________
हवनं कुर्यादित्यर्थे दोषाभिधानम् ]
द्वापशारं नयचक्रम्
मप्यशक्यम्, यदि विशेष्येत एवं विशेषणीयम् - हवनं कुर्यात् तच्चाग्निहोत्रसंज्ञकमग्निहोत्रं वा हवनमिति, एतदयुक्तम्, अनुवादविधिविषयत्वे वाक्यभेदापत्तेः । नापि घटादि कर्तव्यतायामिव काचित् क्रिया प्रसिद्धा ययाग्निहोत्राख्यता हवनस्यातिदिश्येत हवनाख्यता वाग्निहोत्रस्य ।
कारार्थविशेषणे, प्रोक्तवदेव विशेषणत्वादि न घटत इति विशिनष्टि । कथमशक्यमिति चेद्दर्शयति - यदि 5 विशेष्येत एवं विशेषणीयम् - हवनं कुर्यात् तच्चाग्निहोत्रसंज्ञकमिति हवनक्रिययाग्निहोत्रं विशेष्येत, अग्निहोत्रं वा हवनमिति 'यदग्निहोत्रं तद्भवनं कर्म' इत्यग्निहोत्रेण हवनं विशेष्येत । इति प्रदर्शने, इत्थं विशेष्येत यदि विशेषणविशेष्यतया प्रयोजनमवश्यम्, तच्च नैवं शक्यमप्रसिद्धार्थत्वात् । यदप्युक्तम् 'अनूद्यामित्रं हवनक्रिया विधीयते, हवनं वानूद्याग्निहोत्रं विधीयते' इति, ऐतदयुक्तं वाक्यभेदापत्तेरित्यत आहअनुवाद विधिविषयत्वे वाक्यभेदापत्तेरिति, तत्रैकमनुवादकमेकं विधायकम् तयोरन्यतरद् यथेष्टं 10 तेऽस्तु, ततो भिन्नार्थत्वाद् वाक्यभेदोऽनयोरापद्यते, यथा 'कुशलोऽयं देवदत्तो ज्ञेयः' इति प्रसिद्धमर्थमनूद्य ८७-२ 'आम्' इत्यनयनं विधीयते, 'देवदत्तमानय' इति देवदत्तानयनं वा विधाय अविदुषे 'यः कुशलतरोऽनयोः ' इत्यनुवादे प्रसिद्धाप्रसिद्धार्थानुवादविधिविषये द्वे वाक्ये, एवमेकस्यानुवादत्वेऽन्यस्य च विधित्वे वाक्यभेदापत्तिः, अतो नैषोऽपि व्याख्यानांच्या शोभन इति ।
१२५
स्यान्मतम् - न वाक्यभेदापत्त्यादिदोषाः सम्भवन्ति, क्रियाया एव विधेयत्वात् । यथोक्तम् - नैतद्वि- 15 चार्यते - अनङ्खान् नानवानिति । किं तर्हि ? आलब्धव्यो नालब्धव्य इति [ पा० म० भा० १|१|४३ ], तथा स्वभावसिद्धं द्रव्यम्, क्रिया चैव हि भाव्यते [ पा० म० भा० १ ३ | १ ] इति । तस्मादग्निविषया हवनक्रियैव विधीयते, अतो दृष्टान्तवैषम्यं नास्ति द्रव्यस्याविधेयप्रतिषेध्यत्वात् 'घटं कुर्यात्, मा कार्षीत्' इति, किं तर्हि ? घटयां कुर्यादिति, तथा हवनं कुर्यादग्निहोत्रं कुर्यादिति हवनाग्निहोत्रक्रिययोरतिदेशो न्याय्य इति । अत्रोच्यते-नपि घटादिकर्तव्यतायामित्येवमादि । यथा घटादिविषया कर्तव्यता मृदानयनमर्दन - 20 क्रमात्मिका लोके प्रसिद्धा न तथा काचिदग्निहवनकर्तव्यता नाम प्रोक्षणबर्हिरास्तरणाज्यप्रक्षेपाद्युपक्रमात्मिका मन्त्रपूर्वक्रिया क्रमवती प्रसिद्धा यया कर्तव्यतया तिदिश्येत हवनाख्ययाग्निहोत्राख्यता अग्निहोत्राख्यया वाहन ख्यातिदिश्येतेति ।
अँथ पुनरित्यादि । अथेत्यधिकारान्तरे, पक्षान्तरमधिकारान्तरम् । अनन्तरोक्तविधिना न निर्वहति 25 'हवनं कुर्याज्जुहुयात्' इति हवनविधावग्निहोत्रानुवाद इत्यस्मिन्नर्थेऽप्रसिद्धत्वाद्विशेषणविशेष्यताद्यभावाद्वाक्य- ८८-१ १ तद्धवनकर्म वि० ॥ २°षेण प्र० ॥ ३ एतदुक्तं य० ॥ ४ के अनु रं० ही ० वि० । कं द्यू (ह्य ?) नु भा० डे० लीं० । ° कं द्य (हा ? ) नु पा० ॥ ५ कुशलयोदे पा०डे० लीं० रं० ही ० । कुशलयोर्दे वि० ॥ ६ प्रसिद्धार्थानु प्र० ॥ ७ व ० ॥ ८ एकमेक ं य० ॥ ९ नाद्वा प्र० ॥ १० तम् वाक्य ० ॥ ११ अनत्वान्नात्वानिति किं तर्ह्यलप्तव्यो प्र० ॥ १२ ग्निहोत्रं कुर्यादिति हवनाग्निहोत्रं कुर्यादिति हवना प्र० ॥ १३ योरतिदेश्यो भा० । योरितिदेश्यो य० ॥ १६ दृश्यतां पृ० १०७-२ ॥ १७ न्तरोपक्षान्तर भा० ।
Jain Education International
१४ दृश्यतां पृ० १०७-२ ॥ १५ नाभ्युपप्र० ॥ न्तरापेक्षान्तर य० ॥
For Private & Personal Use Only
www.jainelibrary.org