________________
१२४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे ततोऽग्निहोत्रशब्दः प्रमादाधीत आपद्येत । तत एवं वचनव्यक्तिर्भवति 'अग्निहोत्राख्यं हवनं कुर्यात्' इति, यथा घटं कुर्यादित्युक्ते घटक्रियां कुर्यादिति ।
एतदयुक्तं दृष्टान्तवैषम्यात् । न हि किश्चिदग्निहोत्रं नाम हवनं घटवत् प्रसिद्धं यदनूद्योच्येत यदग्निहोत्रसंज्ञकं हवनं तत् कुर्यादिति, नापि हवनं यत् कुर्यात् 5 तदग्निहोत्राख्यमिति, वाक्यान्तरेण प्रमाणान्तरेण वाऽप्रसिद्धत्वात्। अत एव तूभय
मित्याकाङ्केष्यते । न चेदेवं ततो दोष इति, यदि तु निरपेक्षोऽग्निहोत्रशब्दो हवनप्रकृत्यर्थमात्र एव वर्तते ततः को दोषः ? ततोऽग्निहोत्रशब्दः प्रमादाधीत आपद्येत, अग्निशब्दस्य च न पृथक् कश्चिदर्थो हवनप्रकृत्यर्थमात्रत्वात् स्यात् , ततश्च दशदाडिमादिश्लोकावयववत् प्रमादाधीत आपद्येत निराकाङ्कत्वात् , न पुनरेवमिष्यते । तत एवं वचनव्यक्तिर्भवति- अग्निहोत्राख्यं हवनं कुर्यात् अग्नि10 होसंज्ञक्रियाकाङ्क्षहवनं कुर्यादिति । किमिव ? यथा 'घटं कुर्यात्' इत्युक्ते सामान्यचोदनायाः प्लवनाद् विशेषाभिसम्बन्धमन्तरेण नैरर्थक्यं स्यात् , तन्मा भूदिति घटं कुर्याद् घटक्रियां कुर्यादिति वचनव्यक्तिस्तथाग्निहोत्रं जुहुयादिति ।
__ आचार्य आह -एतदयुक्तं दृष्टान्तवैषम्यात्, अर्थभेदासिद्धेः, अभ्युपेत्यापि आकाङ्क्षाकृतमर्थभेदमग्निहोत्रहवनयोरप्रसिद्धेदृष्टान्तेन प्रसिद्धेन घटेन वैषम्यमिति तदर्शयति - न हि किञ्चिदग्निहोत्रं नाम हवनं 15 घटवत् प्रसिद्धं यदनूद्योच्येत, यथा घंटं लोके प्रसिद्धमनूद्य तद्विषयं कर्म कुर्याद् घटं कुर्यादित्युच्यते न
तादृगनुवदनमंत्रोपपन्नमप्रसिद्धत्वादग्निहोत्रहवनयो प्याकाङ्क्षाकृतमैक्यमस्तीति तदर्शयति' वैधhण - यद
ग्निहोत्रसंज्ञकं हवनं तत् कुर्यादिति, अग्निहोत्रहवनयोरैक्येन प्रसिद्धौ सत्यां तद्विषयं करणमनुविधीयेत । ८७.१ नापि हवनं यत् कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्राख्यमित्यैक्येन विधानं युज्येत वाक्यान्त
रेणाग्निहोत्रस्य हवनस्य वा अविहितत्वाल्लोके शास्त्रान्तरेषु वा प्रमाणान्तरेण वाऽप्रसिद्धत्वादग्निहोत्र20 हवन क्रिययोः कथमनूद्य विधानं घटते ?
अत एव तूभयमप्यशक्यम् । अत इत्येतस्मादनन्तरोक्ताद्धेतो,क्यान्तरेण प्रमाणान्तरेण वाऽप्रतीतत्वादुभयमप्यशक्यं विशेषणं विशेष्यं च प्रधानमुपसर्जनं च विधिरनुवादश्च शेषः शेषी च उत्सर्गोऽपवादश्च, अन्यतरस्याप्यर्थाप्रतीतेः । किं हवनक्रियाविशेषणमग्निहोत्रं विशेष्यम् ? अग्निहोत्रविशेषणं हवनं विशेष्यम् ? एवं विध्यनुवादप्रधानोपसर्जनोत्सर्गापवादशेषशेषिभावादिषु खपुष्पखरविषाणयोरिवायुक्तमिति । तुशब्द ऐव
१ कांक्षष्यते पा० डे० लीं । कांष्यते २० ही० । 'कांक्षते वि० ॥ २ वर्तेते भा०॥ ३ आपद्यते य० ॥४°चनं भा० पा० डे० लीं। चने वि० ॥५°संज्ञाक्रियाकांक्षा(क्ष्य?)हवनं प्र०॥ ६ एतदुक्तं य०॥ ७ आकांक्षतमर्थ° य० ॥ ८ घट य० । घटा भा० ॥९°मात्रों प्र० ॥१०क्षाष्णक पा० डे० लीं० २० ही। क्षात्मक वि०॥ ११ वै हि धर्येण डे० लीं । ने हि धर्येण पा० । नाहि धर्येण २० ही० । न हि धर्येण वि०॥ १२त्रं संशिकं य० ॥ १३ युज्येत रेणाग्निहोत्रस्य प्र०॥ १४ विधान प्र०॥ १५ शेषीभावादिषु य० । अत्र शेषिभाव दि खपुष्प' इत्यपि पाठः स्यात् ॥ १६ एवकार्थत्वे विशेषेण पा० डे० ली० वि० । एवकार्थत्वे विशेषणे २० ही । एकार्थत्वे विशेषेण भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org