________________
१२३
अग्निहोत्रस्याकर्तव्यतापादनम्] द्वादशारं नयचक्रम् काश्चिदपि कर्तव्यतां ब्रवीति । जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? अथ तदेव तत्, प्रसिद्धिविरुद्धं पुनरुक्तं च।
पदान्तरकर्तव्यतायां तावत् परिहारः-हवनं पदान्तरकर्तव्यतामपेक्षते वाक्यन्यायेन सामर्थ्यात् । सामर्थ्य घटवदग्निहोत्रशब्दस्याप्यर्थवत्त्वायेष्यते । न चेदेवं
स्यान्मतम् – 'जुहुयात्' इत्ययं तर्हि ब्रवीति, हु दानादनयोः [पा० धा० १०८३] इत्यस्याः । प्रकृतेः क्रियावाचिन्या विध्यर्थलिप्रत्ययान्तत्वात् , तच्च हवनमग्निविषयम् , अतस्तत्कर्तव्यतां 'जुहुयात्' इत्येष शब्दो ब्रवीति । अत्रोच्यते – एवमपि तदवस्थम् , सत्यमयं ब्रवीति तत्कर्तव्यताम् , किन्तु हवन-८६-१ मात्रस्य, तस्याप्यप्रसिद्धस्यैव, न त्वग्निहोत्रकर्तव्यताम् , 'जुहुयात्' इत्याख्यातस्य पूर्वापरीभूतानिष्पन्नावयवक्रियार्थवाचित्वात् , नाम्नां पिण्डितनिष्पन्नार्थवाचित्वात् । किं कारणम् ? 'विविक्तार्थवाचित्वाभिमतानां शब्दानां पदान्तरार्थावृत्तेः । तत आह-जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्तव्यतां 10 हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत ? प्रत्ययग्रहणं प्रकृतिप्रत्ययौ प्रेत्ययार्थ सह ब्रूतः [पा० म०भा०३।१।६७] इति परिभाषितत्वादाप्तैः ।
स्यान्मतम् – अथ तदेव तत् , यदेवाग्निहानं तदेव हवनं यदेव हवनं तदेगग्निहोत्रमिति । एतत् तावदनयोरैकार्थ्यं प्रसिद्धिविरुद्धम् , नामाख्यातयोभिन्नार्थत्वप्रसिद्धेः । अभ्युपेत्याप्येकार्थवाचित्वमनयोः पौनरुक्त्यपरिहारार्थं लाघवार्थं च 'जुहुयात्' इत्येवास्तु, किम् 'अग्निहोत्रम्' इत्यनेन ? 15
ईतरोऽप्रसिद्धिपौनरुक्त्यपरिहारार्थमाह -पदान्तरकर्तव्यतायां तावदित्यादि । तावच्छब्दः क्रमार्थे, यत् तावदुक्तं पदान्तरकर्तव्यतायां कथं प्रवर्तेत इत्यत्र परिहारः । अस्मिन् परिहारेऽभिहिते' पौनरुक्त्याप्रसिद्धिदोषावपि 'तदेव तत्' इत्येतत्पक्षगतौ परिहृतीवेवेत्यभिप्रायः । तत्र हवनं पदान्तरकर्तव्यतामपेक्षते, केन न्यायेन ? वाक्यन्यायेन, को वाक्यन्यायः ? 'भेदसंसर्गाभ्यां परस्पराकाङ्क्षा सम्बन्धः, तयाँकाङ्कया पदान्तरार्थे १२वर्तते पदम् , यथा 'सब्रह्मचारिणा सहाधीते' इत्युक्ते येन समानो 20 ब्रह्मचारी संब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकाङ्क्षा भवति सामर्थ्यात्, नान्येन केनचित् । सामर्थ्यमपेक्षेत्यर्थः । न तु यथा पदार्थे परिच्छिन्ने घट इति न पदार्थान्तरमपेक्ष्यते ८६-२ पदेन । सा पुनरपेक्षा घटवत् घटशब्दवत् , अभेदनिर्देशाद् घटार्थत्वेन घंटशब्द उक्तः, घटशब्दस्यार्थवत्त्ववदग्निहोत्रंशब्दस्याप्यर्थवत्त्वायेष्यते, अन्यथाग्निहोत्रशब्दोऽनर्थकः स्यात् , तन्मा भूदानर्थक्य
१ लिट्रप्रत्यया प्र०॥ २होत्रे कर्त प्र०॥ ३ विवक्ता प्र०॥ ४ उत्पन्नः सत्कर्तव्यतां भा० पा० डे० ली। उत्पन्नः सकर्तव्यतां वि० २० ही० । अत्र 'उत्पन्नस्तत्कर्तव्यताम्' इत्यपि पाठः स्यात् ॥ ५प्रत्यया सह य०॥ ६ इतराप्रय० ॥ ७ क्रमार्थो य० ॥ ८प्रवर्तेतेऽन्यत्र भा० पा० डे० ली० । प्रवर्ततेऽन्यत्र वि० । प्रवर्तते इत्यत्र २० ही०॥ ९भिहितो प्र०॥ १० हृतवेवे भा० । हृतं चेवे य०॥ ११ भेदः सं य० ॥ १२ तयादूकांक्षया य० ॥ १३ वर्तेते भा०॥ १४ सब्रह्मचारी य० प्रतिषु नास्ति ॥ १५°चारिणो प्र० ॥ १६ ननु भा० वि० । नमु पा० डे० लीं । समु रं० ही० ॥ १७ घटः शब्द य० ॥ १८ स्यार्थवत्त्वविद पा० डे० ली. वि० । स्यार्थवित्त्वनियमाद रं० ही० । स्यार्थवद भा०॥ १९ होत्रसर्वस्याप्यर्थवत्वा भा० । होत्रशब्दोसर्वस्याप्यर्थवत्त्वा य० ॥ २० °त्वापेक्षते वि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org