SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ द्वितीये विधिविध्यरे ननु चैवमपि कर्तव्यताप्रतिपत्तिलौकिककर्तव्यताद्यर्थतत्त्वानुसृतेरेव, कर्तव्यताविधानानन्तरं चेतिकर्तव्यतावसरः, यथा घटादिकर्तव्यतायां विहितायां 'घटं कुरु' इति ततः पुनरितिकर्तव्यताक्रमः - एवं निर्वर्तयेरिति । न तु घटवदग्निहोत्र शब्दः १२२ बायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, 5 स एवास्मिन् भूतिं निधत्ते [ तै० सं० २|१|१ ] इत्यादि त्वया प्रतिपत्स्यत इति शिष्यमनुशास्ति । तत उत्तरकालम् 'एवम्प्रकारमेवाग्निहोत्रं नाम कर्म भवति' [ इति ] विशेषविधायिनार्थप्रतिपत्तिबलेन प्रसिद्धं भविष्यति तस्य शिष्यस्य साङ्ख्यादिविवेकप्रयत्नवैलक्षण्येन इतरार्थाविचारेण घटपरमाण्वादिकार्यकारणसामान्य विशेषादिस्वरूपाविचारेणेति । अत्रोच्यते - ननु चैवमपीत्यादि । नन्त्रित्यनुज्ञापने, 'कर्तव्यता' इति या कर्तव्यताप्रतिपत्ति 10 रग्निहोत्रादिविषया सा प्रतिपत्तित्वाल्लौकिक कर्तव्यताद्यर्थतत्त्वानुसृतेरेव, प्रत्येकं पतनं प्रतिपत्तिः, सा द्विविधा - आध्यात्मिकी बाह्या "चेति, तत्राध्यात्मिकी 'इदं कर्तव्यमिदं न कर्तव्यम्' इत्यादिका बुद्धिरे, बाह्य तु द्विपदचतुष्पदधनधान्याद्यर्थं ममीक्रिया । सा द्विविधापि लोकप्रसिद्धमेवार्थमनुसृत्य भवितु८५०२ मर्हति नाप्रसिद्धम्, तस्मादग्निहोत्रादिप्रतिपत्तिरपि लोकतत्त्वानुसृतेरेव, नान्यथा । अन्यथा किम्विषया सा स्यान्नालिकेरद्वीपजातवृद्धस्यै गोधेनुप्रतिपत्त्यभाववत् ? इति तद्दर्शयति - कर्तव्यता विधानानन्तरं 15 चेतिकर्तव्यतावसरः, 'लौकिक कर्तव्यताद्यर्थतत्त्वानुसृतेरेव' इति वर्तते । प्रसिद्ध कर्तव्यताप्रतिपत्त्यनन्तरं प्रसिद्धेतिकर्तव्यताप्रतिपत्त्यवसर इति न्यायः, तदुभयमलौकिकत्वादग्निहोत्रसामान्यस्याग्निष्टोमादिविशेषस्य द्रव्यमत्रदेवतैर्त्विग्नियमाद्यात्मनश्चाप्रसिद्धेरयुक्तम् । किञ्चान्यत्, तयायासम्भवञ्च । तद्वयावर्तनार्थं लोकप्रसिद्धकर्तव्यतेतिकर्तव्यतावैधर्म्यं दर्शयन्नाह - यथा घटादिकर्तव्यतायां विहितायां घटं कुर्विति ततः पुनरितिकर्तव्यताक्रमः, एवमिति प्रकारैनिर्देशं दर्शयति, मृत्पिण्डं चक्रमूर्द्धनि संस्थाप्य दण्डेन 20 भ्रमयित्वा द्वाभ्यां पाणिभ्यां शिवकाद्याकारैविशेषक्रमेण निर्वर्तयेरिति प्रसिद्धकर्तव्यताविधानोत्तरकालं प्रसिद्धेतिकर्तव्यताविधानं घटादिविषयमुपपन्नं प्रसिद्धार्थत्वात्, ने त्वग्निहोत्रकर्तव्यतायाः पशुवधादीतिकर्तव्यतायाश्च प्रसिद्धिः, अप्रसिद्धत्वादग्निहोत्रशब्दस्य काञ्चिदपि इतिकर्तव्यतां कर्तव्यतां वा वक्तुमशक्तत्वात्, अत आह— न तु घटवदग्निहोत्रशब्दः काञ्चिदपि कर्तव्यतां ब्रवीति, 'अपिशब्दादितिकर्तव्यतामपीति । । भूमिं विधत्ते वि० । भूमिं धत्ते भा० । २|१|१| "स एनं भूत्यै निनयति” - इति ४ विधानार्थप्रति य० ॥ ५ सुसिद्धं कार्षा भा० ॥ १ स एवास्मिं प्र० ॥ २ भूमिं निधत्ते पा०डे० लीं० रं० ही ० " स एवैनं भूतिं गमयति” - इति कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां पाठः कृष्णयजुर्वेदस्य मैत्रायणी संहितायां पाठः २/५/१ ॥ ३रमग्निं भा० ॥ प्र० ॥ ६ क्षाप्येन भा० । क्ष्यत्वेन य० ॥ ७ कार्या य० । ८ तथा प्र० ॥ ९ पत्तिस्या प्र० । पत्तिः स्या भा० ॥ १० चे तत्रा य० । वेक तत्रा भा० ॥ ११ स्य धेनु य० ॥ १२ व्यविधा य० ॥ १३ व्य प्रति य० ॥ १४० ॥ १५ न्यस्तन्यायासंभवं च य० । 'न्यत्तन्याय्यासंभवं च भा० ॥ १६ नार्थोक प्र० ॥ १७ रनिर्देश्यं भा० ॥ १८ विशेषाक्रमेण प्र० ॥ १९ नवग्निं॰ पा० डे० लीं० । नग्नि भा० ॥ २० पशुबंधादी भा० ॥ २१ व्यता कर्तव्यतां य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy