________________
अग्निहोत्रं जुहुयादित्यत्र दोषाः] द्वादशारं नयचक्रम् क्रियाविधाय्यपि शास्त्रं नावतिष्ठतेति तत्प्राप्यपुण्याद्यभावः, यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इति विधेरप्रसिद्धार्थविषयविधायितयाऽसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभाव आरोग्यार्थिडित्थभक्षणोक्तिवत् ।
अथोच्येत-कर्तव्यतां विधाय इतिकर्तव्यताविधानात् 'एवम्प्रकारमेवाग्निहोत्रं नाम कर्म भवति' इति प्रसिद्धं भविष्यति तस्येतरार्थाविचारेण । त्वनवस्थाने जगत्तत्त्वस्य प्रमाणविचारस्य वा क्रियाविधाय्यपि शास्त्रं नावतिष्ठेत, तस्यापि लोकतत्त्वान्वेषणात्मकत्वानतिवृत्तरप्रमाणत्वात् । इतिशब्दो हेत्वर्थे, अयं हेतुः ‘क्रियाविधायिशास्त्रानवस्थानात्' इति, अतस्तत्प्राप्यपुण्याद्यभावः, क्रियाविधायिशास्त्रोपदिष्टक्रियाभिव्यङ्ग्यापूर्वाभाव इत्यर्थः । कतमत् पुनस्तत् क्रियाविधायि शास्त्रम् ? उच्यते, यथा- 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्येतच्छास्त्रम् । इदं तु पुनः किं विधिः, अनुवादः, अर्थवादः ? उच्यते - विधिः । कथमुपलक्ष्यते विधिरिति ? अप्रसिद्धार्थ-10 विषयविधायितया लक्ष्यते । अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयते, स्वर्गस्य सुखसंज्ञस्य तत्प्राप्त्याश्रयस्य विशिष्टदेशाद्यात्मकस्य वा तदभिलाषस्य च कर्तरि सिद्धत्वात् 'स्वर्गावाप्तावुपायोऽग्निहवनम्' इत्युपायस्यापूर्वत्वात् । कथं पुनस्तक्रियाभिव्यङ्ग्यापूर्वाभावः ? त्वन्मतादेवोक्तवत् । इतश्च तर्कोथापितलोकतत्त्वज्ञानानपेक्षत्वात् तस्य विधेरसंव्यवहार्यत्वम् , असंव्यवहार्यत्वात् तद्विहितक्रियाफलसम्बन्धाभावः, दृष्टान्त आरोग्यार्थिडित्थभक्षणोक्तिवत्, यथा आरोग्यार्थिने पुंसे 'डित्थं भक्षय' इत्युक्तिस्तक्रिया च वि-15 फले अप्रसिद्धत्वादेवं त्वदुक्तिक्रिये अशक्यप्राप्त्यर्थे चेत्यशक्यप्राप्त्यादिमत्साङ्ख्या दिविवेकयत्नतुल्यत्वं तवापि । . अथोच्यतेत्यादि । अत्राह – मा मंस्थाः साङ्खयादियत्नतुल्यत्वमेतस्य, किं कारणम् ? वैधात् , ८५-१ तद्यथा- कर्तव्यतां विधाय इतिकर्तव्यताविधानात् , तत्र 'अग्निहोत्रं जुहुयात्' इति कर्तव्यतयाग्निहोत्रं विधीयते, ततः पुनरुत्तरत्र विशेष्य इतिकर्तव्यता विधीयते तदग्निहोत्रमेवमेवं च कर्तव्यम्' इति यद्यथाग्निष्टोमादिसंस्था विशेषैर्द्रव्य-गुण-देवता-कर्तृ-काम-काल-देशादिविशेषैश्च, वसन्ते ब्राह्मणो यजेत, 20 ग्रीष्मे राजन्यः, शरदि वाजपेयेन वैश्यः । "होलाका प्राच्यैः, उदृषभयज्ञ उदीच्यैः [
]। . १'माणात् प्र०॥ २ स्थाना इति य० । स्थान इति भा० ॥ ३ “अमौ ज्योतिर्कोतिरना इत्यग्निहोत्रं जुहुयात् , एतद्वै वाचस्सत्यम्.....। द्वादश रात्रीरग्निहोत्रं जुहयाद् या वा अग्नेर्जातवेदास्तनूस्तयैष प्रजा हिनस्ति ।" इति कृष्णयजुर्वेदस्य काठकसंहितायाम् ६१७ । “यस्याहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेत् तत एव प्राञ्चमुद् धृत्यान्ववसायाग्निहोत्रं जुहुयात् , अथाभिमन्त्रयेत ।" इति कृष्णयजुर्वेदस्य मैत्रायणीसंहितायाम् १।८८॥ ४ इदं पुनः भा० ॥ ५ देवो २० ही० विना० ॥ ६ स्थापितलोकतत्त्वाज्ञानाप्र०॥ ७ हार्यत्वात् तद्विहित य० ॥ ८°र्थिनि पुंसि य० ॥ ९त्वयुक्त क्रिये प्र०॥ १० आग्न जुहयात् प्र०॥ ११ पुनपुर वि० पा० २० ही०॥ १२ विशेषेति य० ॥ १३ त्रमेवं रेवं च यः । तमेवं च भा०॥ १४ कर्तृकामाकाला डे० लीं । कर्तृकार्मकला पा० वि० २० ही० । कर्तृकाल भा० ॥ १५ “ब्राह्मणो वसन्त आदधीत, ब्रह्म हि वसन्तः । तस्मात् क्षत्रियो ग्रीष्म आदधीत, क्षत्रं हि ग्रीष्म । तस्माद्वैश्यो वर्षासु आदधीत, विड् हि वर्षाः ।" इति शुक्लयजुर्वेदसम्बन्धिनि शतपथब्राह्मणे २।१।३५ । “वसन्तो ब्राह्मणस्याधानक.लः । ग्रीष्मो हेमन्तश्च राजन्यस्य । शरद्वैश्यस्य ।" इति कृष्णयजुर्वेदसम्बन्धिनि सत्याषाढश्रौत्रसूत्रे ३॥२॥ १६ वाजयेत य० ॥ १७ होलाको प्रान्यैः भा० । होलाको प्राज्ञः य० । “तस्माद् होलाकादयः प्राच्यैरेव कर्तव्याः, आह्रीनै त्रुकादयो दाक्षिणात्यैरेव, उद्वृषभयज्ञादय उदीच्यैरेव"-शाबरभा० १।३.१५ । "होलाकादयः प्राच्यैरेव क्रियन्ते । वसन्तोत्सवो होलाका ।....."उषभयज्ञादय उदीच्यैः, ज्येष्ठमासस्य पौर्णमास्यां बलीव नभ्यर्य धावयन्ति सोऽयमृदृषभयज्ञः"-इति जैमिनीयन्यायमालायाः सायणमाधवीये भाष्ये १।३।८।१५-२३ ॥
नय०१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org