________________
१२०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [द्वितीये विधिविध्यरे वचनयोरन्यथानुपपत्तेः । उपदेशाप्रसिद्धिरपि चैवं भवतः, सर्वस्योपदेशस्य साङ्ख्याधुपदेशवल्लोकतत्त्वान्वेषणादृते सम्भवाभावात् । तस्यापि त्वनवस्थाने
औषधोपदेशाज्ञानवदग्निहोत्राद्युपदेशाज्ञानम्', तज्ज्ञानवत् तदपि वा प्रमाणान्तरगम्यमिति । एवं तावत् क्रियोपदेशमभ्युपगम्य दोष उक्तः । 5 अनभ्युपगम्यापि उपदेशाप्रसिद्धिरपि चैवं भवतः, त्वन्मतेनैवेति वाक्यशेषः, सर्वस्योपदेशस्य साङ्ख्याधुपदेशवल्लोकतत्त्वान्वेषणाहते सम्भवाभावात् , उपदेशो व्याख्या, असौ च व्याख्या पदविषया वाक्यविषया प्रमाणविषया तद्विषयवस्तुविषया वा वेदव्याकरणसाङ्खयादिशास्त्रविकल्पिता यथास्वं प्रक्रियाभिः । तत्र यथा साङ्खयादिप्रक्रिया भिर्वस्तुतत्त्वं घटादेर्लोकतत्त्वान्वेषणपरया व्याख्यया विना नाधिगम्यतेऽतस्तथा व्याख्यायते एवमग्निहोत्रादि संज्ञासंज्ञिसम्बन्धव्युत्पादनेन व्याख्यायते, प्रकृतिप्रत्ययादि10 विभागेन पदविषयं वाक्यविषयं प्रमाणविषयं च प्रत्यक्षानुमानागमबाधाभ्युच्चयविकल्पाङ्गाङ्गिभावविकल्पादि
लोकतत्त्वान्वेषणमन्तरेण नाधिगन्तुं शक्यमित्युपदेशस्तत्त्वान्वेषणपरः सर्वः प्रवर्तते । तत्र यथा साङ्ख्याद्युप८४-१ दिष्टार्थेष्वशक्यप्राप्तिरुपदेशानर्थक्यं च तथा वेदव्याकरणमीमांसाशुपदेशानामपीत्युपदेशाप्रसिद्धिः । अथ
लोकतत्त्वान्वेषणपराणां तेषामुपदेशानां शक्यप्राप्त्यर्थोपदेशसाफल्ये शक्येते, कः पराभ्युपगमे प्रद्वेषः ? इहापि च यथा लोकत एव प्रत्यक्षानुमानगम्यघटपटादितत्त्वपरिच्छेदः शक्यते कर्तुमेवं पदवाक्थप्रमाणपरि15 च्छेदोऽपि शक्यः, घटादिपाच्छब्दार्थप्रत्ययविषयस्य लोकत एव वर्णानुपूर्व्यादिनियतवाच्यवाचकप्रत्ययाव्यभिचारस्य प्रसिद्धेः । एवं वाक्ये प्रमाणे चे योज्यम् । उक्तं च- .
प्रमाणानि प्रवर्तन्ते प्रमेयैः सर्ववादिनाम् ।
संज्ञाभिप्राय भेदात्तु विवदन्ते तपस्विनः ॥ [सिद्ध० द्वा० २०१४ ] इति । तस्मादुपदेशानां त्वन्मतेनैव सर्वेषामप्रामाण्यसिद्धिः, लोकतत्त्वान्वेषणपरत्वे सति अशक्यप्राप्त्यफलत्वेना20 भ्युपगतत्वात् , साङ्खयादिशास्त्रकारोपदेशवत्। अतो दृष्टादृष्टार्थक्रियोपदेशे पदवाक्यप्रमाणविषयविषयव्याख्या
वैयर्थ्यप्रसङ्गान्न वेदशास्त्रोपदेशसिद्धिलॊकतत्त्वान्वेषणपरत्वानतिवृत्तेः, तर्कशास्त्रवाच्यलोकतत्त्वविचारविज्ञानसाफल्यं वा । उपदेशाप्रसिद्धौ परीक्षकत्वहानिः, पदवाक्यप्रमाणविषयविषयाव्यभिचारज्ञानार्थत्वात् परीक्षायाः । परीक्षैव चोपदेशः, परीक्षाव्याख्ययोरनन्तरत्वात् । स चोपदेशस्त्वन्मतेनैवैवं नावतिष्ठते,
लोकतत्त्वान्वेषणात्मकत्वात् । 25 स्यान्मतम् - पदवाक्यप्रमाणानामपि सामान्यविशेषादिघटादिजगत्तत्त्वविचारवदव्यवस्थैव, प्रमाणा
नामपि प्रमाणान्तराधिगम्यत्वेऽनवस्थादोषप्रसङ्गादिति । अत्रोच्यते - प्रमाणानवस्था तावन्नास्ति, चन्द्रार्क८४-२ मणिप्रदीपादिवत् स्वपरावभासित्वात् प्रमाणानाम् । पदादीनामभ्युपगम्यापि त्यन्मतेनाऽनवस्थामाह - तस्यापि
१गमस्यापि य०॥ २ षया वा प्रमा भा०॥ ३ तद्वस्तुविषया य० ॥ ४ यादिर्वस्तु प्र० ॥ ५ व्याख्याया प्र०॥ ६ म्यते इतप्र० ॥ ७ साफलो वाक्येते प्र० ॥ ८°दात् शब्दार्थि य० । दाशब्दार्थ भा०॥ ९चायोज्यम् भा०॥ १० दृश्यतां पृ० ४६ पं० २२ । "प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् ।"-सिद्ध०द्वा०॥ ११ णविषयव्याख्या प्र० । दृश्यतां पृ० १२० पं०७॥ १२°णविषयाव्यभिभा० २० ही । दृश्यतां पृ० १२० पं०७॥ १३ नावस्था य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org