________________
विधिवादिमीमांसकमते दोषाः] द्वादशारं नयचक्रम्
उपदेशादेव तज्ज्ञानयोग इति चेत्, न, उभयथापि पौरुषेयत्वाद्वेद
कालातुरप्रकृतिसात्म्याग्निबलाबलवातादिरोगसमुत्थाननिदानादिलक्षणानभिज्ञस्यौषधोपदेशो न घटते तथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्याद्युपदेशः । अथवा हिताहितप्राप्तिपरिहारार्थत्वात् सर्वोपदेशानां तदभावात् क्रीडितमेवास्त्वितीदं बालकाहिग्रहणवत् तज्ज्ञानविरहितस्योपदेशश्रवणग्रहणधारणतर्कणानुष्ठानादि अनर्थानुबन्ध्येव स्यादितीदमर्थप्रदर्शनार्थं द्वितीयमुदाहरणम् ।
उपदेशादेव तज्ज्ञानयोग इति चेत् । स्यान्मतम् - पुरुषस्यातीन्द्रियार्थदर्शनशक्तिशून्यत्वात स्वर्गापूर्वकर्मसम्बन्धज्ञाने पूर्वविज्ञानकारणाभावाद्वन्ध्याया दौहित्रस्मरणवत् । द्रव्य-गुण-रस-वीर्य-विपाकादिज्ञानस्यानुमानं पूर्वविज्ञानकारणं सम्भाव्येत । तस्मादुपदेशादेवाग्निहोत्रकर्मस्वर्गफैलाभिसम्बन्धादिज्ञानमिति । एतच्चायुक्तम् , उभयथापि पौरुषेयत्वात् , दृष्टादृष्टार्थत्वेनोपदेशज्ञानस्यापि पौरुषेयत्वात् , ज्ञानतो बैंचनतश्च पुरुषाधीनत्वादिति वा; यथा त्वमतीन्द्रियेष्वर्थेषु पूर्वविज्ञानकारणाभावं मन्यसे पुरुषस्य 10 पुरुषज्ञानवचनानां तद्विषयाणां चाप्रामाण्यं रागादियोगात्तथा सर्वोपदेशस्योपदेष्ट्रज्ञानस्य श्रोतृज्ञानवचनयोश्च ज्ञानत्ववचनत्वाभ्यां पौरुषेयत्वानतिवृत्तेर्भारतरामायणादिवदप्रामाण्यम् । अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् साङ्ख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा । वानरमूलिकादिपरिज्ञानवत् कस्यचित् किञ्चिद्विषयं तत्त्वज्ञानं स्यात्, न तु सर्वोषधादिविषयैकपुरुषज्ञानम् , अतो वैद्यकादिष्वपि पूर्वज्ञानकारणाभावः । तद्विषयैकपुरुषविज्ञानवतीन्द्रियेन्द्रियग्राह्यसर्वपदार्थविषयैकपुरुषविज्ञानाभ्युपगमो वावश्यम्भावी, किं कारणम् ? वेदवचनयोरन्यथानुपपत्तेः, पुरुषमन्तरेण वेदनं वेदो ज्ञानमित्यर्थः तेन च ज्ञातस्य वचनं परप्रत्यायन तदुभयं प्रत्ययनं प्रत्यायनं च नोपपद्यते, तयोः पुरुषसँमवायित्वात् । उक्तं च
रूपं निबन्धः सम्बन्धः प्रामाण्यं प्रत्ययः क्रिया। शब्दस्य पुरुषाधीना शानं चानन्यदात्मनः [ ] इति ।
B८३-२
१ बलवतोरोग य० ॥ २ णाभिज्ञ य० ॥ ३ बालकादिन य० ॥ ४ तर्कमान प्र०॥ ५ प्वानादि भा० । षानादि पा० वि० । धानादि २० ही। थानादि डे० ली० ॥ ६°हरणार्थमुपदेशादेव न ज्ञानयोग प्र०॥ ७°दर्शनां शून्यत्वात् य० ॥ ८ अत्र 'वर्गापूर्व कर्मसम्बन्धज्ञाने वन्ध्याया दौहित्रस्मरणवत् पूर्व विज्ञान कारणाभावात् उपदेशादेव तज्ज्ञानयोगः' इत्यर्थमभिप्रेत्य सङ्गमनीयोऽयं पाठः । अन्यथा 'पूर्वविज्ञानकारणाभावो वन्ध्याया दौहित्रस्मरणवत्' इति पाठः स्यात् । “धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात् । १।३।१ । .... शब्दलक्षणोऽर्थो धर्म इत्युक्तम् , चोदनालक्षणोऽर्थों धर्म इति, अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुः 'इत्थमसौ पदार्थः कर्तव्यः' इति कथमिव ते वदिष्यन्ति 'अकर्तव्य एवायम्' इति? स्मरणानुपपत्त्या । न ह्यननुभूतोऽश्रुतो वा. पदार्थः स्मर्यते । न चास्य वैदिकस्य अलौकिकस्य च स्मरणमुपपद्यते पूर्वविज्ञानकारणाभावादिति । या हि वन्ध्या स्मरेदिदं मे दौहित्रकृतमिति न मे दुहितास्तीति मत्वा न जातुचिदसौ प्रतीयात् सम्यगेतज्ज्ञानमिति"-मी० शाबरभा० १॥३॥१॥ ९ फलांभिसम्बय० । फलादिसम्बभा० ॥१० वचनश्च प्र०॥ ११ योगास्तथा प्र० ॥ १२ सर्वज्ञोप य० । अत्र सर्वस्योप इत्यपि पाठः स्यात् ॥ १३ पदेष्टशा वि० विना० । पदिष्टज्ञा वि० ॥ १४ वत् तस्यत्तद्विषयं य० ॥ १५ तत्तद्ज्ञानं वि० । तत्तइज्ञानं पा०॥ १६ दतीन्द्रियग्राह्य य०॥ १७ यनं च तदु य०॥ १८ समायित्वात् पा० डे० लीं० वि० । सामायित्वात् भा०॥ १९ रूपन्निबन्धः प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org