________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ द्वितीये विधिविध्यरे
प्रतिषेधप्रयासः ? क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, संसेव्यविषयखतत्त्वानुपातिपरिणामविज्ञानविरहितत्वात्, अवैद्यौषधोपदेशवद् बालकाहिग्रहणवत् ।
११८
ज्ञातत्वयोश्च तदोषाविमोक्षात् । सामान्यं स्वविषयं परविषयं चेत्थमित्थं च न युज्यते तथा विशेष इति प्रपश्चितत्वादज्ञातं 'चेत् तत् सर्वम्, अप्रत्ययत्वान्न प्रतिषेध इत्युक्तम् । ज्ञातं चेत् कथं ज्ञातुमशक्यं 5 लोकतत्त्वम् ? इत्यप्रत्ययमेव । स्वयमसमीक्षितवाच्यवाचक सम्बन्धत्वात् ते वचस उन्मत्तवदेव तावत् 'अशक्यं प्राप्तुं लोकतत्त्वम्' इत्युक्तम्, 'विप्रतिषेधात् ।
यदप्युक्तम्- अनर्थको विवेकयत्तः शास्त्रेष्विति, तत्रापि विप्रतिषेधात्, यदि तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? शास्त्रविहितार्थज्ञानं तत्प्रतिषेधोपायज्ञानं चावधार्यम् - किं सफलम् ? अफलम् ? यद्यफलं विज्ञानम्, शास्त्रविहितार्थान् प्रतिषिषेधिपतः A८३-२ प्रयासोऽप्यफल ऍवाज्ञातत्वात् पूर्ववत् । अथ सफलम् 'अफलमेव लोकतत्त्वज्ञानम्' इति व्याहन्यते । अतः को ह वैतद्वेद ? किं वाऽनेन ज्ञातेनें ? इत्येतदयुक्तमुक्तम्, विप्रतिषेधात् ।
10
यदप्युक्तं 'वस्तुतत्त्वाशक्यप्राप्तेः क्रियाया एवोपदेशो न्याय्यस्तत्पूर्वकत्वात् सुखावाप्तेः' इत्यत्रोच्यते - क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, 'विघटत एव' इति कथं निष्ठुरमुच्यते ? 'विघटेत ' 'वेति तत्सम्भावनयोच्यते दाक्षिण्यलोकज्ञानाभ्याम् । को हेतुर्विघेंटने ? "संसेव्यविषयस्वतत्त्वानुपाति15 परिणामविज्ञानविरहितत्वात् । 'सम्' इत्येकीभावे, आत्मसाद्भावेन सेव्यमानस्य विषयस्य स्वतत्त्वमाहारादेः शब्दस्पर्शरसरूपगन्धात्मकस्य स्वरूपं वातादिप्रकोपशमोपचयप्रलयावहम् -
नागरातिविषामुस्ताकाथः स्यादामपाचनः । [ चरकसं० ६६५/९८ ] इति ।
तत्तत्त्वानुपती परिणाँमः, तदनुपतितुं शीलमस्येति, किमुक्तं भवति ? आसेव्यमानस्य वस्तुनस्तत्क्रियात एव स्वरूपानुपातेन विपाकः परिणामः । तद्विज्ञानविरहितत्वम् । स इत्थं विपाकः सुखाय दुःखाय, वेत्येतद्विज्ञानं 20 हिताहितप्राप्तिपरिहारार्थम्, तत्तु भवतां नास्त्येव । अतस्तद्विरहितत्वात् क्रियोपदेशोऽपि 'अग्निहोत्रं जुहुयात् स्वर्गकामः, तण्डुलान् पचेोक्तुकामः' इत्यीं दिर्घष्टादृष्टार्थो न घटते, अज्ञातसंसेव्यवस्तु तत्त्वपरिणमत्वात्, अवैद्यौषधोपदेशवत्, यथा कस्यचिदविज्ञातरसवीर्यविपाकप्रभावद्रव्यगुणविशेषभागाभागसंयोगस्य देश१ चेत्तर्हि सर्वम् य० ॥ २ त्वाच भा० । त्वाच्च य० ॥ ३ ते नचस य० ॥ ४ विप्रति धात् यद्ययुक्तमनर्थको विवेकयतः शास्त्रेष्विति तत्रापि विप्रतिषेधात्तु तद् ज्ञानमफलमेव रं० ही ० डे० लीं० । विप्रतिषेधोपयुक्तमनर्थको विवेकयतः शास्त्रेष्विति तत्रापि विप्रतिषेधात् । यद्यप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्तु तद् ज्ञानमफलमेव पा० वि० ॥ ५ दृश्यतां पृ० ११ पं० ४ ॥ ६ च वधार्यम् भा० । च वधार्थम् य० ॥ ७ प्रतिषिधित्सतः भा० । प्रतिषेधित्सतः य० ॥ ८ एव ज्ञातत्वात् य० ॥ ९ को हं य० । दृश्यतां पृ० ११२ पं० ४ ॥ १० दृश्यतां पृ० ३५ पं० ४ ॥ ११ दृश्यतां पृ० ४५ पं० २ । १२ इति न संभावनयोच्यते प्र० ॥ १३ घटते य० ॥ १४ ससेव्य प्र० ॥ १५ यस्य तत्त्वमा प्र० ॥ १६ पाति य० ॥ १७ णामतद पा० रं० ही ० । णामं तद डे० लीं० । णामविज्ञानतद वि० ॥ १८ ततु भा० । ननु य० ॥ १९ दिर्घप्रार्थी प्र० ॥ २० 'तसंवेव्य भा० । तवैव्यद्य प० । 'वैव्य' डे०ली० । 'तवैश्यद्य रं० ही ० । तवैधव्य वि० ॥ २१ णामवान् य० ॥ २२ भागसंयो भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org