________________
ॐ अहम्
अथ द्वितीयो विधिविध्यरः । अयमपि तु विधिवृत्त्येकान्तो विप्रतिषेधादयुक्तः । तद्यदि लोकतत्त्वमज्ञेयमेव लोकतत्त्वव्यावर्तनं तहप्रत्ययमेव । यदि तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थ
___ अयमपि तु विधिवृत्त्येकान्तो विप्रतिषेधादयुक्त इति । कः पुनः सम्बन्धः ? स्वविषय-5 सैम्पातनेनार्थानां भावनात्मभिर्विधिनियमवृत्तिभिर्विदितप्रत्येकतत्त्वाभिः समधिगम्या जैनसत्यत्वसाधनवृत्ता विवक्षितद्वादशविकल्पविशेषणैकैव वृत्तिरधिकृतेत्यनन्तरोक्ताया विधिवृत्तेरपि प्रत्येकवृत्ताया मिथ्यादृष्टित्वादयमपि तु विधिवृत्त्येकान्तस्त्याज्यः । कस्मात् ? अयुक्तत्वात् , अयुक्तत्वं विप्रतिषेधात् । विरुद्धैः प्रतिषेधो विप्रतिषेधः, 'सर्वमुक्तं मृषा' इति प्रतिषेधवत् । अपिशब्दात् सामान्यविशेषोभयवादैकान्तः प्रथमनयदूषितोऽनुमत इत्ययमभिसम्बन्धः।
10 ___कथं विप्रतिषेध इति चेत्, उच्यते - यदुक्तं त्वया 'सर्वमज्ञानानुविद्धमेव शानम् , ने च शानाज्ञानयोः कश्चिद्विशेषोऽस्ति संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वात् , न लोकतत्त्वं ज्ञातुं शक्यम् , विफैलश्च विवेकयत्नः शास्त्रेषु' इति । तद्यदि लोकतत्त्वमज्ञेयमेव सर्वशास्त्रविहितलोकतत्त्वव्यावर्तनं तप्रत्ययमेव अशक्यप्राप्त्यफलत्वाभ्याम् , प्रतिषेधस्य प्रतिषेध्य-1.. स्वरूपज्ञानविषयत्वाच्च किं त्वयैवेदं विदित्वाऽविदित्वा वा सामान्यविशेषौ स्वविषयौ परविषयौ वा 15 स्यातामित्यादि लोकतत्त्वं शास्त्रान्तरेषु कल्पितं दूषितम् ? विदित्वा चेत्, न तर्हि तन्मतं न विदितम् । अथाविदित्वा ततः कथं दूषितम् ? इत्युभयथापि न युज्यते प्रतिषेधो विरुद्धत्वात् , प्रतिषिध्यते 'प्रतिषेध्यं च न ज्ञायत इति हास्यमेतत् । स्यान्मतम् - प्रतिषेध्यं ज्ञायते, "तैस्तस्य वस्तुनः सत्त्वादिगुणत्रयात्मकक्षणसद्रूप-द्रव्यादिषटुदार्थात्मकादितया बहुधा कल्पितस्यानुपपत्तेरिति । एतदपि विप्रतिषिद्धम् , तेषामपि मतानां 'लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यात् ? इति तुल्यविकल्पत्वात् , ज्ञाता- 20
१कान्तो पिप्रति प्र०॥ २ संघात प्र०॥ ३ भावानान्मभि पा० डे० लीं० २० ही० । भावानात्मभि वि० । दृश्यतां पृ० १० ५० ५॥४वृत्तिभिविदित पा० डे० लीं । वृत्तिभिरविदित २० ही० । वृत्तिभिरनेकान्तविदित वि० ॥ ५ तत्ताभिः य० ॥ ६ °षेणैकैव प्र० ॥ ७°द्धप्रति प्र० ॥ ८ दृश्यता पृ० ११३ पं० ३ ॥ ९ दृश्यता पृ० ११३ पं० ६॥ १० दृश्यतां पृ० ११ पं० ४॥ ११ यमेवमशक्य प्र० ॥
प्रतिषेध्यस्वरूप य० ॥ १३ वेदित्वा प्र०॥ १४ दृश्यतां पृ० ११ पं०५॥ १५ प्रतिषेधं य० ॥ १६ तैःस्तस्य य० । ॥तेस्य भा०॥ १७ क्षणतद्रूप य० । 'क्षणद्रूप भा०॥ १८ द्धस्तेषामपि य० । द्धः षेमपि भा० ॥ १९ लोकसत्वान्तः प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org