________________
प्राक्कथनम्
शतार[नय]चक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहश्रद्धासंवेगश्रवणधारणादिशक्तीनां श्रवणमेव तावद् दुर्लभम् , श्रुत्वापि तत्त्वावबोधः, बुद्धा तत्त्वमन्य(प्य?)स्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो दुर्लभः, सत्यप्यादरे ग्रन्थार्थसंस्मरणं तदुद्ाहणमुद्राहितार्थप्रतिपादनं चात्यन्तखेदायेति मत्वा तत्खेदखिन्नान् विस्तरग्रन्थभीरून् संक्षेपाभिवाञ्छिनः शिक्षकजनाननुग्रहीतुं 'कथं नामाल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छेतपटमल्लबादिक्षमाश्रमणेन विहितं स्वनीतिपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सकलभरतविजयवासिनृपतिविजिगीषुचक्र विजयिनेव भरतचक्रवर्तिना देवतापरिगृहीताप्रतिहतचक्ररत्नेन वपुत्रपरम्परानुयायिजगद्यापिविपुल विमलयशसा चक्ररत्नमिव तदिदं नयचक्ररत्नं चक्रवर्तिनामिव चक्ररत्नं पुत्रपौत्रादिनृपतीनां विहितं कृतम् । किमर्थमिति चेत् , उच्यते-चक्रवर्तिनामिव चक्रवर्तित्वविधये । वादिनां जैनानां जिनशासनप्रभावनाभ्युद्यतानां वादिचक्रवर्तित्वविधये 'वादिचक्रवर्तित्वं विधेयात्' इत्येत(व)मर्थमित्येतस्य नयचक्रशास्त्रस्य विधाने प्रयोजनमभिहितम् । तदेतदेवं द्वादशारनयचक्रं सिद्धं प्रतिष्ठितमव्याहतं चक्रवर्तिचक्ररत्नवदेव अन्याविप्रधृष्याचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तं च सिद्धम् ।"..
भगवतो मल्लवादिनो जीवनवृत्तान्तः ... मल्लवादिजीवनवृत्तविषयिकाः संस्कृत-प्राकृतभाषानिबद्धा बह्वयः कथा उपलभ्यन्ते । विस्तरेण ताः कथावली-प्रभावकचरितादिभ्योऽवगन्तव्याः । अत्र तु प्राचीनकथानां कश्चित् सार एव संक्षेपेण प्रदर्श्यते
.१ "आत्मज्ञानादिभेदानामानन्यं नयचक्रतः ॥ ७७ ॥” इति अकलङ्कदेवप्रणीते प्रमाणसंग्रहे । “इति मूलनयद्वयशुद्धयशुद्धिभ्यां बहुविकल्पा नया नयचक्रतः प्रतिपत्तव्याः पूर्वपूर्वा महाविषया उत्तरोत्तरा अल्पविषयाः शब्द विकल्पपरिमाणाश्च ।"-अष्टसहस्री पृ. २८८ । “संक्षेपेण नयास्तावद् व्याख्यातास्तत्र सूचिताः । तद्विशेषाः प्रपञ्चेन सञ्चिन्या नय चक्रतः ॥"-तत्त्वार्थश्लोकवार्तिक. पृ० २७६ । “इष्टं तत्त्वमपेक्षातो नयानां नयचक्रतः ॥ [न्यायविनिश्चय. ३ । ९१] ॥ तदेतेषां सप्तविकल्पानामवान्तर विकल्पादनेकप्रकाराणां नयानामपेक्षातः प्रतिपत्रौदासीन्यलक्षणयाऽपेक्षया तत्त्वं श्रुतविकल्पत्वेन प्रमाणत्वमिष्टमभ्युपगतम् , अन्यथा दुर्नयत्वेन तदनुपपत्तेः । तच्च तेषां तत्त्वं विस्तरतो नयचक्रतः तन्नामधेयचिरन्तनशास्त्रात् प्रतिपत्तव्यम् ।” इति न्यायविनिश्चय विवरणे पृ० ३६६ -३६७।-इत्येवं दिगम्बरजैनग्रन्थेष्वपि नयचक्राभिधस्य चिरन्तनशास्त्रस्योल्लेखाः प्राप्यन्त इत्यपि ध्येयम् ॥ २ प्रायो विक्रमीयद्वादशशताब्द्या उत्तरार्धे विद्यमानैर्भद्रेश्वरसूरिभिर्विरचिते प्राकृतभाषामये कहावलीनामके ग्रन्थे, विक्रमसंवत् १३३४ वर्षे प्रभाचन्द्रसूरिभिर्विरचिते प्रभावकचरिते मल्लवादिप्रबन्धे [ श्लो० १-७५], विक्रमसंवत् १३६१ वर्षे वैशाखपूर्णिमायां वर्धमानपुरे श्रीमेरुतुङ्गाचार्य रचिते प्रबन्धचिन्तामणौ प्रकीर्णकप्रबन्धे मल्लवादिप्रबन्धे, विक्रमसंवत् १४०५ वर्षे राजशेखरसूरिभिर्विरचिते प्रबन्धकोशे मलवादिचरिताख्ये सप्तमे प्रबन्धे [ श्लो. १-६९ ], विक्रमसंवत् १४२२ वर्षे सङ्घतिलकाचार्यविरचितायां सम्यक्त्वसप्ततिवृत्तौ वादिप्रभावकवर्णने प्राकृतभाषामये मलवादिचरिते [ श्लो० १-८७ ] च मल्लवादिचरित्रं तावदुपलभ्यते । एतेषु सर्वेषु कहावलीग्रन्थस्य प्राचीनत्वादद्यावधि अमुद्रितत्वाच्च कहावलीग्रन्थत उद्धृत्य मल्लवादिचरितमत्रोपन्यस्यते
"वायसमाणत्था य सामण्णओ वाइ-खमासमण-दिवायरा । भणियं च‘वाई य खमासमणो, दिवायरो वायगो त्ति एगो(ग)ट्ठा उ । पुव्व-गयं जस्सेसं(म) जिणागमे तम्मि(स्सि)मे नाम ॥'
विसेसओ पुण पुव्वगयं वाउ(इ)ता जो वायं दाउं समत्थो, सो वाई ‘नाम जहा मल्लवाइ ति मल्लवाय(इ)कहा भण्णइ
भरुयच्छे जिणाणंदो नाम सूरी । तहा तत्थेव बुद्धाणंदो नाम वाई । तेण य 'जो वाए पहारिस्सइ, तद्दरिसणे[णे]ह न चिठ्ठव्वयं' ति पइण्णाए दिण्णो दि(जि)णाणंदसूरिणा सह वाओ। तहा[भ] वियव्वयाए. पहारियं सूरिणा। तओ सो नीसरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org