________________
१०
नयचक्रस्य
सङ्कल्पयामः । तत्रास्मिन् प्रथमे विभागे आद्यमरचतुष्टयं प्रकाश्यते । द्वितीये तु विभागेऽवशिष्टं समग्रमपि नयचक्र प्रकाशयिष्यते।
- ग्रन्थाभिधानम् - विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् ।
..... जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ .. इति यत् पूर्वश्रुतसम्बद्धनैयप्राभृतांशभूतं सङ्क्षिप्तमप्यतिगभीरा) गाथासूत्रं यच्च तद् व्याख्यातुं मल्यादिक्षमाश्रमणैर्विरचितमतिविस्तृतं भाष्यमेतदुभयमपि 'नयचक्रम्' इत्याख्यायते । द्वादशारनिबद्धत्वाद् द्वादशारनयचक्रनाम्नोल्लेखस्य क्वचिद् दृश्यमानत्वेऽपि 'नयचक्र'नाम्नैवास्य प्राधान्येन प्रेसिद्धिः ।
__ आचार्यश्रीमल्लवादिक्षमाश्रमणानां परिचयः नयचक्रकार आचार्यश्रीमल्लबादिक्षमाश्रमणा जैनदार्शनिकेषु महावादित्वेन तार्किकशिरोमणित्वेन च परां प्रसिद्धिमुपगताः । याकिनीमहत्तरासूनुभिराचार्यश्रीहरिभद्रसूरिभिरनेकान्तजयपताकाखोपज्ञवृत्तौ " उक्तं च वादिमुख्येन श्रीमल्लवादिना" [ पृ. ५८, ११६ ] इति वादिमुख्यत्वेन वर्णितत्वात् , कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रसूरिभिः सिद्धहेमशब्दानुशासने “उत्कृष्टेऽनूपेन" [२।३।३९] इति सूत्रस्य बृहद्वृत्तौ "अनु मल्लवादिनं तार्किकाः" इत्युदाहरणेन मल्लवादिनस्तार्किकेफूत्कृष्टतायाः प्रतिपादितत्वात्, जिनेश्वरसूरिभिः प्रमालक्ष्मवृत्तौ "अत एव श्रीमन्महामल्लवादिपादैरपि नयचक्र एवादरो विहितः" [पृ. ८९] इत्यभिहितत्वाद् जिनप्रवचनस्याष्टसु प्रभावकेषु वादिप्रभावकतया सङ्कतिलकाचार्य-वाचकवरश्रीयशोविजयोपाध्यायादिभिः संस्तुतत्वादन्यैरपि च बहुभिर्ग्रन्थकारैस्तत्र तत्र वर्णितत्वाच्च मल्लवादिक्षमाश्रमणानां महावादित्वं तार्किकचक्रचक्रवर्तित्वं च स्पष्टमेव प्रतीयते । ... नयचक्रवृत्तेः प्रान्तभागे दृश्यमानोल्लेखानुसारेण तेषां श्वेताम्बरत्वं क्षमाश्रमणत्वं विजितानेकवादित्वं तत्प्रणीतद्वादशारनयचक्रस्य प्राचीनसप्तशतारनयचक्राध्ययनानुसारित्वं च स्फुटमेव प्रतीयते । तथाहि____" अधुना तु शास्त्रप्रयोजनमुच्यते-सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति-नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीतनैगमादिप्रत्येकशतसंख्यप्रभेदात्मकसप्तनयशतारनयचक्राध्ययनानुसारिषु तस्मिंश्चार्षे सप्तनय
१ पृ. ९ ॥ २ “पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्ट श्लिष्टार्थकणिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सहिप्तार्थ गाथासूत्रम्" [पृ० ९ पं० ४-५] इति स्वयं मलवादिन उल्लेखदर्शनाद् मल्लवादिकथानकेष्वपि सर्वेषु 'प्राचीननयचक्रस्थां विधिनियमभङ्गवृत्तीत्यादिगाथामवलम्ब्य मलवादिना नव्यं नयचक्र प्रणीतम्' इत्युल्लेखदर्शनाच विधिनियमभङ्गवृत्तीत्यादिगाथा प्राचीनागमगता तद्भाष्यं तु मलवादिप्रणीतमिति प्रतिभाति । एवं सत्यपि भाष्यस्यात्र प्रधानभूतत्वाद् 'विधिनियमभनवृत्ती'त्या दिगाथाया भाष्यमध्यपतितत्वाच्च सगाथासूत्रस्य भाष्यस्य मलवादिप्रणीतत्वेन प्रसिद्धौ न कश्चिद् दोषः । अत एव “आह मल्लवादी विधिनियमभङ्गवृत्ति..... वैधर्म्यम् ॥” इति न्यायावतारवार्तिकवृत्ती [ पृ० ११२] शान्तिसूरीणाम् “उक्तं च मल्लवादिना-विधिनियमभङ्गवृत्ति ......वैधर्म्यम् ॥” इति उत्पादादिसिद्धेः खोपज्ञवृत्तौ [पृ. २२२] चन्द्रसेनसूरीणां चाभिधानमपि सङ्गच्छते । दृश्यता टिपृ० १३ पं०२-१४ । अन्ये वाहुः-गाथासूत्रमपि मलवादिनैव प्रणीतम् , अर्थतो नयप्राभृतानुसारित्वात्तु पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गा. गमप्रभ्रष्टश्लिष्टार्थकणिकमात्रत्वं तस्योपपादनीयम् , एवं च शान्तिसूरीणां चन्द्रसेनसूरीणां च वचनमपि यथावत् सङ्गच्छत इति । किन्त्वस्मिन् मते गाथासूत्रस्य प्राचीनग्रन्थान्तर्गतत्ववर्णनपराणां मलवादिकथानकानां कथमपि सङ्गतिर्नोपजायत इति ध्येयम् ॥ ३टिपृ० १२ पं० १३-२८॥ ४भाष्यत्वेनास्य निर्देशः पृ० २८७ पं. ९ पृ० २९७ पं० १५ पृ० ३००. पं० ९. पृ० ५४१ पं० १२ इत्यादिषु द्रष्टव्यः ॥ ५ दृश्यतां टिपृ० १५०११-१५ टि०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org