________________
प्राक्कथनम्
नयचक्रवृत्तेरतिविशिष्टायाः प्रतेरवाप्तिः
तदनन्तरमितस्ततो भृशं गवेषयद्भिरस्माभिर्नयचक्रवृत्तेरेकाऽतिदुर्लभाऽतिविशिष्टा च प्रतिरपि लब्धा । सा हि धर्ममूर्तिसूरीणामुपदेशेन गोविन्दमन्त्रितनुजेन पुञ्जन लेखिता सम्प्रति भावनगरस्थे ' श्रेष्ठ डोसाभाई अभेचंदनी पेढी'सत्के ज्ञानभाण्डागारे विद्यतेऽतोऽस्माभिरत्र भा० इति संज्ञिता । उपाध्याय श्रीयशोविजयवाचकै - नयचक्रवृत्तेरादर्शो विक्रमसंवत् १७१० वर्षे लिखितः । धर्ममूर्तिसूरिभिस्तु वि. सं. १६५० निकटवर्षे लेखितेयं प्रतिः । अतो यशोविजयवाचकलिखितादादर्शात् षष्टिप्रायैर्वर्षैः प्राचीनायामस्यां भा० प्रतौ यशोविजयवाचकवरविरचितादर्शमवलम्ब्य लिखितासु पा० डे० लीं० वि० रं० ही० प्रतिष्वविद्यमाना बहवो विशुद्धाः पाठा अस्माभिर्लब्धाः । बहुत्र गवेषिताप्यस्माभिः भा० प्रतेराधारभूता प्रतिः कचिदपि न लब्धा, न वा भा० प्रतिमवलम्ब्य लिखितापि काचित् प्रतिर्दृष्टा; अत ईदृशी एकैव प्रतिरस्मिन् जगति सम्प्रति विद्यते इति वयं सम्भावयामः । अन्यासु सर्वास्वपि प्रतिष्वलभ्यमानाः परः सहस्राः शुद्धपाठा अनेकाश्च पङ्कयो भा० प्रतौ विद्यन्ते । एतच्च भा० प्रतेरितरप्रतिभ्यो वैशिष्ट्यं पुरस्तात् प्रतीनां परिचये विस्तरेणोपदर्शयिष्यामः । एवं महता पुण्योदयेनेदृश्या अतिदुर्लभायाः प्रतेरवाप्त्यैव नयचक्रवृत्तेः संशोधनं सामञ्जस्येन कर्तुं वयमपारयाम । अतीतेषु सप्तसु वर्षशतेष्वपि मल्लवादिरचितनयचक्रस्य लुप्तप्रायत्वात् सम्प्रत्यपि बहुशो गवेषितस्यापि कुत्रचिदनुपलम्भाच्च नयचत्रवृत्तिमनुसृत्य तदन्तर्गतान् नयचक्र मूलप्रतीकान् संयोज्य नयचक्रमूलमस्माभिः सङ्कलयितुं प्रारभ्यत ।
प्रकाशनायोपक्रमः
एवं बहूनि वर्षाणि नानाविधान् ग्रन्थानवगाह्य परिशील्य च सततं षोडशभिर्मासैः सवृत्तिकस्य नयचक्रस्य मुद्रणप्रायोग्य आदर्श: [ प्रेसकॉपी ] मया स्वयमेवालेखि । तदनन्तरमादर्शो मुद्रणाय प्रेषितः । किन्तु प्रकृत्यस्वास्थ्यादयो नानाविधा विघ्ना अन्तरा समुपस्थिताः । उपयुक्तसामग्रीसञ्चयेऽपि भूयान् कालो व्यतीतः । मुद्रणालये मुद्रणेऽपि भूयान् विलम्बः सञ्जातः । सप्तारमुद्रणानन्तरं टिप्पणपरिशिष्टनिर्माणमपि द्राघीयसा कालेन निष्पन्नम् । इत्याद्यनेककारणवशादस्य प्रकाशनं चिरतरं विलम्बितम् । अस्य द्वादशसु अरेषु अरचतुष्टयात्मकः प्रथमो विभागः सम्प्रति प्रकाश्यते । अवशिष्टानप्यरान् सम्यक् टिप्पणादिभिरलङ्कृत्य शीघ्रतरमेव प्रकाशयितुमाशास्महे ।
विभागयोजना
इदं तु ध्येयम्–द्वादशारमिदं नयचक्रं त्रिमार्गम् । मार्गो नेमिरित्यनर्थान्तरम् । अतश्चतुर्षु चतुर्ष्वरेष्वेको मार्गः परिसमाप्यते । एवं च त्रिभिर्विभागैर्ग्रन्थोऽयं प्रकाशनीय इत्यस्माकं प्राग् मनीषाऽभूत् । किन्तु तृतीयो मार्गोऽतीव लघुतरः, प्रथमस्तु बृहत्तरः, भा० प्रतौ समग्रस्य नयचक्रस्य ५७२ पत्राणि, तत्र २६८ पत्राण्यादिमारचतुष्टयात्मकस्य प्रथमस्य मार्गस्य, नयचक्रवृत्तावपि 'अर्धमेकपुस्तकं समाप्तम्' इत्युल्लेखः प्रथममार्गान्ते [ पृ० ३७५ पं० १६] दृश्यते । इत्यादि परिभाव्य विभागद्वयेन समग्रं नयचक्रं प्रकाशयितुं
१ दृश्यतां पृ० ३७५ पं० १५, पृ० ७३७ पं० २७, टिपृ० ९४०२७-३० । “ विध्यादिसकलभङ्गात्मकसम्यग्दर्शनाधिकारे वर्तमाने विकलनयस्वरूपज्ञानमूलत्वात् सम्यग्दर्शनस्य विध्युभय विकल्पचतुष्टयात्मके तृतीये मार्गे वर्तमाने तत्र नियमभङ्ग प्रथममुक्त्वा................अत्राप्यपरितुष्यन् नियम विधिभङ्गारस्त्वाह ।” इति दशमारे नयचक्रवृत्तौ पृ० ४९४ - २॥
नय. प्र. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org