________________
पदार्थादिनिरूपणमुपसंहारश्च ]
द्वादशारं नयचक्रम्
तस्या अवयव एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् । लोके हि तदेकदेशवृत्तिता मृदूघटादिसामान्यविशेषत्वद्रव्यत्वानामिति दिक् ।
तस्मादन्यत्त्ववस्तु, अलौकिकत्वात्, खकुसुमवत्,
व्यतिरेके घटवत् ।
निबन्धनं चास्य - आता भंते ! णाणे, अण्णाणे ? गोतमा ! णाणे णियमा आता, आता पुण सिया णाणे सिया अण्णाणे । [ भगवतीसू० १२।३।४६७ ]
5
द्रव्यार्थभेदत्वात् । लोकव्यवहारविषयो हि व्यवहारः, तदेकदेशो विधिनयः, तस्माद्द्रव्यार्थभेदः । यथा -
दव्वणिय पंगती सुद्धा संगहरूवणाविसओ । पडिरूवं पुण वयणत्थणिच्छओ तस्स ववहारो ॥
[ सन्मति० ११४ ]
तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह- द्रव्यशब्द इति, 'द्रोरवयवो द्रव्यम्' इति व्युत्पादितत्वात् अथ द्रुः कः ? दुद्रुतौ [ पा० धा० ९४४, ९४५ ], तत्तुल्यार्थमव्युत्पन्नं प्रातिपदिकम् दुभ्यां मः [पा० 10 ५।२।१०८] इति निपातितत्वात्, तस्यार्थो दुर्गतिर्यात्रा व्यवहारो लोकस्येति । तस्या यात्राया अवयव ८२-१ एकदेश इत्यर्थकर्थंनम् । स एकदेशः क इति चेत्, उच्यते - एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात्, समस्तलोकव्यवहारविवँरीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः । सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता कुतः परिच्छिद्यत इति चेत्, लोकत एव परिच्छिद्यत इत्यर्थः । यस्माल्लोके तदेकदेशवृत्तिता मृद्घटादिसामान्यविशेषत्वद्रव्यत्वानाम्, मृत् सामान्यम्, घटो विशेषः, मृदः सामान्यं द्रव्यत्वम्, घटविशेषश्छिद्रबुन- 15 खण्डौष्ठ-सम्पूर्ण-रक्त-कृष्णतादिः । सर्व एवैषोऽपरित्याज्योऽर्थकलापः समस्तवृत्तौ नयानां यथास्वं च प्रमाणवशाद्वयवस्थाप्यः । तस्याज्ञानानुविद्धत्यैकान्ताद्वक्ष्यमाणदोषसम्बन्धाच्च लौकिकस्याप्यस्याऽयुक्तिः । इति परिसमाप्तौ, विधिनयतभेदे दिगिति ।
११५
1
1
तस्मादन्यत् त्ववस्तु, अलौकिकत्वात् खकुसुमवदिति गतार्थम् । अभिप्रायार्थ:- स तु मन्यते "लोकोऽलौकिकैकान्तं साङ्ख्यादिपरिकल्पितमवस्त्विति । व्यतिरेके घटवदिति, यद्वस्तु तल्लौकिक - 20 मेव यथा घटः कार्यं वा कारणं वा सामान्यं वा विशेषो वा यो वा स वास्तु यथालोकप्रसिद्धि पृथुबुध्नादिप्रागुक्तसामान्यविशेषभवनात् स च लौकिक इति । व्यतिरेके वैधर्म्ये ।
"
सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात् किमस्य निबन्धनमिति चेत्, उच्यते, निबन्धनं चास्य - आता भंते! णाणे, अण्णाणे ? इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति गोतमा ! णाणे
Jain Education International
प्र०
१ द्रव्यार्थभेदात् प्र० ॥ २ पगई य० ॥ ३ परूपणा भा० ॥ ४० ॥ ५त्रा प्र० ॥ ६ naai Ho | कथना य० ॥ ७ रीतवर्त्तित्वान्मि प्र० ॥ ८ यथास्व च प्रमाण भा० । यथास्वप्रमाण य० ॥ ९ यन्या [[ ? ] युक्तिः य० । व्यत्यायुक्तिः भा० ॥ १०° शतभेदो २० ही ० विना । शतभेदा २० ही ० ॥ ११ लोकोकान्तं प्र० । १२ कार्य कारणं वा य० ॥ 'भावितत्वात्' इत्यर्थमभिप्रेत्य सङ्गमनीयम् ॥ अतो य० ॥
१३ भावनात् प्र० । अस्मिन् पाठे तु स्वारस्ये १४ आया भंते नाणे अन्नाणे य० ॥ १५ गो० नाणे नियमा
For Private & Personal Use Only
www.jainelibrary.org