________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे तस्मादेतस्मिन्नयभङ्गेऽज्ञात एव शब्दस्यार्थः । यथा चाहुः
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवताशब्दैः सममाहुर्गवादिषु ॥ [वाक्यप० २।१२१] सर्वाणि च पदानि वाक्यार्थः । 5 व्यवहारदेशत्वाचास्य द्रव्यार्थता । द्रव्यशब्दो दुर्गतिर्यात्रा व्यवहारो लोकस्य
तस्मादेतस्मिन् नयभङ्गेऽज्ञात एव शब्दस्यार्थः । भङ्गग्रहणं भङ्गान्तरसूचनार्थम् , परस्परनिरपेक्षाणां भङ्गानां वृत्तेम॒पात्वात् तद्विपर्ययायाः सत्यत्वात् तेषां च विधिनियमयोरेव भङ्गत्वान्नयानाम् । तस्मादस्मिन्नेव नयभङ्गे शब्दस्याज्ञातोऽर्थः, नान्येषु, तेष्वप्यन्येऽन्येऽर्था इति । एतस्य दर्शनस्य ज्ञापकमाह -
यथा चाहुः- अस्त्यर्थः सर्वशब्दानामिति श्लोकः । सत्तामात्रमर्थः सर्वशब्दानाम् , कोऽप्यस्यार्थोऽस्ति, 10 न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्यः 'अयमयम्' इति, एतत् प्रत्याय्यलक्षणम् । तत्र दृष्टा
न्तोऽपूर्वदेवतास्वर्गशब्दानामाः , यथा तेषामत्यन्तापरिदृष्टत्वात् 'ईदृशोऽपूर्वः स्वर्गो देवता वेदृशी' इति न ८१-२ प्रतिपद्यामहे निरूपणेन तथा गवादिशब्दानामप्यर्थैस्तत्समैरेव भवितव्यम् , न हि गैमनगदनगर्जनादि
ध्वर्थव्यवस्था विशेषरूपेति 'कश्चिदस्त्यर्थः' इत्येतावत् प्रतिपत्तव्यम् । एतस्मिन्नेव नयभङ्गे सर्वाणि च
पदानि वाक्यार्थः । तद्यथा- 'देवदत्त ! गामभ्याज शुक्लां दण्डेन' इत्यत्र परस्पराविवेकेन सङ्कीर्णरूपाणि 15 पदानि एकार्थानि अन्वयव्यतिरेकाभ्यामनुगम्यमानं सम्पिण्डितमेवार्थं ब्रूयुर्न पृथग्भूतम् । तस्मात् सर्वाणि
पैदानि वाक्याय वाक्यार्थः, पदान्येव वाक्यार्थः, नैकैकं न तद्वयतिरिक्तम् । यथोक्तम् – अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् [ मीमांसासू० २।१।४६ ] इति । न तु यथान्यैः कल्प्यतेऽन्यथा--
आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी।
एकोऽनवयवः शब्दः क्रमो बुद्ध्यर्नुसंहतिः॥ 20. .
पदमाद्यं पृथक् सर्व पदं सापेक्षमित्यपि ।
पदम -
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ [वाक्यप० २।१-२] इति, अलौकिकत्वादशक्यप्राप्त्यफलत्वाभ्यामेव ।
क पुनरयं नयोऽन्तर्भाव्यते, किं द्रव्यनयभेदे ? पर्यायनयभेदे ? उच्यते- व्यवहारदेशत्वाचास्य देव्यार्थता, लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः [तत्त्वार्थभा० १॥३५] इति वचनात् तस्य
एक
१ परस्परइ(प्र)तिनिरपेक्षाणां य० ॥ २ तद्विपर्यायाः प्र० ॥ ३ यथा बहुः प्र० ॥ ४ परदृष्ट प्र०॥ ५ प्यर्थी तत्सम य०॥ ६गमनागदनप्र० । "कैश्चिन्निर्वचनं भिन्न गिरतेर्गर्जतेर्गमेः । गवतेर्गदते
पि गौरित्यत्रानदर्शितम ॥२।१७५ ॥ यथैव हि गमिक्रिया जात्यन्तरैकार्थसमवायिनीभ्यो गमिक्रियाभ्योऽत्यन्तभिन्ना तुल्यरूपत्व विधौ त्वन्तरेणैव गमिमभिधीयमाना गौरिति शब्दव्युत्पत्तिकर्मणि निमित्तत्वेन आश्रीयते तथैव 'गिरति गर्जति गदति' इत्येवमादयः साधारणाः सामान्यशब्दनिबन्धनाः क्रियाविशेषास्तैस्तैराचार्यः गोशब्दव्युत्पादनक्रियायां परिगृहीताः"इति वाक्यपदीयखवृत्तौ २११७५ । "गच्छति गदति गजेति वा गौः" इति पातञ्जलमहाभाष्यस्य भर्तृहरिविरचितायो त्रिपाद्याख्यायां वृत्तौ ॥ ७°पत्तव्यं तस्मिन्नेव य० । पत्तव्यतस्मिन्नेव भा० ॥ ८°मिवार्थ प्र०॥ ९पदानि वाक्यार्थः पदान्येव वा वाक्यार्थः य० । भा० प्रतिपाठे तु "चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः" [पा० २।१।३६] इति सूत्रानुसारेण 'वाक्याय इति वाक्यार्थः' इति चतुर्थीतत्पुरुषोऽत्र विवक्षितो विशेष्यलिङ्गवचनानुसारिता तु नातेति भाति॥ १० संहतिः भा० । संवृतिः य०॥ ११ पर्यय भा०॥ १२ द्रव्यार्थतो प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org