SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सर्वस्याशानप्रतिबद्धत्ववर्णनम्] द्वादशारं नयचक्रम् ११३ तदृष्ट्यनुपपत्तेः। खसंवेदनेनोच्छ्सनाभ्यवहृतपरिणतिसुप्तादिचलनकण्डूयनस्फुरणघाणरसनादिक्रिया असञ्चेतिताः । इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्व ज्ञानम् । परिच्छेदार्थश्च प्रमाणव्यापारः । न चेत्थं तत्परिच्छेदोऽस्ति। ___ न च 'अज्ञानम्' इत्युक्तविरोधः, राधकपूर्णकमातृव्यपदेशवद्विशेष्यप्राधान्या-5 दनवधारणाज्ज्ञानाज्ञानयोरविशेषात् संशयविपर्ययानध्यवसायनिर्णयावगमावबोधार्थत्वात् । स्यान्मतम् – अनुभवितुर्बाह्यविषयम् ‘इदमिदम्' इति निरूपणं मा भूद् यदि न भवति, स्वसंवेदनं ८०.२ त्वान्तरं सुखदुःखादिषु किं निरूपणं न भवति ? इति । उच्यते - स्वसंवेदनेनोच्छ्सनाभ्यवहृतपरिणतीत्यादि, व्यभिचारान्न भवति, प्राणापानावसञ्चेतयन्नेव हि कुरुते सर्वो लोकः, अभ्यवहृतमपि खलरसभावेन 10 रसरुधिरादिभावेन च परिणमयन्न सञ्चेतयति स्वयमेव । तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रिया: कुर्वतामसञ्चेतयमानानामेव ताः क्रिया दृश्यन्ते । सुप्त-मत्त-मूर्च्छित गर्भाः सुप्तादयः । तथान्यमनसाम-. व्यक्तचलनकण्डूयनमशकदंशस्पर्शसंवेदनं गन्धादिज्ञानं सुप्तादीनां चाम्लद्रव्यास्वादनमसश्चेतितम् । रैसनमास्वादनमित्यर्थः । आदिग्रहणात् क्षुतजृम्भितकासितादयः । यथैताः क्रिया असश्चेतितास्तथा स्वसंवेदनमपि । इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेः, कल्पितस्तावत् कल्पितत्वादेव तथाभूतो न 15 भवति प्रत्ययः, अकल्पितोऽपीत्थमुक्तविधिना नोपपद्यते तथाभूतः प्रत्ययः शुद्ध इत्यर्थः । तस्मात् कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्व ज्ञानमिति । परिच्छेदार्थश्च प्रमाणव्यापारः, प्रमाणं हि व्याप्रियमाणं यथार्थपरिच्छेदार्थमिष्यते, न चेत्थं तत्परिच्छेदोऽस्तीति वैधर्म्य दर्शयति । ___स्यान्मतम् – 'अज्ञानप्रतिबद्धम्' इत्यज्ञानशब्दोच्चारणादेव ज्ञानाभ्युपगमः कृतो भवति प्रतिषेधस्याऽब्राह्मणवदन्यत्र प्रसिद्धविषयत्वात् , अन्यथा प्रतिषेधानुपपत्तेः स्ववचनविरोधाच्च । तदपि न चाज्ञानमि- 20 त्युक्तविरोधः। 'किमिव ? राधकपूर्णकमातृव्यपदेशवत् । कुतः ? विशेष्यप्राधान्यानवधारणात् , ८१.१ का भावना ? यथा राधकस्य पूर्णकस्य वैकैव माता विवक्षिता भवति तदा 'राधकमाता' इति राधकेन विशिष्यमाणा 'पूर्णकमाता' इति पूर्णकेन वा अथ 'राधकपूर्णकमाता' इत्युभाभ्यां वा, सर्वथा राधकस्यैव पूर्णकस्यैव वा मातेत्यवधारणं नास्ति, विशेष्यप्राधान्यात्, तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति विशेष्यप्राधान्यानोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् । न तु यथा विशेषणप्राधान्यादवधारणं 'नीलमुत्प-25 लम्' इति । अतस्तेषामवबोधार्थाभेदाज्ज्ञानत्वमज्ञानत्वं चाविशिष्टमिति तत् प्रदर्शयन्नाह -संशयविपर्ययानध्यवसायनिर्णयावगमावबोधार्थत्वात् । गम्ल सप्ल गतौ [ पा० धा० ९८२-९८३ ], अव पूर्णगमनमवगमः, अवगमश्चावबोधः, अबुध वगमने [पा० धा० ८५८, ११७२ ] इति वचनात् । सर्वेषां संशयविपर्ययनिर्णयानध्यवसायानामवगमार्थत्वादवगमस्य चावबोधपर्यायत्वात् । १°नाद्यवहृत प्र०॥ २ पानार्थसञ्चेत प्र०॥ ३ रसेन प्र० ॥ ४काशिता य० ॥ ५किमव प्र०॥ ६ दन्यव य० ॥ ७ यथा यथा य०॥ ८ राधकपूर्णकस्य प्र०॥ ९शानाभ्यां प्र०॥ १० मस्य बाधबोधपर्या प्र०॥ नय०१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy