________________
११२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ प्रथमे विध्यरे
मन्यो भेदः - सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादि । इन्द्रियाण्यपि च तन्मयान्येवाचेतनानि । तत्करणत्वात् तैः प्रकाशितं स्थूलमज्ञं प्रतिपद्येत ज्ञः । तस्यापि चेन्द्रियसन्निकृष्टस्या साधारणखरूपस्य न निरूपणोपायोऽस्ति, प्रत्येकं समुदाये वा
वादसमवसरणवचनात् तंत्रोक्तः, आज्ञानिकवादः 'किञ्चिन्न ज्ञायते, 'को ह वैतद् वेद ? किं वाऽनेन 5 ज्ञातेन ? इत्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्त्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयान्' इति लेशेनाभ्युपगतत्वात् । यस्यायर्मेन्यो भेद इति तस्यैवाज्ञानवादस्यान्योऽयं भेदः । कतमोऽसौ भेद: ? सर्वमिमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादीति । कथम् ? रूपादिमत्त्वाद् घटादिवत् । आदिग्रहणात् पृथिव्यप्तेजोवायवः । नन्वेते पदार्था अंज्ञा एव, किमर्थमज्ञानप्रतिबद्धं जगत् पृथिव्यादीत्युच्यते ? उच्यते - आकाशकालदिगात्मेन्द्रियमनःप्रभृतीनामपि तद्व्यतिरेकेणानुपलब्धेर्न सन्ति तन्मयत्वादेव च 10 तद्वदचेतनान्यत आह – इन्द्रियाण्यपि च तन्मयान्येवा चेतनानीति । तन्मयत्वानुमानं च भूयस्त्वाद् ८०-१ गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । तैथापस्तेजो वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शविशेषात्
1
[वै० सू० ८/२/५ - ६ ] इति ।
स्यान्मतम् - प्रत्यभिज्ञानाहङ्कारे च्छादिविशेषलिङ्गदर्शनादात्मा तद्गुणस्तद्व्यतिरिक्तोऽस्तीति । एतच्चायुक्तम्, गुणगुणिनोर्भेदमिच्छतां ज्ञानादन्यत्वसाम्यात् पृथिव्यादिगुणत्वेऽपि तुल्यानुमानत्वात् । अभ्यु15 पेत्यापि आत्मादिव्यतिरेकं तत्करणत्वात् तेषामिन्द्रियाणां करणत्वात् तानि वाऽस्य करणानि तर्करणो ज्ञः, तैः करणैः प्रकाशितं घटादिस्थूलमज्ञं प्रकारयत्वादेव चान्यमप्यर्थं प्रकाश्य प्रतिपद्यमानोऽपि प्रतिपद्येत ज्ञः, सम्भाव्यमानप्रतिपत्तिरपि पुरुषः स्थूलमेवार्थं प्रतिपद्येता ज्ञानात्मकम् । करेणानि चाज्ञानि । अचेतनकरणप्रकाशितमप्यचेतनं प्रदीपप्रकाशितघटादिवदेव स्यात् स्थूलं च न परमाण्वादि सूक्ष्मं शुद्धं चेतनस्वरूपपुरुषादि वा स्यादज्ञांना प्रतिबद्धम् । तस्यापि चेन्द्रियसन्निकृष्टस्येत्यादि । 20 सत्यपि च तस्य स्थूलस्य ग्राह्यत्वे तत्स्वरूपाज्ञानादज्ञानसम्बद्धमेव । तस्येन्द्रियसन्निकृष्टस्य द्रव्यान्तरव्यतिरिक्तमसाधारणं यत् स्वरूपमात्मादेर्वातीन्द्रियैस्य तस्य क्वचित् कदाचिददृष्टत्वात् 'इदमिदम्' इति न निरूपणोपायोsस्ति । निरूपणं निर्णयज्ञानमिष्टम् । किं कारणं न निरूपणोपायोऽस्ति 'इदमिदम्' इति चेत्, उच्यते – प्रत्येकं समुदाये वा तदृष्ट्यनुपपत्तेः, तस्यासाधारणरूपस्यापूर्वस्यापूर्वत्वादेव दृनुपपत्तिर्निर्णयानुपपत्तिश्च । प्रत्येकं तावन्न हि घट एकैकः कृष्णादिरूपोऽपूर्वत्वादृश्यते स्वरूपतः, तत एव 25 प्रत्येकमनिरूपितस्वरूपाणां कुतो निरूपणं समुदाये, सिकतासु प्रत्येकमनिरूपितस्य समुदाये तैलस्य निरूपणाभाववत् ? निश्चयेन रूपणं [ निरूपणम् ], तदुपायाभावात् 'अज्ञानप्रतिबद्धमेव सर्वम्' इति साधूक्तम् ।
१ तत्रोक्तं तेज्ञानिकवादः य० । तत्रोक्तान्तज्ञानानिकवादः भा० ॥ २ कोहं य० ॥ ३ दृश्यतां पृ० ३५ पं० ४, पृ० ४५ पं० २ ॥ ४ मन्ये डे० लीं० । मन्य पा० रं० ही ० वि० ॥ ५ तस्यैव ज्ञान प्र० ॥ ६ 'दज्ञान' भा० । 'दं ज्ञान' य० ॥ ७ अज्ञान एव य० ॥ ८ याद्यपि च तन्मयाने वा प्र० ॥ ९ तथा तेजो प्र० । “तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् " - इति मुद्रिते वैशेषिकसूत्रे पाठः ॥ १० णोऽज्ञः भा० ॥ ११ प्रतिपद्यमानेपि प्रतिपद्येत ज्ञः य० । प्रतिपद्यत ज्ञः भा० ॥ १२ कारणानि च ज्ञानि य० । १३ 'ज्ञानादिप्रति य० ॥ १४ कृष्टद्रव्यान्तर' प्र० ॥ १५ °न्द्रियस्य क्वचित् प्र० ॥ १६ 'टानुप' य० ॥ १७ तावंत हि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org