________________
वैशेषिककल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम्
१११ कार्यतदतत्पदार्थानेकान्तखतत्त्वान्यतमैकान्तकल्पनात् कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् । ___अतः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्यविशेषौ घटादिविषयाविति विधिः।
एष च वेदवादिभिरपि लोकप्रमाणक आज्ञानिकवाद उपजीव्यते यस्याय-5
द्रव्यग्रहणेन पृथिव्यादीनां तत्कल्पितानां सर्वगुणानां गुणग्रहणेन भवनग्रहणेन सत्तायाः विशेषग्रहणेन गोत्वादीनां यावदन्त्यविशेषस्य कारणग्रहणेनावयवादिद्रव्याणां संयोगादिगुणानां कर्मणां च ग्रहणम् । ७९-१ कार्यग्रहणेन द्वयणुकाद्यवयविद्रव्याणां चित्रादिगुणानां च ग्रहणम् । तत्र परमार्थतः स च असश्च पदार्थोंऽनन्तरोक्तो द्रव्यादिः, तस्यानेकान्तः स्वतत्त्वं द्रव्यमपि रूपाद्यपि भवनमपि विशेषोऽपि कारणमपि कार्यमपीति । तस्य तस्यान्यतमैकान्तकल्पनादतत्त्वं द्रव्यमेव गुण एव कर्मैव भवनमेव विशेष एव 10 नेतरस्वतत्त्वमपीति । तस्मात् कल्पनात्मकत्वं सिद्धम् । ततः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षम् । कल्पनात्मकत्वादयः प्रागुक्ताध्यारोपात्मकालम्बनविपरीतप्रत्ययत्वादयः।
अतः सर्वप्रमाणाविरोधीत्यादि यावद्विधिरिति । अत इत्यनन्तरोक्तसर्वोपपत्तिप्रपञ्चतो यत् प्राक् प्रतिज्ञातं 'यथालोकग्राहमेव वस्तु' इति तन्निगमयति सोपपत्तिकं सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेवेति, प्रत्यक्षानुमानागमप्रमाणैरनवधारितकारणकार्योभयानुभयात्मकं तस्य 15 तस्य वस्तुनो भावस्तत्त्वमविरोधि, तस्मिंस्तत्त्वे तत्त्वस्य तत्त्वेन वा व्यवहारः, तस्मिन् समवस्था यस्य लोकस्य तस्य लोकस्य परिग्रहः स सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहः, तद्वत् तेन तुल्यं वर्तत इति । एवेत्यवधारणे, ताहग्लोकपरिग्रहवदेव सामान्यविशेषौ, न तु सामान्यमेव विशेष एव परस्परतो भिन्नावभिन्नावेवेति वा यथा शास्त्रेषु कल्पिताविति । अथवा सर्वप्रमाणाविरोधिनि तत्त्वव्यवहारे समवस्था यस्य स लोकः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थः, तस्य परिग्रहवदेव सामान्यविशेषौ 20 नान्यथेति यथा प्रतिपादितं लोकवदेव घटादिविषयाविति, यथा लोके घटादिभवनमेव सामान्य विशेषश्च ७९-२ द्रव्यक्षेत्रकालभावरूपभवनाविशेषविशेषाभ्यामुक्तविधिना कार्यकारणादिभेदेन वा नियतौ सर्वत्र न मर्यादयेत्यनवधृतस्वभावौ । इति "विधिः, 'इति' प्रदर्शने, एष विधिरित्थं विचारितो यः पृथगुद्दिष्टः ।
एष च "वेदवादिभिरपि लोकप्रमाणक आज्ञानिकवाद उपजीव्यत इति । नयानामेकैकस्य शतधा भेदात् सप्तनयशतानि आर्षे व्याख्यायन्ते, तेषां पुनश्चतुर्धा सङ्केपः क्रिया-ऽक्रिया-ऽज्ञान-विनय- 25
१°न्तरोक्तो व्यादिः भा० । न्तरोक्ता व्यादिः य० ॥ २ नतर य० ॥ ३ ताऽध्यारों य० ॥ ४ पृ० ११ पं० ३॥ ५ °स्थालोक प्र० ॥ ६ “स्थालोकेप प्र०॥ ७°स्परो भिन्नौ प्र०॥ ८°स्थस्य परि' प्र०॥९°षास्यामुक्त प्र०॥ १० धृतैस्वभावौ प्र० । अत्र 'धृतैकखभावौ' इत्यपि पाठः स्यात् ॥ ११ विधेः प्र०॥ १२ प्रथद्दिष्टः भा० । अत्र 'प्रथम उद्दिष्टः' इत्यपि पाठः स्यात् ॥ १३ वेदनादिभि प्र०॥ १४ आर्थे भा० । अर्थ य० ॥१५संक्षेपः क्रियाज्ञान प्र० । “चत्तारि वाइसमोसरणा पण्णत्ता, तं जहा-किरियावाई अकिरियावाई अण्णाणियवाई वेणइयवाई"-इति स्थानाङ्गसूत्रे चतुर्थस्थाने ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org