________________
११०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे नानात्वैकान्तवादेऽपि आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् [ वै० सू० ३।१।१८] द्रव्यादिनिर्मूलत्वात् किमात्मादि ? इति न प्रत्यक्षम् , द्रव्यरूपादिभवनविशेषकारणकिं कारणम् ? ततोऽन्यत् कल्पितमेकं रूपम् । नेनु सर्वस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेः, न
धूमवज्ज्ञापकहेत्वपदेशतयाग्नेरिवाऽर्थान्तरस्यानेकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतम5 स्माभिः, यदीदं प्रत्यक्षं स्यात् कारकादेव स्वार्थादालम्बनाद्धेतोर्जायेत दाहानुभववत् प्रत्यक्षत्वादव्यवहित
प्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत् । अपि च कारकतापि ७८-१ सर्वस्य नैव तत्र, द्वितीयचन्द्रवत् परमार्थतोऽसत्त्वादनुपात्तव्यावृत्तिव्यवस्थानमात्रत्वात् । लोकवत्तु
सर्वसत्त्वे विशिष्टोऽपदेशो व्यपदेशो ग्राह्यादन्यः, तेन व्यपदेशेन प्रमेयं व्यपदेश्यमनुमेयं न प्रत्य
धूमानुमेयाग्निवत्, अकारकतायां कारकतायां वा वस्तुनः पितृधूमादिवत् । 10 अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैव, अनुमिताग्निवदेवैकानेकविषयत्वान्नीलस्य । तद्धि नीलरूपनिरूपणं विकल्पः, प्रतिपरमाणुपरस्परप्रतिभिन्नस्वतत्त्वानेकरूंपैकतत्त्वैकरूपाध्यारोपात् सर्वसर्वात्मकैकरूपवस्तुरूपाद्यनेकरूपाध्यारोपाद्वा रूपान्तरसामान्यरूपविषयत्वात् तदतद्विषयवृत्तत्वादनपोहादपोहाद्वाऽग्नयनुमानवत् तत्सामान्यात्मकतैव परमार्थस्थितसञ्चयप्रज्ञप्तिनीलाणुभेदपरिग्रहात्मकत्वात्
साधारणार्थविविक्तकल्पनात्मकत्वान्न प्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत् । संवृत्य15 तीन्द्रियत्वाभ्यां हि न नीलादिषु न च सञ्चये कारणता तथाप्रतिपत्तिं प्रति । अनुमानज्ञानमपि च तन्न प्रतिपूर्यते, सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः, विरुद्धादिज्ञानवदिति समानमेतत् कल्पनात्मकत्वात् । अन्यदपि यथासम्भवं तत्प्रक्रियापतितं मुक्त्वा यदुभयोः सामान्यं तत् सर्वं योज्यम् । एवं तावद्विशेषाविशेषैकान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वाल्लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं कल्पितमपि त्वयुक्तमित्युक्तम् ।
नानात्वैकान्तवादेऽपि सामान्यविशेषयोः 'अयुक्तं प्रत्यक्षम्' इति वर्तते । कीदृशं वा तत् 20 प्रत्यक्षं कथमयुक्तं वा ? इति, आत्मेन्द्रियमनोर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् , आत्मा मनसा ७८.२ मन इन्द्रियेण इन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि नानात्वैकान्तवौदिमतं
द्रव्यादिनिर्मूलत्वात् किमात्मादि ? इति न प्रत्यक्षम् , द्रव्यमादिर्येषां त इमे द्रव्यादयो द्रव्यगुणकर्मसामान्यविशेषसमवाया अद्रव्यत्वात् [द्रव्येभ्योऽन्ये] खपुष्पवन्न स्युः, एवं गुणेभ्योऽन्ये न स्युरगुणत्वात् ,
अकर्मत्वात् कर्मणोऽन्ये, असामान्यत्वात् सामान्यतोऽन्ये, अविशेषत्वाद् विशेषेभ्योऽन्ये, असमवायत्वात् 25 समवायादन्ये, निर्मूलत्वाच्च खपुष्पवत् सर्वे । तस्य निर्मूलत्वं चापरिणामित्वाद् वन्ध्यापुत्रवत् । अतोऽसत्त्वादात्मादीनामात्ममनोऽक्षार्थाभावे किमात्मादि, यत्सन्निकर्षाज्ज्ञानमुत्पद्येत ? कस्य तत्, आत्मद्रव्याभावात् ? किं तत् , गुणाभावात् ? इतिशब्दो हेत्वर्थे, 'राजपुरुषोऽस्मीति न बिभेमि' इति यथा तथा इति न प्रत्यक्षम् , आत्मादिद्रव्याणां ज्ञानादिगुणानां चाभावान्नास्ति प्रत्यक्षमित्यर्थः । तेषां चात्मादीनामन्यथा परमार्थतो विद्यमानानामनेकान्तात्मकानामेकान्तात्मतया कल्पनादन्यथाध्यारोपात् कल्पनात्मकत्वा30 दिभ्यो हेतुभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति पूर्वोक्तं तदेव व्याचष्टे-द्रव्यरूपादीत्यादि यावत्कल्पनात् ।
१न्यत कल्पि.प्र.॥२तुलना पृ० ६६ पं. १ ॥३भवत यः॥ ४ तुलना पृ. ६७ पं० १॥५ तुलना पृ. ६८ पं० १॥६°रूपरूपैक प्र०॥७°कगपाध्या भा० । दृश्यतां पृ० ६९ पं० १॥ ८ मप्रत्ययात्मकत्वा प्र० । दृश्यतां पृ. ६९ पं० ४ ॥९°द्धावदिति प्र.॥१० मपि च युक्त य० ॥११ दृश्यतां पृ० ५९ पं० २२ ॥ १२ °वादिनमतं य० ॥१३ किमादीनि न य० ॥१४ च भावा प्र०॥ १५ कात्तामेतया प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org