________________
सायकल्पित प्रत्यक्षे दोषाः ]
नीलादिष्वभावात् तथासम्भावनेऽपि तस्यातीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसङ्घात आलम्बनमिति प्राप्तम् । ते च प्रत्येकं परमार्थतोऽसन्त इति तेषामविषयतेत्याद्यशेषं यथाभागमत्र योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्य
वस्थापनया ।
द्वादशारं नयचक्रम्
संवृतिसन्तो नीलादय ऐन्द्रियाः, न परमार्थसत्समुदायः । किं कारणम् ? तस्य रूपाद्यात्मकत्वात् तदेकदेश- 5 भूतस्य रूपादेरपरमार्थसतोऽप्यविभागावस्थस्य एकस्या सर्वस्यालम्बनस्यासञ्चितवत् न ह्येकोsसर्वः कदाचिदालम्बनं रूपं रसः शब्दो वा यथाऽसञ्चिताः परमाणवः पूर्वस्मिन् वादे नैन्द्रियका एवमसति-७७-१ वदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षं तद्विषयं ज्ञानमित्यभिसम्बन्धः । किमुक्तं भवति ? रूपादयः सर्वैकात्मरूपा एव सन्ति न पृथक्स्वरूपाः । ततस्तद्विषयं ज्ञानमभावविषयत्वादप्रत्यक्षं वन्ध्यासुतादिविषयज्ञानप्रत्यक्षवदिति । अनया दिशा 'यदाभासं प्रत्यक्षं न 10 सोsस्ति विषयः, योऽस्ति न तदाभासं प्रत्यक्षम्' इत्यादि विशेषैकान्तवादिनं प्रति योऽभिहितः प्रपञ्चः स सर्वो योज्यः । तथासम्भावनेऽपि चेत्यादि, रूपादेरेकैस्य सत्त्वरजस्तमोगुणसाम्यावस्थानलक्षणप्रधानाख्यपदार्थत्वसम्भावनेऽपि । नैव तत्साम्यावस्थानं शब्दादिभेदेक सर्वात्मकत्वाभावरूपं सम्भाव्यते, सम्भाव्यमानेऽपि च तस्मिन्नव्यक्ते तस्याऽव्यक्तस्यातीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसङ्घात आलम्बनमिति प्राप्तम् । ते च रूपादयः प्रत्येकं परमार्थतोऽसन्तः, इतिशब्दो 15 हेत्वर्थे, इत्यतः कारणाद्रूपादिसङ्घातालम्बनत्वात् तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता । रूपादयो न चक्षुरादिविषयाः, परमार्थतोऽसत्त्वात्, वन्ध्यासुतवत् । रूपादिविषयं वा न प्रत्यक्षम्, परमार्थतोऽसद्विषयत्वात्, वन्ध्यासुतज्ञानवत् । तस्माद् योनि- बीज-प्रकृति- बहुधानक- प्रधाना - ऽव्यक्तादिपर्यायाख्यं यद् वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् । यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत् परमार्थसत् । इत्या- ७७-२ द्यशेषं विशेषैकान्तवादिमते यथाभागं यो यो भागो यथाभागं तद्विपर्ययेणाविशेषैकान्तवादेऽत्र यद् 20 यत्र भजते तत् तथानुसृत्य योज्यमित्यतीतं ग्रन्थार्थं स्मारयति । तद्योजनोपायदिङ्मात्रप्रदर्शनार्थमप्याहभेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनयेति । ये तत्र भेदरूपाः परमाणवः परमार्थसन्तस्तेऽत्र संवृतिसन्तः सर्वसर्वात्मकपरमार्थवादे, यस्तत्राभेदः परमाणुसमुदायः संवृतिर्सन् सोऽत्र परमार्थसन्नित्यनया व्यवस्थापनया योज्यम् ।
पुनरुत्तरोऽपि ग्रन्थो योज्यः । तद्यथा - सर्वसर्वात्मकैकरूपान्तरा विविक्तस्वर्तत्त्व रूपादिसत्त्वादि- 25 सङ्घात इन्द्रियसंनिकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिपत्तिः व्यपदेश्यानेकात्मकनीलरूपविषया, न च हेत्वपदेशाव्यपदेश्यैषा, यतः सर्वात्मकग्रहणापदेशेन धूमेनेवाग्निसामान्यवद् गृह्यते नानिर्देश्यरूपम् ।
१ मार्थसमु भा० ॥ २ प्यवि (व ?) भासावस्थस्य प्र० ॥ ३ शब्दो यथा य० ॥ ५नुष्टत्य य० । 'नुष्वत्य भा० ॥ ६पनायेति प्र० ॥ वि० ही० ॥ ८ सतृ सोत्र य० । स शौत्र भा० ॥ ११ अत्र 'पत्तिरव्य' इति समीचीनं भाति ॥
य० ॥
Jain Education International
१०९
९
१२
४ कस्या प्र० ॥ ७ न्तः । तत्र भा० रं० पा० न्तः तत्र डे० लीं० तथे प्र० । दृश्यतां पृ० ६५ पं० १ ॥ १० सन्निष्ट पदेश । व्यप' भा० । 'पदेशव्यप' य० ॥
For Private & Personal Use Only
www.jainelibrary.org