________________
१०८ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे किं श्रोत्रम् ? किमश्रोत्रम् ? क आदिः? कोऽनादिः? का वृत्तिः? का वावृत्तिः? किं प्रति? किमप्रति ? किमक्षम् ? किमनक्षमित्यादि ?
लोके शास्त्रे च हि वस्तुखतत्त्वसाक्षात्प्रतिपत्तिः प्रत्यक्षम् । तत्तु त्वन्मतवन्न त्वेवंलक्षणम् प्रत्यक्षम् , निर्विकल्पत्वासिद्धेः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् । 5 सश्चितालम्बनस्थान उक्तवद् रूपादेरेकस्यासर्वस्यालम्बनस्यासञ्चितवद् घटप्रथमद्वितीयाद्यन्योन्यापेक्षविभागाभावात् ? कोऽनादिमध्योऽन्तो वा ? का वृत्तिस्तेषां श्रोत्रादीनां पूर्वमप्रवृत्तानां पश्चाद्वृत्तिः कालभेदेनावस्थान्तरत्वेन च विशिष्टा ? का वाऽवृत्तिवृत्त्युपरमलक्षणा विभागाभावादेव ? किं प्रति, कतमोऽन्यो भावो यमपेक्ष्य तं प्रत्यक्षमित्युच्यते ? नपुंसकलिङ्गस्याव्यक्तगुणसन्देहविषयत्वात् 'किं प्रति' इति प्रश्नः । किमप्रति, सर्वसर्वात्मकैकत्वे कैः किं नापेक्ष्यते ? किमक्षमिन्द्रियं यद् 10 विषयव्यतिरिक्तं श्रोत्रादि परस्परव्यतिरिक्तं वा ? किमनक्षमिन्द्रियव्यतिरिक्तं विषयो रूपादि परस्पस्तो वा ? इति प्रदर्शने, इत्थं विभागाभावाद् विभागेन लक्षणप्रणयनं स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधैंम् । आदिग्रहणात् किं शब्दादि ? किं मनः ? किमधिष्ठेयं केन ? इति ।
___किश्चान्यत् , त्वन्मतेनैव प्रत्यक्षलक्षणीयोगादयुक्तम् । लोके शास्त्रे च हि वस्तुस्वतत्त्वसाक्षा
त्प्रतिपत्तिः प्रत्यक्षम् , वस्तुनः स्वं तत्त्वमसाधारणमात्मीयं रूपम् , या तस्य साक्षात्प्रतिपत्तिर्न व्यवहिता ... 15 सा प्रत्यक्षम् । तत्तु त्वन्मतवन्न त्वेवंलक्षणं प्रत्यक्षम् , त्वन्मत इव त्वन्मतवत् , यथा सर्वसर्वात्मकत्वे
२ त्वन्मते श्रोत्रादिवृत्तेः सर्वसर्वात्मकवस्त्वेकदेशशब्दादिविषयत्वात् समुदायरूपत्वाद्वस्तुस्वतत्त्वस्य विभागाभावाच्छ्रोत्रादिवृत्तिर्न सम्भवतीत्युक्तं तथा तस्य निर्विकल्पस्य वस्तुनो वस्तुस्वतत्त्वसाक्षात्प्रतिपत्त्यभिमतं लौकिकं सामयिकं च प्रत्यक्षलक्षणं न घटते, निर्विकल्पत्वासिद्धेः, नैव तन्निर्विकल्लं
प्रत्यक्षं शब्दादिविभागविकल्पविषयत्वात् , अविभागरूपं च सर्वसर्वात्मकं वस्तुस्वतत्त्वम् , तद्विषयं च तन्न 20 भवति, ततश्च कल्पनात्मकम् , कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवद् 'न प्रत्यक्षम्' इति वर्तते, कल्पनात्मकत्वान्निरूपणविकल्पात्मकत्वादालम्बनविपरीतप्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वादसामान्यरूपविषयत्वात् तदतद्विषयवृत्तित्वात् सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वात् , भ्रान्तिसंशयानुमानादिज्ञानवदिति ।
सञ्चितालम्बनस्थान उक्तवदित्यादि यावन्नीलादिष्वभावादित्यनेनाऽतिदिष्टग्रन्थार्थभावनोपाय25 दिक्प्रदर्शनं करोति मा भूद् व्यामोह इति । यादृक् सञ्चितालम्बनस्थानेऽस्माभिरुक्तम् ‘परमाणुनीलादीनां
सञ्चयः सामान्यं संवृतिसत्त्वादसत्' इति, इह तु तद्विपरीतं समुदायपरमार्थत्वं नीलादिसंवृतिसत्त्वम् ।
१ भावोन्यमपेक्ष्य य० । भावोऽन्यमपेक्ष्य भा० ॥ २ °त्मकत्वकैकत्वे के कं नापेक्ष्यते भा०। 'त्मकत्वकैकत्वे कैकं नापेक्ष्यते य० ॥ ३ °व्यपेक्षदुस्तर' य० ॥ ४°धनादिन प्र०॥ ५ णायोगायदुक्तं लोकशास्त्रे य०॥ ६ वहि प्र०॥ ७२० विनान्यत्र-प्रत्यक्ष ही०। प्रत्यक्षा पा० डे० लीं वि० भा०॥ ८ तनु त्वन्मत २० ही०॥ ९°त्वात्सिद्धेः प्र० ॥ १० °कल्पकं य० ॥ ११°विषयित्वात् प्र०॥ १२ °त्मकवत्वा य० । दृश्यतां पृ० ६३ पं० १॥ १३ दृश्यतां पृ०६४ पं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org