________________
१०७
वार्षगण्यकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् वा, अत एव । नानध्यवसायमात्रम् , अनवग्रहात्मकत्वात् तस्य । तस्मान्न विज्ञानमात्रमित्यलमतिविकाशिन्या सङ्कथया। ___अनयैव च दिशा स्ववचनव्यपेक्षवाक्षेपोऽविशेषकान्तवादिनोऽपि । सर्वसर्वात्मकतायां श्रोत्रादिवृत्तिः प्रत्यक्षम् [षष्टित०] इति ब्रुवतो निर्विकल्पत्वाद्विभागाभावात्
सिद्धेः । स्यान्मतम् - अनध्यवसायमात्रमस्त्विति। तदपि नानध्यवसायमात्रम् , न असञ्चेतिताव्यक्तसुख- 5 दुःखादिस्वरूपमित्यर्थः । किं कारणम् ? अनवग्रहात्मकत्वात् तस्य, न हि तदत्यन्तासश्चेतितं नाम ज्ञानमस्ति । यद्यप्यव्यक्तज्ञानमस्ति अपटुत्वात् तदर्थावग्रहात्मकं न भवत्यतो विज्ञानमेव न भवति, यस्माद् विजानातीति विज्ञानमिष्टम् , तच्च न किञ्चिद् विजानातीति नानध्यवसायविज्ञानमात्रम् । तस्मान्न विज्ञानमात्रम् , प्रमाणप्रमाणाभासविज्ञानेष्वनन्तर्भावात् कतमद् विज्ञानमात्रमिदं सर्वम् ? ७५-२ एतेभ्यश्च विज्ञानेभ्यो व्यतिरिक्तस्यान्यस्य विज्ञानस्याभावान्न किश्चिदेतद्विज्ञानमात्रं सर्वम् । इत्यलमति- 10 विकाशिन्या सङ्कथयति सङ्क्षिप्योपसंहरति प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् , इतरथा ह्यद्यापि दूषणवचनप्रपञ्चस्यानेकस्यावकाशोऽस्तीति । एवं तावद्विशेषकान्तवादिना कल्पितं लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं न घटते, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात् ।
अनयैव च दिशा स्ववचनव्यपेक्षवाक्षेपो द्रष्टव्य इति वाक्यशेषः । एषोऽतिदेशः कस्य 'चेत् , अविशेषकान्तवादिनोऽपि । अपिशब्दादनन्तरोक्तस्य विशेषवादिनोऽसंम्भवात् उभयवादिनोऽपि । 15 तत्र यद् विशेषवादिनः प्रागुक्तं दोषजातं 'कल्पनापोढं प्रत्यक्षम्' इच्छतः कल्पनात्मक[व]मेव हेतुपरम्परयाऽऽपाद्य 'अप्रत्यक्षत्वम् , अनुमान[त्व]म् , उभयैक्यम् , सङ्करः, अभावः, निर्देश्यत्वम् , अस्वलक्षणता च, कारकज्ञापकाविशेषापादनादभिधानार्थव्यपदेश्यता च' पश्चाच्च कल्पनापोढतामभ्युपेत्यापि 'स्वसामान्ययोर्लक्षणयोरभावाञ्चक्षुषो रूपस्य तद्विज्ञानस्य चाभावः' इत्यादि लक्षणवाक्यमुद्दिश्य तदिदानीमुत्क्रमेण वाच्यमिति तद्दिशं दर्शयति -- सर्वसर्वात्मकतायामित्यादिना यावदनक्षमिति । एवं हि लक्षण- 20 दूषणातिदेशः – 'सर्वं सर्वात्मकम्' इत्यविशेषमिच्छतः सायस्यापि सर्वात्मकस्यैकस्य वस्तुनो रूपरसादिभेदेन श्रोत्रादिभेदेन च विकल्पयितुमशक्यत्वाद् विशेषकान्तवादिन इव निर्विकल्पपरमार्थपरमाणुमात्र-७६-१ साधादविकल्पकत्वम् । अविकल्पकत्वाद् यथा पूर्व प्रत्यक्षलक्षणोदाहरणवाक्ये दोषाः 'चक्षुर्नैव चक्षुः, रूपं नैव रूपम् , विज्ञानं नैव विज्ञानम्' इत्यादयस्तथा श्रोत्रादिवृत्तिः प्रत्यक्षं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां मनसाऽधिष्ठिता वृत्तिः शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति 25 ब्रुवतः सर्वसर्वात्मकत्वे निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यत् त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं त्वगादि यच्छ्रोत्राद्विभक्तम् ? यच्चोक्तं 'श्रोत्रादि' इति, तत्र क आदिः सर्वात्मकैकवस्तुत्वे
१ असंचेतिवाव्यक्त यः॥२ तस्या न हि तदत्यंचासंचेतितं प्र०॥३ अत्र 'यदप्य' इत्यपि पाठः स्यात् ॥ ४°णंप्रमा प्र०॥५°भाविज्ञाने य० ॥६°कासिन्या भा०॥ ७ मेद्यापि भा०॥ ८चित् प्र०॥ ९ सम्भवत
०॥ १० अभावं प्र०॥ ११च इकारक भा०वि०विना॥१२त्यादि य०॥१३ °स्येचाभावः भा०। स्येवाभावः य० । पृ. ७२ पं० १॥१४ मकैकस्य य०॥१५°कल्पकम् प्र०॥१६ दृश्यतां पृ० ७१५०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org