________________
१०६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे तिष्ठतु तावद् बाह्याभावे विज्ञेयत्वाभावो विज्ञेयत्वाभावे च विज्ञानत्वाभावः। विज्ञानं हि प्रत्यक्षादि । तत्र कतमद् विज्ञानमात्रमिदं सर्व त्रैधातुकम् ? न तावत् प्रत्यक्षविज्ञानमात्रम् , तस्यैवमवस्थत्वात् । नानुमानविज्ञानमात्रम् , तस्यापि तत्पूवकत्वात् तदसिद्धावसिद्धेरतन्त्वपटवत् । न संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रं
5 कल्पनापोढं प्रत्यक्षमित्येतस्य त्वन्मतस्य तत्संवादिनो बुद्धवचनस्य च विध्वंसनार्थोऽयं ममारम्भस्तथा ७४-२ विज्ञानमात्रवाद विध्वंसनार्थोऽप्ययमेवारम्भः, त्वत्तीर्थकरा भिहितत्वात् तस्यापि । अथवा तत्परमार्थत्वात्
तत्प्रतिपादनार्थत्वाच्च सर्वदेशनानां बौद्धीनां तद्विध्वंसनार्थ एवायमारम्भः । एतदपि प्रमाणाभावादयुक्तमिति ग्राह्यम् , प्रमाणाभावश्च प्रमेयाभावादिति स दोषः स्थित एवेति दर्शयति --तिष्ठतु तावदित्यादि । तं
चोपायेन दर्शयिष्यन्नाह - बाह्यार्थाभावे विज्ञेयत्वाभावः, तस्य विज्ञानमात्रत्वात्। विज्ञेयत्वाभावे च 10 तस्य विज्ञानत्वमपि नास्ति, विजानातीति हि विज्ञानम् , किं विजानाति विज्ञेयाभावे ? ततः प्रमेयत्वाभावात् प्रमाणत्वाभावः प्रत्यक्षस्येति ज्ञेय-ज्ञान-प्रमाण-प्रमेयत्वविलक्षणं खपुष्पवत् किं तत् प्रत्यक्षं नाम ? इत्येष दोषो दुर्निवारः, स तावत् तिष्ठतु । इदं तावदस्तित्वाभ्युपगमेनैवान्यथा विचार्यते-विज्ञानं हीत्यादि । हिशब्दो दृष्टान्तार्थे, दृष्टं हि लोके विज्ञानं प्रत्यक्षादि, प्रत्यक्षमनुमानं च प्रमाणे विज्ञाने । आदिग्रहणात् संशयविपर्ययानध्यवसायलक्षणानि च विज्ञानानि प्रमाणाभासाभिमतानि । इद15 मसि त्वं प्रष्टव्यः-तत्र निर्धायं कतमद् विज्ञानमात्रमिदं सर्व त्रैधातुकमिति, नैकमपि विज्ञानमात्रं
भवतीत्यभिप्रायः । ब्रूयास्त्वम् - प्रत्यक्षविज्ञानमात्रमिति, तन्न तावत् प्रत्यक्षविज्ञानमात्रं तस्यैवमव७५-१ स्थत्वात् , तस्य प्रत्यक्षविज्ञानस्यैवमवस्था यथास्माभिर्व्याख्याता न रूपादिविषया न समुदायविषया न
चक्षुरादिनिमित्ता संवृत्या परमार्थेन वा युज्यते इति तस्मान्न प्रत्यक्षविज्ञानमात्रम् । स्यान्मतम् – अनुमानविज्ञानमात्रमिति । तदपि नानुमानविज्ञानमात्रम् । किं कारणम् ? तस्यापि तत्पूर्वकत्वात् , तस्याप्य20 नुमानस्य तत्पूर्वकत्वात् प्रत्यक्षपूर्वकत्वात् । प्रत्यक्षपूर्वकं हि स्वानुभवोत्तरभाविविकल्पात्मकमविकल्पज्ञान
समनन्तरजन्माऽनुमानं मानसमैन्द्रियमयोगिमानसप्रत्यक्षपूर्वकमेवेष्यते, तस्यैव प्रत्यक्षस्यासिद्धौ कुतोऽनुमानसिद्धिः ? अतो नानुमानमात्रमत आह - तदसिद्धावसिद्धिरतन्त्वपटवत् । यथा तन्तुपूर्वकस्य पटस्य तन्त्वसिद्धावसिद्धिस्तत्पूर्वकत्वात् तथा प्रत्यक्षासिद्धावसिद्धिरनुमानस्य । एवं तावत् प्रमाणविज्ञानमात्रत्वासिद्धिः। एवं तर्हि संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रमस्तु, तदपि न संशयभ्रान्त्यादिकल्पनाविज्ञानमात्रं 25 वा, न संशयमात्रं न भ्रान्त्यादिमात्रम् , आदिग्रहणान्न स्वप्नानुभवानुभूतानुकारमानं न तैमिरिककेशोन्दुका
द्याकारमात्रम् , सर्वस्यास्य कल्पनात्मकस्य प्रमाणाभासस्य अत एव प्रत्यक्षपूर्वकत्वादेव तदसिद्धाव
१ राभिहत प्र० ॥२ बौद्धानां य० ॥ ३ °गमेवानान्यथा प्र० । अत्र गमेनान्यथा' इत्यपि पाठः स्यात् ॥ ४°मत् विज्ञा' भा० । मत्तविज्ञा' य० ॥ ५ सर्वत्रैधातु प्र०॥ ६ स्येवमवस्था २० ही । स्यैयमवस्था वि० । स्वयमवस्था भा० पा० डे० लीं.॥ ७°नस्य पूर्वकत्वात् प्रत्यक्षपूर्वकत्वात् य० । नस्य प्रत्यक्षपूर्वकस्वात् भा०॥ ८°समिन्द्रिय प्र०॥ ९ प्रत्ययंक्षपू° भा०॥१० स्यापि(स्याप्य?)सिद्धौ प्र.॥११ तदपि संशयभ्रान्त्यादि कल्पनादिमानं पा प्र० ॥१२ अंत प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org