________________
द्वादशारं नयचक्रम्
विज्ञान वादिबौद्ध मतनिरासः ] अथाभूतस्य वन्ध्यापुत्रसमुदायोऽपि स्यात्, अभूतत्वादस्थितत्वात्, अणुसमुदायवत् । सन्तानादिति चेत्, सोऽप्येवमेव ।
अथोच्येत - बाह्यवस्तुखतत्त्वप्रतिपत्तिजनितः सर्व एवैष विरोधसंक्लेशः । विज्ञानमात्रकमिदं त्रिभुवनम् । न द्रव्यसंवृत्यादि ततो भिन्नमस्ति ।
ननु देवानांप्रिय ! त्वन्मतवदेव विज्ञानवादविध्वंसनार्थ एवायमारम्भः । सहत्वं यौगपद्यमप्रतिलब्धमसत्त्वापत्तेरेव । तस्मात् 'सहोत्पादाददोष:' इत्यपरिहारः । अथाभूतस्यो - त्पादो यौगपद्येनेष्यते सापि सेहता नोपपद्यतेऽनिष्टप्रसङ्गात् । किमनिष्टम् ? वन्ध्यापुत्रसमुदायोsपि स्यादित्यनिष्टम् । कुतः ? अभूतत्वादस्थितत्वादणुसमुदाय वदिती साक्षादनिष्टापादनम् । अणुसमुदाय न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्र समुदायवत् । अभूतत्वमस्थितत्वं च हेतुद्वयं शून्यक्षणिकवादिनोः सिद्धत्वादुक्तम् । सन्तानादिति चेत्, स्यान्मतम् - अभूतैत्वमस्थितत्वं चेष्यते तेषाम्, तथापि जन्म-: विनाशर्संन्तानस्याव्यवच्छेदात् स्थितत्वमस्त्यतः सहोत्पादाददोष इति । एतच्चायुक्तम्, यस्मात् सोऽप्येवमेव, सोऽपि सन्तानो भूतो वा स्यादभूतो वा ? यदि भूतः कुतः संहता, उक्तवद् भवनानन्तरविनष्टेभ्योऽन्यस्य सन्तानस्याभावात् ? अस्ति चेत् तद्विलक्षणो 'नित्योऽन्य इति सर्वक्षणिक प्रतिज्ञाहानिः । अथाभूतः, ७४-१ वन्ध्यापुत्रवदित्याद्यभिहितदोषाकाङ्क्षमेव ।
10
अथोच्येत - बाह्यवस्तुस्वतत्त्वेत्यादि यावत् ततो भिन्नमस्तीति । अथेत्यधिकारान्तरे, अथ 15 संञ्चितालम्बनविषयज्ञानपक्षे कल्पिताः कल्पिता उपपत्तयो विफला भवन्ति सदोषाश्चेति तं परित्यज्येदमुच्येत - सर्व एवैष विरोधसंक्लेशो बाह्यवस्तुतत्त्वप्रतिपत्तिजनितः, 'विज्ञानाद् बाह्यं वस्तुतत्त्वमस्ति ' इति प्रतिपत्तौ सत्यां जायतेऽयं संक्लेशः । यदि परमाणव आलम्बनं ततोऽतीन्द्रियत्वसञ्चितालम्बनत्वाद्यभ्युपगमविरोधः; अथ समुदायः, असत्त्वात् खपुष्पवदनालम्बनमेव; प्रत्येकं ते समुदिताः स्ववचनविरोधादिदोषः प्रोक्तन्यायेनेत्येवमादिविरोधोद्भावनजनितेन चित्तसंक्लेशेन किमर्थं बोध्यामहे ? एवं तु सर्वदोष - 20 विनिर्मुक्तमिदं कल्पनान्तरमाश्रयामहे - विज्ञानमात्रकमिदं त्रिभुवनम् । यदुक्तम् — क्षमा वायुराकाशं सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः ॥ [ वाक्यप० ३ |७|४१ ] इति ।
१०५
न द्रव्यसंवृत्यादि, न पुनरेतस्यां कल्पनायामेवम्बिधः संक्लेशोऽस्ति यत् इदं संवृतिसदिदं परमार्थसदिदमैन्द्रियकमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाद्वयतिरिक्तमर्थजातमिच्छतां स्यात्, न तु तत् ततो 25 भिन्नमस्ति । तस्मादनर्थको विचार इति ।
अत्रोच्यते - ननु देवानांप्रिय त्वन्मतवदेव विज्ञानवादविध्वंसनार्थ एवायमारम्भः । यथेदं
१ दावदोषः य० ॥ २ सहिता य० ॥ ३ दायापि य० । दापि भा० ॥ ४ स्यादतो त्वादस्थित प्र० ॥ ५° ततत्व' य० ॥ ६°सन्तान साध्यवच्छे प्र० ॥ ७ यवि य० ॥ ८ सहेतोक्तवद् प्र० ॥ ९ नित्यान्य य० ॥ १० वाक्यवस्तु प्र० । ११ संहिताल' वि० विना । सहिताल वि० ॥ १२ वाच्यामहे प्र० ॥ १३ सागरः य० । “द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥” इति मुद्रिते वाक्यपदीये पाठः ॥ १४ द्रव्यं संवृत्यादि न भा० । द्रव्यसंवृत्या न य० ॥ १५ अत्र 'य इदं' इत्यपि पाठः स्यात् ॥
नय० १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org