________________
१०४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [प्रथमे विध्यरे त्वप्रास्यनन्तरमेव विनष्टत्वात् । प्रत्येकत्वप्राप्तिरपि चैवं नैव, असत्त्वात्, वन्ध्यापुत्रवत् । सहोत्पादाददोष इति चेत्, न, तुल्यत्वात् । किं भूतस्य सहता? अभूतस्य ? यदि भूतस्य भवनानन्तरविनष्टत्वात् कुतः सहता, उक्तवदसत्त्वापत्तेरेव ? यदुक्तं वः सिद्धान्ते - 5
बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च तत् । [ ] इति । ७३-१ आकाश-प्रतिसङ्ख्या-ऽप्रतिसङ्ख्यानिरोधाख्यात् त्रयादन्यत् प्रत्ययजनितत्वात् संस्कृतम् , संस्कृतत्वाच्च
क्षणिकानित्यम् , क्षणोऽस्यास्तीति क्षणिकम , क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव न कालान्तरावाय्यनित्यत्वं लौकिकाभिमतघटादिवदित्येतेनाभ्युपगमेन सह प्रत्येकं ते समुदिताः कारणमित्यस्याभ्युपगमस्य सङ्गतिर्नास्ति । किं कारणम् ? प्रत्येकत्वाप्त्यनन्तरमेव विनष्टत्वात् , एकैकस्य 10 परमाणोः स्वरूपलाभसमनन्तरमेव विनष्टत्वात् कः प्रत्येकसमुदायः ? को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतथास्थानां भिद्यमानानां प्रत्येक भावः ? इति सिद्धं प्रत्येकमभूतत्वं देशतः कालतश्चावस्थान्तराप्राप्तेरिति । प्रत्येकत्वप्राप्तिरपि चैवं नैव, निर्मूलत एव परमाणूनां यापि प्रत्येकत्वप्राप्तिः सापि चैवमुक्तविधिना नैवास्ति, स्वरूपप्राप्तिमात्रदेशकालाप्रेतीक्षित्वविनाशित्वादसत्त्वात् , वन्ध्यापुत्रवत् , यथा वन्ध्यापुत्राणां प्रत्येकत्वप्राप्तिर्नास्ति तथा परमाण्व भिमतानां तथानवस्थानामभावान्न प्रत्येकत्वप्राप्तिरिति । 15 सहोत्पादाददोष इति चेत् , तेषां परमाणूनामसत्त्वमसिद्धं तथानवस्थानामपि देशैक्येन
कालैक्येन च सहोत्पादाभ्युपगमात् , तस्मादस्ति प्रत्येकत्वप्राप्तिरिति । एतच्च न, तुल्यत्वात् परमाण्वसत्त्वस्य, देशकालभेदोत्पादासत्त्वेन सहोत्पादासत्त्वस्य तुल्यत्वात् , विकल्पद्वयेऽपि यौगपद्यासिद्धेरिदमसि
त्वं प्रष्टव्यः -किं भूतस्य सहता ? अभूतस्य ? इति विकल्पद्वयानतिवृत्तेरेष प्रश्न उभयथापि न घटत ७३-२ इत्युत्तरं वक्तुमनसः । इतर आह - अभूतस्य सहतेत्ययुक्तो विकल्पः, क एवं ब्रूयात् 'अभूतस्य खपुष्प20 स्येव सताऽसता वा सहता' इति यतः स विकल्पः पूर्वपक्ष्यते ? तस्माद्भूतस्य सहतेति ब्रूमः । अत्राचार्य
आह - त्वमेवैतद्विकल्पद्वयं 'तथावस्थाः प्रत्येकं समुदिताः कारणं परमाणवः' इति ब्रुवाणश्चिन्तय क एवमाहेति । किं न एतेन ? यो ब्रवीति स ब्रवीतु, यदि भूतस्य यदि तावद् भूतस्य सहोत्पादः, भवनानन्तरविनष्टत्वात् क्षणिकवादे कुतः सहता? नास्त्यत्र कारणं सहत्वे कस्यचित् केनचिदित्यर्थः ।
उक्तवदित्यतिदेशादेशकालाभ्यामत्यन्तभेदे निरभिलाप्यस्वभावानां प्रत्येकत्वप्राप्तिरेव नास्तीत्युक्तं तथा तेषा 25 मसत्त्वापत्तेरेवाणूनां 'कुतः सहता' इत्यभिसम्बन्धः । प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया, तत्तु
१दन्य सं० प्र० । “अपिच वैनाशिकाः कल्पयन्ति 'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च' इति । तदपि च त्रयं प्रतिसङ्ख्याप्रतिसङ्ख्या निरोधावाकाशं चेत्याचक्षते । त्रयमपि चैतदवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते । बुद्धिपूर्वक: किल विनाशो भावानां प्रतिसङ्ख्यानिरोधो नाम भाष्यते, तद्विपरीतोऽप्रतिसङ्ख्यानिरोधः, आवरणाभावमात्रमाकाशमिति"-ब्रह्मसूत्रशाङ्करभा० ४।२२॥२ आकास्या प्रति भा०। आकाशस्याप्रति य० ॥३°ख्या त्रया प्र० ॥ ४ स्थाय्येनि प्र०॥५ दृश्यतां पृ० ९६ पं०३०॥६प्राप्तानन्त' भा० । प्रानन्त य० ॥७ प्रत्येकं समुय०॥८°वस्थानं य० । 'वस्थं भा०॥९ प्रतीक्षितविना भा० ॥ १० °त्पाददोष प्र० ॥ ११ क्येन सहो य० ॥ १२ मसिद्धं द्रष्टव्यः भा० । मसिद्धं द्रष्टव्यं य० ॥ १३ वृत्तरेय प्र.॥ १४°ल्पः एवं य० ॥१५ °पक्षते प्र०॥ १६ एतेम प्र. ॥१७°चादेः भा० । वादः य० ॥१८ पत्तेरणूनां य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org