________________
१०३
दिङ्गागकल्पितप्रत्यक्षे दोषाः] द्वादशारं नयचक्रम् आदिप्रतिज्ञातार्थनिरसनम् ।
अनेकान्तवद्वयोरन्तयोरवस्थातव्यम् - प्रत्येकतायां चावस्थेयमग्न्यम्भोवच्च तदशक्यशक्ते समुदाये, साक्षात् त्वदुक्ततत्त्वत्वादनेकैकत्वभृशगत्यर्थसमुदायपरिग्रहाच ।
इतरथापि चैषां समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवत् ।। बौद्धरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, प्रत्येकनिगमनपरिग्रहेण वा आदिप्रतिज्ञातार्थनिरसनम् । वाशब्दस्य 'विकल्पत्वात् स्वलक्षणविषयप्रत्यक्षत्वं वा निरस्यते, अनेकार्थजन्यस्वार्थसामान्यगोचरता वा, उभयं वा निरस्यत इति ।
किश्चान्यत् , प्रत्येकं ते समुदिताः कारणमिति वचनादव्यस्ता इत्येतदर्थादापन्नमिति तैदेव पुनः 10 स्मारयति दोषान्तरैः - अनेकान्तवद् द्वेयोरन्तयोरवस्थातव्यम्। द्वावन्तौ द्वौ देशौ, द्वयोर्देशयोरवस्थेयं तैः परमाणुभिरेकतः प्रत्येकसमुदितैः । किमिव ? अनेकान्तवत् । अनेकान्तेन तुल्यं वर्तत इत्यनेकान्तवत् , यथा द्रव्यान्तपर्यायान्तयोरवतिष्ठमानाः परमाणवस्त एव तत्समुदायश्चेति व्यपदिश्यन्ते तथा प्रत्येकतायां चावस्थेयमित्यनेकान्तसाधर्म्य दर्शयति । चशब्दः समुच्चये, किं समुच्चिनोति ? समुदायमुपरितनम् , ७२-२ प्रत्येकतायां च समुदाये चावस्थातव्यमिति । अंग्यम्भोवच्च तदशक्यशक्ते समुदाये, अग्नेः शक्यं दहनादि ह्रादनस्नेहनाद्यशक्यम् , अम्भसस्तु स्नेहनादनादि शक्यमशक्यं दहनादि, तदशक्ये शक्तस्त- 15 दशक्यशक्तः प्रत्येकाशक्ये शक्तः समुदायः । वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः सङ्घातभेदपंरिणामापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभयान्तात्यागवादिनो जैना यद् वदन्ति तदेव तवाप्यापन्नम् । कुतः ? साक्षात्त्वदुक्ततत्त्वत्वात् , त्वयैव साक्षादुक्तं तत्त्वमेषां परमाणूनाम् ‘प्रत्येकं चक्षुर्विज्ञानोत्पादने न शैक्ताः, समुदिताः शक्ताः' इति । एवं तावत् साक्षादनेकान्ताभ्युपगमः । अर्थापत्त्या वाभ्युपगत एव, अनेकैकत्वभृशगत्यर्थसमुदायपरिग्रहाच्च । समित्येकीभावे, स चैकीभावोऽनेकस्य, 20 इण गतौ [पा० धा० १०४५], अयनं गमनं गतिराय इति पर्यायाः, उत्कटाय उदायः, सङ्गतो भृशमायः, समुदायशब्दस्य तत्परिग्रहात् 'प्रत्येकं ते समुदिता अनेकैकीभूतभृशगतयः' इत्यर्थः कृतः, तस्माच्चानेकान्तवादाभ्युपगमः ।
किश्चान्यत् , इतरथापि चैषां समुदाय एव न स्यात् , न्यायतोऽपीत्यर्थः, एतत् प्रतिज्ञानम् । समुदाय एव न स्यात् , प्रत्येकमभूतत्वात् , वन्ध्यापुत्रवदित्येष न्यायः, यथा प्रत्येकमभूतानां वन्ध्या- 25 पुत्राणां समुदायो नास्ति तथा परमाणूनामिति । नन्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति चेत्, नेत्युच्यते, बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य ।
१ विलक्षणत्वात् खल य० ॥ २ दृश्यतां पृ० ९६ पं० ३०॥ ३ तदेवं य० ॥ ४ स्मरयति प्र० ॥ ५ द्वयोरन्तरयों य०॥ ६ पर्यायांतरयों य०॥ ७धावस्था प्र०॥ ८ अग्न्यंभावच भा० । अझ्यभावश्च य.॥ ९°परिमाणापेक्षा य० ॥ १० °भयानां त्याग प्र० ॥ ११ साक्षात्तदुक्ततत्वत्वात् तयैव प्र० ॥ १२ शक्तः प्र०॥ १३ पत्यवाभ्यु वि. भा० । पत्यु वाभ्यु वि० भा० विना ॥ १४ उदाय संगतो भृशं आयः प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org