________________
१०२ न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[प्रथमे विध्यरे - नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, असश्चितपरमाण्वालम्बनश्रयणात् प्रत्येकदर्शनशक्तिख्यापनाजनकानन्यथात्वात् सञ्चयाभावात् ।
आदिप्रतिज्ञानवत् खलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतदनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् । प्रत्यवेक्षितपूर्वापरानुमतनिगमनपरिग्रहेण वा । अत्रोच्यते - नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था। अभ्युपगतं सञ्चितालम्बनाः पञ्च विज्ञानकायाः [अभि० पि.] इति, तस्याभ्युपगतस्य निराकरणं फलमस्याः प्रत्यक्षव्यवस्थायाः । कुतः ? असञ्चितपरमाण्वालम्बनश्रयणात् , प्रत्येकं दर्शनशक्तिमतामिन्द्रियविषयपरमाणूनां दर्शनशक्तिव्यक्तिरित्यस्यां कल्पनायां नन्वसञ्चिताः परमाणवश्चक्षुर्विज्ञानोत्पादनशक्ता इत्येतदाश्रितं भवति पश्चानां विज्ञानकायानामसञ्चितालम्बनत्वम् । तच्चाभ्युपगतं निरुणद्धि सञ्चितालम्बनत्वमिदं कल्पनान्तराश्रयणम् । 10 किं कारणम् ? प्रत्येकदर्शनशक्तिख्यापनात् , शिबिकावाहकसाधात् त एव हि दर्शनशक्तियुक्ताः प्रत्येकमिति भवति । स्यान्मतम् - ननु प्रत्येकशक्तानामेव सञ्चये तच्छक्त्यभिव्यक्तिरित्युक्तम् । आचार्य आह - सत्यम् , उक्तमेतत् , अयुक्तम् , किं कारणम् ? जनकानन्यथात्वात् , न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद् विस्तरेण प्रतिपादितम् , तस्माजनकानन्यथात्वात् सञ्चया
भावात् प्रत्येकं दर्शनशक्त्यभिव्यक्तिप्रत्यक्षव्यवस्था अभ्युपगतनिराकरणफलैवेयम् । अथवा जनकानामन्यः 15 प्रकारोऽन्यथा, तद्भावोऽन्यथात्वम् , तत्प्रतिषेधो जनकानन्यथात्वम् , तस्माज्जनकानां परमाणूनामतीन्द्रिया
णामनन्यथात्वीदैन्द्रियकत्वव्यवस्थानाभावात् सञ्चयस्यार्थान्तरभूतस्याभावादसञ्चितपरमाण्वालम्बनश्रयणं तवस्थम् ।
अथवा युक्तैषा कल्पना त्वयाश्रयितुं 'स्वलक्षणविषयं प्रत्यक्षम्' इत्येतत्प्रतिज्ञानसंवादित्वात् तन्नि७२-१ र्वोढुकामेन । यस्मात् प्रत्येकं ते समुदिताः कारणम् [प्रै० समु० वृ० १।१५] इत्येतत् प्रत्यक्षविषयसमर्थन20 वचनमादिप्रतिज्ञानेन तुल्यं वर्तत इति आदिप्रतिज्ञानवत् , आदिप्रतिज्ञानानुरूपम् , या हि प्रतिज्ञा
'स्वलक्षणविषयं प्रत्यक्षम्' इति सैतेन वचनेन निरुह्यते, यस्मात् स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् 'स्वलक्षणविषयं प्रत्यक्षम्' इति आदौ प्रतिज्ञाय प्रत्येकं ते समुदिताः कारणमिति ब्रुवताऽणूनां स्वलक्षणत्वात् प्रत्यवेक्षितपौर्वापर्यसाध्यसाधनसम्बन्धं हि वक्तव्यम् । अहो साधु, किन्तु पुनरत्र
देवानांप्रिय भवतो दोषजातम् । किं तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् , तत्रा25 नेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरम् [प्र. समु० १।४] इति चोद्योत्तरपक्षपरिग्रहेण प्रत्यवेक्षितपौर्वापर्यसौस्थित्यार्थनिगमनवचनमनेन तु निरस्यते। अथ मा भूदेष दोष इति प्रत्यवेक्षितपूर्वापरानुमत
१ दृश्यतां पृ. ६४ पं० १॥ २ °दनशक्त्या य० । दननशक्ता भा० ॥ ३ निरुद्धि प्र०॥ ४°लंबनन
लंबमनत्वमिदं भा०॥ ५'सत्यम, उक्तमेतत, अयक्तं तक्तम' इत्यपि पाठः सम्भवेदत्र ॥ ६ नन्यथात् प्र०॥ ७°नन्यत्वात् य० ॥८व्यक्तप्रत्यक्ष वि० । अत्र व्यक्तः प्रत्यक्ष इति सम्भवेत् पाठः ॥ ९°न्यथान्यथा भा० । न्यथा २ य० ॥ १० त्वादैन्द्रियिकत्व भा०॥ ११ भावा संचय प्र० ॥ १२°दसतिपरमाण्वा प्र०॥ १३ दृश्यतां पृ. ९६ पं० ३०॥ १४ प्रत्यवेक्षितप्योर्थोपर्यसाध्य भा० । प्रत्यवेक्षितव्योर्थोपर्यसाध्य य० ॥१५ प्रत्यवेक्षितयाथापयं सौस्थित्या प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org