________________
दिङ्गागकल्पितप्रत्यक्षे दोषाः ] द्वादशारं नयचक्रम् म्बनम् , अन्यथा परमार्थतो विद्यमानत्वात् तदसाधारणविषयत्वाद्वा, रसज्ञानवत् ।
ननु च प्रत्येकमेव ते समुदिताः कारणम् , तथासन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम् , तदवस्थानां ज्ञानोत्पादनशक्त्यभिव्यक्तेः, चक्षुरादिपरमाणूनामिव । न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पादयितुमलम् , न तत्समुदायः प्रज्ञप्तिसत्त्वात् । प्रत्येककारणतायामणूनां समुदाये 5 दर्शनशक्तिव्यक्तिः, शिविकावाहकसमुदायवहनशक्तिवत् , अन्धपतिवत् प्रत्येकादर्शनवैलक्षण्येन। चक्षुर्विज्ञानम् , तदसाधारणविषयत्वाद्वा, तस्यासाधारणविषयत्वाचक्षुर्विज्ञानस्य । असाधारण एकैको नीलपरमाणुर्विषयोऽस्येति तदसाधारणविषयत्वम् , तच्च सिद्धम् , प्रत्येकं च ते समुदिताः कारणम् [प्रै० समु० वृ० १।१५] इति वचनात् । तस्मादसाधारणविषयत्वाद्वा रसज्ञानवत् , यथा रसज्ञानम- 10 साधारणविषयत्वान्नीलपरमाण्वालम्बनं न भवत्येवं चक्षुर्विज्ञानमपि । वाशब्दात् तन्नीलपरमाणवश्चक्षुर्विषया न भवन्ति, असाधारणविषयत्वात् , असाधारणाश्च ते विषयाश्च, रसज्ञानवत् , रसज्ञाने इव रसज्ञानवत्, यथा रसज्ञाने रसलक्षणोऽर्थोऽसाधारणविषयत्वात् त्वन्मतेनैव चक्षुर्विज्ञानविषयो न भवति एवं नीलपरमाणव इति ।
इतर आह - ननु च प्रत्येकमेव ते समुदिताः कारणमित्यादि यौवदन्धपङ्गिवत् प्रत्येका-15 दर्शनवैलक्षण्येनेति । ननु मया विशेष्योक्तम् - प्रत्येकमेव ते समुदिताः कारणमिति । किमुक्तं भवति ? ७१-१ तथासन्त एव परमाणुत्वेन परमार्थसन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम् । किं कारणम्! तदवस्थानां ज्ञानोत्पादनशक्त्यभिव्यक्तेः, समुदाय अवस्था येषां ते तदवस्थाः, तदवस्था एव हि ज्ञानमुत्पादयितुं शक्ताः, सा हि ज्ञानोत्पादनशक्तिः प्रत्येकं विद्यमानापि नाभिव्यज्यते, समुदायेऽभिव्यज्यते । को दृष्टान्तः ? चक्षुरादिपरमाणूनामिव प्रत्येकं रूपदर्शनशक्तानामपि न सा 20 शक्तिरभिव्यज्यते समुदाये त्वभिव्यज्यते, तद्वदालम्बनपरमाणूनामपि । विषय-विषयिपरमाणूनां प्रत्येक तच्छक्तीनामप्यसमुदितानां शक्त्यभावं तुल्यं दर्शयति - न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पादयितुमलमिति । न तत्समुदायः प्रज्ञप्तिसत्त्वात् , नापि तेषामिन्द्रियविषयपरमाणूनां समुदायो विज्ञानमुत्पादयितुमलं प्रज्ञप्तिसत्त्वात् परमार्थतोऽसत्त्वादित्यर्थः । तस्मादेकमेकं प्रति कारणभावः प्रत्येककारणता, तस्यां सत्यामेव प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः । किमिव ? 25 शिबिकावाहकसमुदायवहनशक्तिवत् , यथा शिबिकावाहकानां प्रत्येकं विद्यमानैव सा वहनशक्तिः समुदायेऽभिव्यज्यते तथेन्द्रियविषयपरमाणूनां दर्शनदृश्यशक्तिः । वैधयेण अन्धपतिः प्रत्येकादर्शनवैलक्षण्येन, यथान्धानां प्रत्येकमसती दर्शनशक्तिव्यक्तिस्तत्पतावपि न भविष्यति तथेहेन्द्रियविषयद्रष्ट्रदृश्यशक्तयो नाभविष्यन् , भवन्ति तु । तस्मात् प्रत्येकं विद्यमानशक्तय एवेन्द्रियविषयपरमाणवः समुदायेऽ-७१-२ भिव्यक्तशक्तयो भवन्तीति ।
१ तस्य साधा प्र० ॥ २ दृश्यतां पृ० ९६ पं० ३० ॥ ३ यावदत्वपंक्तिव प्रत्येका भा० । यावदत्वपंक्ति च प्रत्येका य० ॥ ४ 'मानाभिव्यज्यते य० ॥५ दर्शनीशक्ति प्र. ॥ ६ तथेन्द्रि य० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org